पञ्चमोऽध्यायः ।
अथातो मात्राशितीयमध्यायं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
मात्राशी स्यात् । आहारमात्रा पुनरग्निबलापेक्षिणी ॥३॥
यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावदस्य मात्राप्रमाणं वेदितव्यं भवति ॥४॥
तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादी-
न्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति ।
तथा पिष्टेक्षुक्षीरविकृतितिलमाषानूपौदकपिशितादीन्याहारद्रव्याणि
प्रकृतिगुरूण्यपि मात्रामेवापेक्षन्ते ॥५॥
न चैवमुक्ते द्रव्ये गुरुलाघवमकारणं मन्येत, लघूनि हि द्रव्याणि
वाय्वग्निगुणबहुलानि भवन्ति, पृथ्वीसोमगुणबहुलानीतराणि,
तस्मात् स्वगुणादपि लघून्यग्निसधुक्षणस्वभावान्यल्पदोषाणि
चोच्यन्तेऽपि सौहित्योपयुक्तानि, गुरूणि पुनर्नाग्निसन्धुक्षण-
स्वभावान्यसामान्यात्, अतश्चातिमात्रं दोषवन्ति सौहित्योपयुक्ता-
न्यन्यत्र व्यायामाग्निबलात्, सैषा भवत्यग्निबलापेक्षिणी मात्रा ॥६॥
न च नापेक्षते द्रव्यं, द्रव्यापेक्षया च त्रिभागसौहित्यमर्धसौहित्यं
वा गुरूणामुपदिश्यते, लघूनामपि च नातिसौहित्यमग्नेर्युक्त्यर्थम् ॥७॥
मात्रावद्ध्यशनमशितमनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयत्युप-
योक्तारमवश्यमिति ॥८॥
भवन्ति चात्र-
गुरु पिष्टमयं तस्मात्तण्डुलान् पृथुकानपि ।
न जातु भुक्तवान् खादेन्मात्रां खादेद्बुभुक्षितः ॥९॥
वल्लूरं शुष्कशाकानि शालूकानि बिसानि च ।
नाभ्यसेद्गौरवान्मांसं कृशं नैवोपयोजयेत् ॥१०॥
कूर्चिकांश्च किलाटांश्च शौकरं गव्यमाहिषे ।
मत्स्यान् दधि च माषांश्च यवकांश्च न शीलयेत् ॥११॥
षष्टिकाञ्छालिमुद्गांश्च सैन्धवामलके यवान् ।
आन्तरीक्षं पयः सर्पिर्जाङ्गलं मधु चाभ्यसेत् ॥१२॥
तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते ।
अजातानां विकाराणामनुत्पत्तिकरं च यत् ॥१३॥
अत ऊर्ध्वं शरीरस्य कार्यमक्ष्यञ्जनादिकम् ।
स्वस्थवृत्तिमभिप्रेत्य गुणतः संप्रवक्ष्यते ॥१४॥
सौवीरमञ्जनं नित्यं हितमक्ष्णोः प्रयोजयेत् ।
पञ्चरात्रेऽष्टरात्रे वा स्रावणार्थे रसाञ्जनम् ॥१५॥
चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम् ।
ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम् ॥१६॥
दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम् ।
विरेकदुर्बला दृष्टीरादित्यं प्राप्य सीदति ॥१७॥
तस्मात् स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते ।
यथा हि कनकादीनां मलिनां विविधात्मनाम् ॥१८॥
धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः ।
एवं नेत्रेषु मर्त्यानामञ्जनायोतनादिभि:॥१९॥
दृष्टीर्निराकुला भाति निर्मले नभसीन्दुवत् ।
हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम् ॥२०॥
ह्रीवेरं चन्दनं पत्रं त्वगेलोशीरपद्मकम् ।
ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम् ॥२१॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचः शुभाः ।
वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले ॥२२॥
श्रीवेष्टकं शल्लकीं च शुकबर्हमथापि च ।
पिष्ट्वा लिम्पेच्छरेषीकां तां वर्तिं यवसन्निभाम् ॥२३॥
अङ्गुष्ठसंमितां कुर्यादष्टाङ्गुलसमां भिषक् ।
शुष्कां निगर्भां तां वर्तिं धूमनेत्रार्पितां नर: ॥२४॥
स्नेहाक्तामग्निसंप्लुष्टां पिबेत् प्रायोगिकीं सुखाम् ।
वसाघृतमधूच्छिष्टैर्युक्तिर्युक्तैर्वरौषधैः ॥२५॥
वर्तिं मधुरकैः कृत्वा स्नैहिकीं धूममाचरेत् ।
श्वेता ज्योतिष्मति चैव हरितालं मनःशिला ॥२६॥
गन्धाश्चागुरुपत्राद्या धूमं मूर्धविरेचने ।
गौरवं शिरसः शूलं पीनसार्धावभेदकौ ॥२७॥
कर्णाक्षिशूलं कासश्च हिक्काश्वासौ गलग्रहः ।
दन्तदौर्बल्यमास्रावः श्रोत्रघ्राणाक्षिदोषजः ॥२८॥
पूतिर्घ्राणास्यगन्धश्च दन्तशूलमरोचकः ।
हनुमन्याग्रहः कण्डूः क्रिमयः पाण्डुता मुखे ॥२९॥
श्लेष्मप्रसेको वैस्वर्यं गलशुण्ड्युपजिह्विका ।
खालित्यं पिञ्जरत्वं च केशानां पतनं तथा ॥३०॥
क्षवथुश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता ।
धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम् ॥३१॥
शिरोरुक्कपालानामिन्द्रियाणां स्वरस्य च ।
न च वातकफात्मानो बलिनोऽप्यूर्ध्वजत्रुजाः ॥३२॥
धूमवक्त्रकपानस्य व्याधयः स्यु: शिरोगताः ।
प्रयोगपाने तस्याष्टौ कालाः संपरिकीर्तिताः ॥३३॥
वातश्लेष्मसमुत्क्लेशः कालेष्वेषु हि लक्ष्यते ।
स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान्निघृष्य च ॥३४॥
नावनाञ्जननिद्रान्ते चात्मवान् धूमपो भवेत् ।
तथा वातकफात्मानो न भवन्त्यूर्ध्वजत्रुजाः ॥३५॥
रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः ।
परं द्विकालपायी स्यादह्न: कालेषु बुद्धिमान् ॥३६॥
प्रयोगे, स्नैहिके त्वेकं, वैरेच्यं त्रिचतुः पिबेत् ।
हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः ॥३७॥
यथेरितानां दोषाणां सम्यक्पीतस्य लक्षणम् ।
बाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम् ॥३८॥
अकाले चातिपीतश्च धूमः कुर्यादुपद्रवान् ।
तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम् ॥३९॥
स्नैहिकं धूमजे दोषे वायुः पित्तानुगो यदि ।
शीतं तु रक्तपित्ते स्याच्छ्लेष्मपित्ते विरूक्षणम् ॥४०॥
परं त्वतः प्रवक्ष्यामि धूमो येषां विगर्हितः ।
न विरिक्तः पिबेद्धूमं न कृते बस्तिकर्मणि ॥४१॥
न रक्ती न विषेणार्तो न शोचन्न च गर्भिणी ।
न श्रमे न मदे नामे न पित्ते न प्रजागरे ॥४२॥
न मूर्च्छाभ्रमतृष्णासु न क्षीणे नापि च क्षते ।
न मद्यदुग्धे पीत्वा च न स्नेहं न च माक्षिकम् ॥४३॥
धूमं न भुक्त्वा दध्ना च न रूक्षः क्रुद्ध एव च ।
न तालुशोषे तिमिरे शिरस्यभिहिते न च ॥४४॥
न शङ्खके न रोहिण्यां न मेहे न मदात्यये ।
एषु धूममकालेषु मोहात् पिबति यो नरः ॥४५॥
रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात् ।
धूमयोग्यः पिबेद्दोषे शिरोघ्राणाक्षिसंश्रये ॥४६॥
घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपो वमेत् ।
आस्येन धूमकवलान् पिबन् घ्राणेन नोद्वमेत् ॥४७॥
प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुषी ।
ऋज्वङ्गचक्षुस्तच्चेताः सूपविष्टस्त्रिपर्ययम् ॥४८॥
पिबेच्छिद्रं पिधायैकं नासया धूममात्मवान् ।
चतुर्विंशतिकं नेत्रं स्वाङ्गुलीभिर्विरेचने ॥४९॥
द्वात्रिंशदङ्गुलं स्नेहे प्रयोगेऽध्यर्धमिष्यते ।
ऋजु त्रिकोषाफलितं कोलास्थ्यग्रप्रमाणितम् ॥५०॥
बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते ।
दूराद्विनिर्गतः पर्वच्छिन्नो नाडीतनूकृतः ॥५१॥
नेन्द्रियं बाधते धूमो मात्राकालनिषेवितः ।
यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत् ॥५२॥
कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत् ।
अविशुद्धः स्वरो यस्य कण्ठश्च सकफो भवेत् ॥५३॥
स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत् ।
तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते ॥५४॥
तृष्यते मुह्यते जन्तू रक्तं च स्रवतेऽधिकम् ॥
शिरश्च भ्रमतेऽत्यर्थं मूर्च्छा चास्योपजायते ॥५५॥
इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थं निषेविते ।
वर्षे वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत् ॥५६॥
प्रावृट्शरद्वसन्तेषु गतमेघे नभस्तले ।
नस्यकर्म यथाकालं यो यथोक्तं निषेवते ॥५७॥
न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते ।
न स्यु श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः ॥
न च केशाः प्रमुच्यन्ते वर्धन्ते च विशेषतः ।
मन्यास्तम्भः शिर:शूलमर्दितं हनुसंग्रहः ॥५९॥
पीनसार्धावभेदौ च शिरःकम्पश्च शाम्यति ।
सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः ॥६०॥
नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम् ।
मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान् ॥६१॥
सर्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम् ।
न चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः ॥६२॥
जीर्यताश्चोत्तमाङ्गेषु जरा न लभते बलम् ।
चन्दनागुरुणी पत्रं दार्वीत्वङ्मधुकं बलाम् ॥६३॥
प्रप्रौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम् ।
ह्रिबेरमभयं वन्यं त्वङ्मुस्तं सारिवां स्थिराम् ॥६४॥
जीवन्तीं पृश्निपर्णीं च सुरदारु शतावरीम् ।
हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम् ॥६५॥
विपाचयेच्छतगुणे माहेन्द्रे विमलेऽम्भसि ।
तैलाद्दशगुणं शेषं कषायमवतारयेत् ॥६६॥
तेन तैलं कषायेण दशकृत्वो विपाचयेत् ।
अथास्य दशमे पाके समांशं छागलं पयः ॥६७॥
दद्यादेषोऽणुतैलस्य नावनीयस्य संविधिः ।
अस्य मात्रां प्रयुञ्जीत तैलस्यार्धपलोन्मिताम् ॥६८॥
स्निग्धस्विन्नोत्तमाङ्गस्य पिचुना नावनैस्त्रिभिः ।
त्र्यहात्र्यहाच्च सप्ताहमेतत् कर्म समाचरेत् ॥६९॥
निवातोष्णसमाचारी हिताशी नियतेन्द्रियः ।
तैलमेतत् त्रिदोषघ्नमिन्द्रियाणां बलप्रदम् ॥७०॥
प्रयुञ्जानो यथाकालं यथोक्तानश्नुते गुणान् ।
आपोथिताग्रं द्वौ कालौ कषायकटुतिक्तकम् ॥७१॥
भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन् ।
निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम् ॥७२॥
निष्कृष्य रुचिमाधत्ते सद्यो दन्तविशोधनम् ।
करञ्जकरवीरार्कमालतीककुभासनाः ॥७३॥
शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः ।
सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि च ॥७४॥
जिह्वानिर्लेखनानि स्युरतीक्ष्णान्यनृजूनि च ।
जिह्वामूलगतं यच्च मलमुच्छ्वासरोधि च ॥७५॥
दौर्गन्ध्यं भजते तेन तस्माज्जिह्वां विनिर्लिखेत् ।
धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता ॥७६॥
जातीकटुकपूगानां लवङ्गस्य फलानि च ।
कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा ।
तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च ॥७७॥
हन्वोर्बलं स्वरबलं वदनोपचयः परः ।
स्यात् परं च रसज्ञानमन्ने च रुचिरुत्तमा ॥७८॥
न चास्य कण्ठशोषः स्यान्नौष्ठयोः स्फुटनाद्भयम् ।
न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च ॥७९॥
न शूल्यन्ते न चाम्लेन हृष्यन्ते भक्षयन्ति च ।
परानपि खरान् भक्ष्यांस्तैलगण्डूषधारणात् ॥८०॥
नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते ।
न खालित्यं न पालित्यं न केशाः प्रपतन्ति च ॥८१॥
बलं शिरःकपालानां विशेषेणाभिवर्धते ।
दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च ॥८२॥
इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम् ।
निद्रालाभः सुखं च स्यान्मूर्ध्नि तैलनिषेवणात् ॥८३॥
न कर्णरोगा वातोत्था न मन्याहनुसंग्रहः ।
नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णतर्पणात् ॥८४॥
स्नेहाभ्यङ्गाद्यथा कुम्भश्चर्म स्नेहविमर्दनात् ।
भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा ।८५॥
तथा शरीरमभ्यङ्गाद्दृढं सुत्वक् च जायते ।
प्रशान्तमारुतबाधं क्लेशव्यायामसंसहम् ॥८६॥
स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रितम् ।
त्वच्यश्च परमभ्यङ्गस्तस्मात्तं शीलयेन्नरः ॥८७॥
न चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः ।
विकारं भजतेऽत्यर्थं बलकर्माणि वा क्वचित् ॥८८॥
सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः ।
भवत्यभ्यङ्गनित्यत्वान्नरोऽल्पजर एव च ॥८९॥
खरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिश्च पादयोः ।
सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात् ॥९०॥
जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः ।
दृष्टीः प्रसादं लभते मारुताश्चोपशाम्यति ॥९१॥
न च स्याद्गृध्रसीवातः पादयोः स्फुटनं न च ।
न सिरास्नायुसंकोचः पादाभ्यङ्गेन पादयोः ॥९२॥
दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलमरोचकम् ।
स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम् ॥९३॥
पवित्रं वृष्यमायुष्यं श्रमस्वेदमलापहम् ।
शरीरबलसन्धानं स्नानमोजस्करं परम् ॥९४॥
काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम् ।
श्रीमत् पारिषदं शस्तं निर्मलाम्बरधारणम् ॥९५॥
वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम् ।
सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम् ॥९६॥
धन्यं मङ्गल्यमायुष्यं श्रीमव्द्यसनसूदनम् ।
हर्षणं काम्यमोजस्यं रत्नाभरणधारणम् ॥९७॥
मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम् ।
पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः ॥९८॥
पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम् ।
केशश्मश्रुनखादीनां कल्पनं संप्रसाधनम् ॥९९॥
चक्षुष्यं स्पर्शनहितं पादयोर्व्यसनापहम् ।
बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम् ॥१००॥
ईतेः प्रशमनं बल्यं गुप्त्यावरणशङ्करम् ।
घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते ॥१०१॥
स्खलतः संप्रतिष्ठानं शत्रूणां च निषूदनम् ।
अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम् ॥१०२॥
नगरी नगरस्येव रथस्येव रथी यथा ।
स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत् ॥१०३॥
भवति चात्र –
वृत्त्युपायान्निषेवेत ये स्युर्धर्माविरोधिनः ।
शममध्ययनं चैव सुखमेवं समश्नुते ॥१०४॥
तत्र श्लोकाः-
मात्रा द्रव्याणि मात्रां च संश्रित्य गुरुलाघवम् ।
द्रव्याणां गर्हितोऽभ्यासो येषां, येषां च शस्यते ॥१०५॥
अञ्जनं धूमवर्तिश्च त्रिविधा वर्तिकल्पना ।
धूमपानगुणाः कालाः पानमानं च यस्य यत् ॥१०६॥
व्यापत्तिचिह्नं भैषज्यं धूमो येषां विगर्हितः ।
पेयो यथा यन्मयं च नेत्रं यस्य च यद्विधम् ॥१०७॥
नस्यकर्मगुणा नस्तःकार्यं यच्च यथा यदा ।
भक्षयेद्दन्तपवनं यथा यद्यद्गुणं च यत् ॥१०८॥
यदर्थं यानि चास्येन धार्याणि कवलग्रहे ।
तैलस्य ये गुणा दिष्टाः शिरस्तैलगुणाश्च ये ॥१०९॥
कर्णतैले तथाऽभ्यङ्गे पादाभ्यङ्गेऽङ्गमार्जने ।
स्नाने वाससि शुद्धे च सौगन्ध्ये रत्नधारणे ॥११०॥
शौचे संहरणे लोमनं पादत्रच्छत्रधारणे ।
गुणा मात्राशितीयेऽस्मिंस्तथोक्ता दण्डधारणे ॥१११॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने
मात्राशितीयो नाम पञ्चमोऽध्यायः समाप्तः ॥५॥
Last updated on May 27th, 2021 at 09:53 am