सुश्रुतसंहिता ।
सूत्रस्थानम् ।
षोडशोऽध्याय: ।
अथात: कर्णव्यधबन्धविधिमध्यायं व्याख्यास्याम:॥१॥
यथोवाच भगवान् धन्वन्तरि: ॥२॥
रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते । तौ षष्ठे मासि सप्तमे वा शुक्लपक्षे प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु कृतमङ्गलस्वस्तिवाचनं धात्र्य्रङ्के कुमारधराङ्के वा कुमारमुपवेश्य बालक्रीडनकै: प्रलोभ्याभिसान्त्वयन् भिषग्वामहस्तेनाकृष्य कर्णं दैवकृते छिद्र आदित्यकरावभासिते शनै: शनैर्दक्षिणहस्तेनर्जं विध्येत्, प्रतनुकं सूच्या, बहलमारया, पूर्वे दक्षिणं कुमारस्य, वामं कुमार्या:, तत: पिचुवर्तिं प्रवेशयेत् ॥३॥
शोणितबहुत्वेन वेदनया चान्यदेशविद्धमिति जानीयात्, निरुपद्रवतया तद्देशविद्धमिति ॥४॥
तत्राज्ञेन यदृच्छया विद्धासु सिरासु कालिका मर्मरिकालोहितिकासूपद्रवा भवन्ति । तत्र, कालिकायां ज्वरो दाह: श्वयथुर्वेदना च भवति, मर्मरिकायां वेदना ज्वरो ग्रन्थयश्च, लोहितिकायां मन्यास्तम्भापतानकशिरोग्रहकर्णशूलानि भवन्ति । तेषप्नु यथास्वं प्रतिकुर्वीत ॥५॥
क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्तित्वाद्दोषसमुदायादप्रशस्तव्यधाद्वा यत्र संरम्भो वेदना वा भवति तत्र वर्तिमुपहृत्याशु मधुकैरण्डमूलमञ्जिष्ठायवतिलकल्कैर्मधुघृतप्रगाढैरालेपयेत्तावद्यावत् सुरूढ इति, सुरूढं चैनं पुनर्विध्येत्, विधानं तु पूर्वोक्तंमेव ॥६॥
तत्र सम्यग्विद्धमामतैलेन परिषेचयेत्, त्र्यहात् त्र्यहाच्च वर्तिं स्थूलतरां दद्यात्, परिषेकं च तमेव ॥७॥
अथ व्यपगतदोषोपद्रवे कर्णे वर्धनार्थं लघु वर्धनकं कुर्यात् ॥८॥
एवं विवर्धित: कर्णश्छिद्यते तु द्विधा नृणाम् ॥
दोषतो वाऽभिघाताद्वा सन्धानं तस्य मे शृणु ॥९॥
तत्र समासेन पञ्चदशकर्णबन्धाकृतय: । तद्यथा – नेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्यो निर्वेधिमो व्यायोजिम: कपाटसन्धिकोऽर्धकपाटसन्धिक: संक्षिप्तो हीनकर्णो वल्लीकर्णो यष्टिकर्ण: काकौष्ठक इति । तेषु, पृथुलायतसमोभयपालिर्नेमिसन्धानक:, वृत्तायतसमोभयपालिरुत्पलभेद्यक:, ह्रस्ववृत्तसमोभयपालिर्वल्लूरक:, अभ्यन्तरदीर्घेक- पालिरासङ्गिम:, बाह्यदीर्घैकपालिर्गण्डकर्ण:, अपालिरुभयतोऽप्याहार्य:, पीठोपमपालिरुभयत: क्षीणपुत्रिकाश्रितो निर्वेधिम:, स्थूलाणुसमविषमपालिर्व्यायोजिम:, अभ्यन्तरदीर्घैकपालिरितराल्पपालि: कपाटसन्धिक:, बाह्यदीर्घैकपालिरितराल्प- पालिरर्धकपाटसन्धिक: । तत्र दशैते कर्णबन्धविकल्पा: साध्या:, तेषां स्वनामभिरेवाकृतय: प्रायेण व्याख्याता: । संक्षिप्तादय: पञ्चासाध्या: । तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालि: संक्षिप्त:, अनधिष्ठानपालि: पर्यन्तयो: क्षीणमांसो हीनकर्ण:, तनुविषमाल्पपालिर्वल्लीकर्ण:, ग्रथितमांसस्तब्धसिराततसूक्ष्मपालिर्यष्टिकर्ण:, निर्मास संक्षिप्ताग्राल्पशोणितपालि: काकौष्ठक इति । बद्धेष्वपि तु शोफदाहरागपाकपिडकास्रावयुक्ता न सिद्धिमुपयान्ति ॥१०॥
भवन्ति चात्र –
यस्य पालिद्वयमपि कर्णस्य न भवेदिह ॥
कर्णपीटं समे मध्ये तस्य विद्ध्वा विवर्धयेत् ॥११॥
बाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत् ॥
आभ्यन्तरायां दीर्घायां बाह्यसन्धिरुदाहृत: ॥१२॥
एकैव भवेत् पालि: स्थूला पृथ्वी स्थिरा च या ॥
तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् ॥
गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता ॥
कर्णपालीमपालेस्तु कुर्यान्निर्लिख्य शास्त्रवित् ॥१४॥
अतोऽन्यतमं बन्धं चिकीर्षुरग्रोपहरणीयोक्तोपसंभृतसंभारं विशेषतश्चात्रोपहरेत् सुरामण्डं क्षीरमुदकं धान्याम्लं कपालचूर्णे चेति । ततोऽङ्गनां पुरुषं वा ग्रथितकेशान्तं लघु भुक्तवन्तमाप्तै: सुपरिगृहीतं च कृत्वा, बन्धमुपधार्य, छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य, कर्णशोणितमवेक्ष्य दुष्टमदुष्टं वेति, तत्र वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तुदष्टे शीतोदकपयोभ्यां श्लेष्मदुष्टे सुरामण्डोष्णोदकाभ्यां प्रक्षाल्य कर्णौ, पुनरवलिख्यानुन्नतमहीनमविषमं च कर्णसन्धिं सन्निवेश्य, स्थितरक्तं संदध्यात् । ततो मधुघृतेनाभ्यज्य पिचुप्रोतयोरन्यतरेणावगुण्ठ्य सुत्रेणानवगाढमनतिशिथिलं च बद्ध्वा कपालचूर्णेनावकीर्याचारिकमुपदिशेत्, द्विव्रणीयोक्तेन च विधानेनोपचरेत् ॥१५॥
भवति चात्र –
विघट्टनं दिवास्वप्नं व्यायाममतिभोजनम् ॥
व्यवायमग्निसंतापं वाक्श्रमं च विवर्जयेत् ॥१६॥
न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा संदध्यात् । स हि वातदुष्टे रक्ते रूढोऽपि परिपुटनवान्, पित्तदुष्टे दाहपाकरागवेदनावान्, श्लेष्मदुष्टे स्तब्ध: कण्डूमान्, अतिप्रवृत्तरक्ते श्यावशोफवान्, क्षीणोऽल्पमांसो न वृद्धिमुपैति ॥१७॥
(आमतैलेन त्रिरात्रं परिषेचयेत्, त्रिरात्राच्च पिचुं परिवर्तयेत् ।) स यदा सुरूढो निरुपद्रव: सवर्णो भवति तदैनं शनै: शनैरभिवर्धयेत् । अतोऽन्यथा संरम्भदाहपाकरागवेदनावान्, पुनश्छिद्यते वा ॥१८॥
अथास्याप्रदुष्टस्याभिवर्धनार्थमभ्यङ्ग: । तद्यथा, – गोधाप्रतुदविष्किरानूपौदकवसामज्जानौ पय: सर्पिस्तैलं गौरसर्षपजं च यथालाभं संभृत्यार्कालर्कबलातिबलानन्तापामार्गाश्वगन्धाविदारिगन्धाक्षीरशुक्लाजलशूकमधुरवर्गपयस्याप्रतिवापं तैलं वा पाचयित्वा स्वनुगुप्तं निदध्यात् ॥१९॥
स्वेदितोन्मर्दितं कर्णं स्नेहेनैतेन योजयेत् ॥
अथानुपद्रव: सम्यग्बलवांश्च विवर्धते ॥२०॥
शतावर्यश्वगन्धाभ्यां पयस्यैरण्डजीवनै: ॥२१॥
तैलं विपक्वं सक्षीरमभ्यङ्गात् पालिवर्धनम् ॥
ये तु कर्णा न वर्धन्ते स्वेदस्नेहोपपादिता: ॥२२॥
तेषामपाङ्गदेशे तु कुर्यात् प्रच्छानमेव तु ॥
बाह्यच्छेदं न कुर्वीत व्यापद: स्युस्ततो ध्रुवा: ॥२३॥
बद्धमात्रं तु य: कर्णे सहसैवाभिवर्धयेत् ॥
आमकोशी समाध्मात: क्षिप्रमेव विमुच्यते ॥२४॥
जातरोमा सुवर्त्मा च श्लीष्टसन्धि: सम: स्थिर: ॥
सुरूढोऽवेदनो यश्च तं कर्णं वर्धयेच्छनै: ॥२५॥
अमिता: कर्णबन्धास्तु विज्ञेया: कुशलैरिह॥
यो यथा सुविशिष्ट: स्यात्तं तथा विनियोजयेत् ॥
(कर्णपाल्यामयान्नॄणां पुनर्वक्ष्यामि सुश्रुत ! ॥
कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रय: ॥१॥
द्विधा वाऽप्यथ संसृष्टा: कुर्वन्ति विविधा रुज: ॥
विस्फोट: स्तब्धता शोफ: पाल्यां दोषे तु वातिके
दाहविस्फोटजननं शोफ: पाकश्च पैत्तिके ॥
कण्डू: सश्वयथु: स्तम्भो गुरुत्वं च कफात्मके ॥३॥
यथादोषं च संशोध्य कुर्यात्तेषां चिकित्सितम् ॥
स्वेदाभ्यङ्गपरीषेकै: प्रलेपासृग्विमोक्षणै: ॥४॥
मृद्नीं क्रियां बृहणीयैर्यथास्वं भोजनैस्तथा ॥
य एवं वेत्ति दोषाणां चिकित्सां कर्तुमर्हति ॥५॥
अत ऊर्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान् ॥
उत्पाटकश्चोत्पुटक: श्याव: कण्डूयुतो भृशम् ॥६॥
अवमन्थ: सकण्डूको ग्रन्थिको जम्बुलस्तथा ॥
स्रावी च दाहवांश्चव शृण्वेषां क्रमश: क्रियाम् ॥७॥
अपामार्ग: सर्जरस: पाटलालकुचत्वचौ ॥
उत्पाटके प्रलेप: स्यात्तैलमेभिश्च पाचयेत् ॥८॥
शम्पाकशिग्रुपूतीकान् गोधामेदोऽथ तद्वसाम् ॥
वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत् ॥९॥
लेपमुत्पुटके दद्यात्तैलमेभिश्च साधितम् ॥
गौरी सुगन्धां सश्यामामनन्तां तण्डुलीयकम् ॥१०॥
श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम् ॥
पाठां रसाञ्जनं क्षौद्रं तथा स्यादुष्णकाञ्जिकम् ॥११॥
दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम् ॥
व्रणीभूतस्य देयं स्यादिदं तैलं विजानता ॥१२॥
मधुकक्षीरकाकोलीजीवकाद्यैर्विपाचितम् ॥
गोधावराहसर्पाणां वसा: स्यु: कृतबृंहणे ॥१३॥
प्रलेपनमिदं दद्यादवसिच्यावमन्थके ॥
प्रपौण्डरीकं मधुकं समङ्गां धवमेव च ॥१४॥
तैलमेभिश्च संपक्वं शृणु कण्डूमत: क्रियाम् ॥
सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम्
एतैरालेपनं दद्यात्तैलमेभिश्च साधितम् ॥१५॥
ग्रन्थिके गुटिकां पूर्वे स्रावयेदवपाट्य तु ॥
तत: सैन्धवचूर्णे तु घृष्ट्वा लेपं प्रदापयेत् ॥१६॥
लिखित्वा तत्स्रुतं घृष्ट्वा चूर्णैर्लोध्रस्य जम्बुले ॥
क्षीरेण प्रतिसार्यैनं शुद्धं संरोपयेत्तत: ॥१७॥
मधुपर्णी मधूकं च मधुकं मधुना सह ॥
लेप: स्राविणि दातव्यस्तैलमेभिश्च साधितम् ॥१८॥
पञ्चवल्कै: समधुकै: पिष्टैस्तैश्च घृतान्वितै: ॥
जीवकाद्यै: ससर्पिष्कैर्दह्यमानं प्रलेपयेत् ॥१९॥)
विश्लेषितायास्त्वथ नासिकाया
वक्ष्यामि सन्धानविधिं यथावत् ॥
नासाप्रमाणं पृथिवीरुहाणां
पत्रं गृहीत्वा त्ववलम्बि तस्य ॥२७॥
तेन प्रमाणेन हि गण्डपार्श्वादुत्कृत्य बद्धं त्वथ नासिकाग्रम् ॥
विलिख्य चाशु प्रतिसंदधीत तत् साधुबन्धैर्भिषगप्रमत्त: ॥२८॥
सुसंहितं सम्यगतो यथावन्नाडीद्वयेनाभिसमीक्ष्य बद्ध्वा॥
प्रोन्नम्य चैनामवचूर्णयेत्तु पतङ्गयष्टीमधुकाञ्जनैश्च ॥२९॥
संछाद्य सम्यक् पिचुना सितेन तैलेन सिञ्चेदसकृत्तिलानाम् ॥
घृतं च पाय्य: स नर: सुजीर्णे स्निग्धो विरेच्य: स यथोपदेशम् ॥३०॥
रूढं च सन्धानमुपागतं स्यात्तदर्धशेषं तु पुनर्निकृन्तेत् ॥
हीनां पुनर्वर्धयितुं यतेत समां च कुर्यादतिवृद्धमांसाम् ॥३१॥
नाडीयोगं विनौष्ठस्य नासासन्धानवद्विधिम् ॥
य एवमेव जानीयात् स राज्ञ: कर्तुमर्हति ॥३२॥
इति श्रीसुश्रुतसंहितायां सूत्रस्थाने कर्णव्यधबन्धविधिर्नाम षोडशोऽध्याय: ॥१६॥
Last updated on May 24th, 2021 at 06:19 am