Skip to content

29. स्कन्दापस्मारप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

एकोनत्रिंशत्तमोऽध्याय: ।

अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

बिल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः |
परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ||३||

सर्वगन्धविपक्वं तु तैलमभ्यञ्जने हितम् |
क्षीरवृक्षकषाये च काकोल्यादौ गणे तथा ||४||

विपक्तव्यं घृतं चापि पानीयं पयसा सह |
उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम् ||५||

गृध्रोलूकपुरीषाणि केशा हस्तिनखा घृतम् |
वृषभस्य च रोमाणि योज्यान्युद्धूपनेऽपि च ||६||

अनन्तां कुक्कुटीं बिम्बीं मर्कटीं चापि धारयेत् |
पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः ||७||

भूतौदनो निवेद्यश्च स्कन्दापस्मारिणेऽवटे |
चतुष्पथे च कर्तव्यं स्नानमस्य यतात्मना ||८||

स्कन्दापस्मारसञ्ज्ञो यः स्कन्दस्य दयितः सखा |
विशाखसञ्ज्ञश्च शिशोः शिवोऽस्तु विकृताननः ||९||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दापस्मारप्रतिषेधो नाम (तृतीयोऽध्यायः, आदितः) एकोनत्रिंशोऽध्यायः ||२९||

Last updated on July 8th, 2021 at 11:53 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English