Skip to content

32. Kshudraroga Pratishedha – Uttara – AH”

अष्टाङ्गहृदये (उत्तरस्थानम्‌)

क्षुद्ररोगप्रतिषेधं द्वात्रिंशोऽध्यायः।

अथातः क्षुद्ररोगप्रतिषेधं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

विस्रावयेज्जलौकोभिरपक्वामजगल्लिकाम्‌।

स्वेदयित्वा यवप्रख्यां विलयाय प्रलेपयेत्‌॥१॥

दारुकुष्ठमनोह्वालैर्‌ इत्यापाषाणगर्दभात्‌।

विधिस्तांश्चाचरेत्पक्वान्‌ व्रणवत्साजगल्लिकान्‌॥२॥

रोध्रकुस्तुम्बरुवचाः प्रलेपो मुखदूषिके।

वटपल्लवयुक्ता वा नारिकेलोत्थशुक्तयः॥३॥

अशान्तौ वमनं नस्यं ललाटे च सिराव्यधः।

निम्बाम्बुवान्तो निम्बाम्बुसाधितं पद्मकण्टके॥४॥

पिबेत्क्षौद्रान्वितं सर्पिर्निम्बारग्वधलेपनम्‌।

विवृतादींस्तु जालान्तांश्चिकित्सेत्सेरिवेल्लिकान्‌॥

पित्तवीसर्पवत्तद्वत्‌ प्रत्याख्यायाग्निरोहिणीम्‌॥५॥

विलङ्घनं रक्तविमोक्षणं च

विरूक्षणं कायविशोधनं च।

धात्रीप्रयोगान्‌ शिशिरप्रदेहान्‌

कुर्यात्सदा जालकगर्दभस्य॥६॥

विदारिकां हृते रक्ते श्लेष्मग्रन्थिवदाचरेत्‌।

मेदोर्बुदक्रियां कुर्यात्सुतरां शर्करार्बुदे॥७॥

प्रवृद्धं सुबहुच्छिद्रं सशोफं मर्मणि स्थितम्‌।

वल्मीकं हस्तपादे च वर्जयेद्‌ इतरत्पुनः॥८॥

शुद्धस्यास्रे हृते लिम्पेत्‌ सपट्वारेवतामृतैः

श्यामाकुलत्थिकामूलदन्तीपललसक्तुभिः॥९॥

पक्वे तु दुष्टमांसानि गतीः सर्वाश्च शोधयेत्‌।

शस्त्रेण सम्यगनु च क्षारेण ज्वलनेन वा॥१०॥

शस्त्रेणोत्कृत्य निःशेषं स्नेहेन कदरं दहेत्‌।

निरुद्धमणिवत्कार्यं रुद्धपायोश्चिकित्सितम्‌॥११॥

चिप्यं शुद्ध्या जितोष्माणं साधयेच्छस्त्रकर्मणा।

दुष्टं कुनखमप्येवं चरणावलसे पुनः॥१२॥

धान्याम्लसिक्तौ कासीसपटोलीरोचनातिलैः।

सनिम्बपत्रैरालिम्पेद्‌ दहेत्तु तिलकालकान्‌॥१३॥

मषांश्च सूर्यकान्तेन क्षारेण यदि वाऽग्निना।

तद्वदुत्कृत्य शस्त्रेण चर्मकालजतूमणी॥१४॥

लाञ्छनादित्रये कुर्याद्यथासन्नं सिराव्यधम्‌।

लेपयेत्क्षीरपिष्टैश्च क्षीरिवृक्षत्वगङ्कुरैः॥१५॥

व्यङ्गेषु चार्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका।

लेपः सनवनीता वा श्वेताश्वखुरजा मषी॥१६॥

रक्तचन्दनमञ्जिष्ठाकुष्ठरोध्रप्रियङ्गवः।

वटाङ्कुरा मसूराश्च व्यङ्गघ्ना  मुखकान्तिदाः॥१७॥

द्वेजीरके कृष्णतिलाः सर्षपाः पयसा सह।

पिष्टाः कुर्वन्ति वक्त्रेन्दुमपास्तव्यङ्गलाञ्छनम्‌॥१८॥

क्षीरपिष्टा घृतक्षौद्रयुक्ता वा भृष्टनिस्तुषाः।

मसूराः क्षीरपिष्टा वा तीक्ष्णाः शाल्मलिकण्टकाः॥१९॥

सगुडः कोलमज्जा वा शशासृक्क्षौद्रकल्कितः।

सप्ताहं मातुलुङ्गस्थं कुष्ठं वा मधुनाऽन्वितम्‌॥२०॥

पिष्टा वा छागपयसा सक्षौद्रा मौशली जटा।

गोरस्थि मुशलीमूलयुक्तं वा साज्यमाक्षिकम्‌॥२१॥

जम्ब्वाम्रपल्लवा मस्तु हरिद्रे द्वे नवो गुडः।

लेपः सवर्णकृत्‌ पिष्टं स्वरसेन च तिन्दुकम्‌॥२२॥

उत्पलमुत्पलकुष्ठं प्रियङ्गुकालीयकं बदरमज्जा।

इदमुद्वर्तनमास्यं करोति शतपत्रसंकाशम्‌॥२३॥

एभिरेवौषधैः पिष्टैर्मुखाभ्यङ्गाय साधयेत्‌।

यथादोषर्तुकान्‌ स्नेहान्‌ मधुकक्वाथसंयुतैः॥२४॥

यवान्‌ सर्जरसं रोध्रमुशीरं मदनं मधु।

घृतं गुडं च गोमूत्रे पचेदादर्विलेपनात्‌॥२५॥

तदभ्यङ्गान्निहन्त्याशु नीलिकाव्यङ्गदूषिकान्‌।

मुखं करोति पद्माभं पादौ पद्मदलोपमौ॥२६॥

कुङ्कुमोशीरकालीयलाक्षायष्ट्याह्वचन्दनम्‌।

न्यग्रोधपादांस्तरुणान्‌ पद्मकं पद्मकेसरम्‌॥२७॥

सनीलोत्पलमञ्जिष्ठं पालिकं ससिलाढके।

पक्त्वा पादावशेषेण तेन पिष्टैश्च कार्षिकैः॥२८॥

लाक्षापत्तङ्गमञ्जिष्ठायष्टीमधुककुङ्कुमैः।

अजाक्षीरं द्विगुणितं तैलस्य कुडवं पचेत्‌॥२९॥

नीलिकापलितव्यङ्गवलीतिलकदूषिकान्‌।

हन्ति तन्नस्यमभ्यस्तं मुखोपचयवर्णकृत्‌॥३०॥

मञ्जिष्ठा शबरोद्भवस्तुवरिका लाक्षा हरिद्राद्वयं

नेपाली हरितालकुङ्कुमगदा गोरोचना गैरिकम्‌।

पत्रं पाण्डु वटस्य चन्दनयुगं कालीयकं पारदं

पत्तङ्गं कनकत्वचं कमलजं बीजं तथा केसरम्‌॥३१॥

सिक्थं तुत्थं पद्मकाद्यो वसाऽऽज्यं

मज्जा क्षीरं क्षीरिवृक्षाम्बु चाग्नौ ।

सिद्धं सिद्धं व्यङ्गनील्यादिनाशे

वक्त्रे छायामैन्दवीं चाशु धत्ते॥३२॥

मार्कवस्वरसक्षीरतोयानीष्टानि नावने।

प्रसुप्तौ वातकुष्ठोक्तं कुर्याद्दाहं च वह्निना॥३३॥

उत्कोठे कफपित्तोक्तं कोठे सर्वं च कौष्ठिकम्‌॥३३.१.२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने क्षुद्ररोगप्रतिषेधो नाम द्वात्रिंशोऽध्यायः ॥३२॥

Last updated on September 13th, 2021 at 11:42 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English