Skip to content

04. Rogaanutpaadaneeya – Sootra – AH

अष्टाङ्गहृदयस्य (सूत्रस्थानम्‌) रोगानुत्पादनीय

चतुर्थोऽध्यायः

अथातो रोगानुत्पादनीयाध्यायं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

वेगान्न धारयेद्वातविण्मूत्रक्षवतृट्‌क्षुधाम्‌।

निद्राकासश्रमश्वासजृम्भाश्रुच्छर्दिरेतसाम्‌॥१॥

अधोवातस्य रोधेन गुल्मोदावर्तरुक्क्लमाः।

वातमूत्रशकृत्सङ्गदृष्ट्यग्निवधहृद्गदाः॥२॥

शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः

ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम्‌॥३॥

मुखेन विट्‌प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः।

अङ्गभङ्गाश्मरीबस्तिमेढ्रवंक्षणवेदनाः॥४॥

 मूत्रस्य रोधात्पूर्वे च प्रायो रोगाः तदौषधम्‌।

वर्त्यभ्यङ्गावगाहाश्च स्वेदनं बस्तिकर्म च॥५॥

अन्नपानं च विड्‌भेदि विड्रोधोत्थेषु यक्ष्मसु।

मूत्रजेषु तु पाने च प्राग्भक्तं शस्यते घृतम्‌॥६॥

जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्‌।

अवपीडकमेतच्च संज्ञितं धारणात्पुनः॥७॥

उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः।

आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम्‌॥८॥

शिरोर्तीन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः।

तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः॥९॥

प्रवर्तयेत्क्षुतिं सक्तां स्नेहस्वेदौ च शीलयेत्‌।

शोषाङ्गसादबाधिर्यसम्मोहभ्रमहृद्गदाः॥१०॥

तृष्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः।

अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः॥११॥

तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम्‌।

निद्राया मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः॥१२॥

अङ्गमर्दश्च, तत्रेष्टः स्वप्न: संवाहनानि च।

कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृदामयाः॥१३॥

शोषो हिध्मा च, कार्योऽत्र कासहा सुतरां विधिः।

गुल्महृद्रोगसम्मोहाः श्रमश्वासाद्विधारितात्‌॥१४॥

हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः।

जृम्भायाः क्षववद्रोगाः सर्वश्चानिलजिद्विधिः॥१५॥

पीनसाक्षिशिरोहृद्रुङ्‌मन्यास्तम्भारुचिभ्रमाः।

सगुल्मा बाष्पतस्तत्र स्वप्नो मद्यं प्रियाः कथाः॥१६॥

विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्‌वामयज्वराः।

सकासश्वासहृल्लासव्यङ्गश्वयथवो वमेः॥१७॥

गण्डूषधूमानाहारा रूक्षं भुक्त्वा तदुद्‌वमः।

व्यायामः स्रुतिरस्रस्य शस्तं चात्र विरेचनम्‌॥१८॥

सक्षारलवणं तैलमभ्यङ्गार्थं च शस्यते।

शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथुज्वराः॥१९॥

हृद्व्यथामूत्रसङ्गाङ्गभङ्गवृद्ध्यश्मषण्ढताः।

ताम्रचूडसुराशालिबस्त्यभ्यङ्गावगाहनम्‌॥२०॥

बस्तिशुद्धिकरैः सिद्धं भजेत्क्षीरं प्रियाः स्त्रियः।

तृट्‌शूलार्तं त्यजेत्‌ क्षीणं विड्‌वमं वेगरोधिनम्‌॥२१॥

रोगाः सर्वेऽपि जायन्ते वेगोदीरणधारणैः।

निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान्‌ प्रति॥२२॥

ततश्चानेकधा प्रायः पवनो यत्प्रकुप्यति।

अन्नपानौषधं तस्य युञ्जीतातोऽनुलोमनम्‌॥२३॥

धारयेत्तु सदा वेगान्‌ हितैषी प्रेत्य चेह च।

लोभेर्ष्याद्वेषमात्सर्यरागादीनां जितेन्द्रियः॥२४॥

यतेत च यथाकालं मलानां शोधनं प्रति।

अत्यर्थसञ्चितास्ते हि क्रुद्धाः स्युर्जीवितच्छिदः॥२५॥

दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः।

ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः॥२६॥

यथाक्रमं यथायोगमत ऊर्ध्वं प्रयोजयेत्‌।

रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्‌॥२७॥

भेषजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात्‌।

शालिषष्टिकगोधूममुद्गमांसघृतादिभिः॥२८॥

हृद्यदीपनभेषज्यसंयोगाद्रुचिपक्तिदैः।

साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेहबस्तिभिः॥२९॥

तथा स लभते शर्म सर्वपावकपाटवम्‌।

धीवर्णेन्द्रियवैमल्यं वृषतां दैर्घ्यमायुषः॥३०॥

ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः।

रागद्वेषभयाद्याश्च ते स्युरागन्तवो गदाः॥३१॥

त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः।

देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्‌॥३२॥

अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम्‌।

भूताद्यस्पर्शनोपायो निर्दिष्टश्च पृथक्‌ पृथक्‌॥३३॥

अनुत्पत्त्यै समासेन विधिरेषः प्रदर्शितः।

निजागन्तुविकाराणामुत्पन्नानां च शान्तये॥३४॥

शीतोद्भवं दोषचयं वसन्ते विशोधयन्‌ ग्रीष्मजमभ्रकाले।

घनात्यये वार्षिकमाशु सम्यक्‌ प्राप्नाेति रोगानृतुजान्न जातु॥३५॥

नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः।

दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः॥३६॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने रोगानुत्पादनीयो नाम चतुर्थोऽध्यायः॥४॥

Last updated on August 5th, 2021 at 10:23 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English