चरकसंहिता
चिकित्सास्थानम् ।
अष्टादशोऽध्याय: ।
अथात: कासचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
तपसा यशसा धृत्या धिया च परयाऽन्वित: ।
आत्रेय: कासशान्त्यर्थं प्राह सिद्धं चिकित्सितम् ॥३॥
वातादिजास्त्रयो ये च क्षतज: क्षयजस्तथा ।
पञ्चैते स्युर्नृणां कासा वर्धमाना: क्षयप्रदा: ॥४॥
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता ।
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ॥५॥
अध:प्रतिहतो वायुरूर्ध्वस्रोत:समाश्रित: ।
उदानभावमापन्न: कण्ठे सक्तस्तथोरसि ॥६॥
आविश्य शिरस: खानि सर्वाणि प्रतिपूरयन् ।
आभञ्जन्नाक्षिपन् देहं हनुमन्ये तथाऽक्षिणी ॥७॥
नेत्रे पृष्ठमुर:पार्श्वे निर्भुज्य स्तम्भयंस्तत: ।
शुष्को वा सकफो वाऽपि कसनात्कास उच्यते ॥८॥
प्रतिघातविशेषेण तस्य वायो: सरंहस: ।
वेदनाशब्दवैशिष्ट्यं कासानामुपजायते ॥९॥
रूक्षशीतकषायाल्पप्रमितानशनं स्त्रिय: ।
वेगधारणमायासो वातकासप्रवर्तका: ॥१०॥
हृत्पार्श्वोर:शिर:शूलस्वरभेदकरो भृशम् ।
शुष्कोर:कण्ठवक्त्रस्य हृष्टलोम्न: प्रताम्यत: ॥११॥
निर्घोषदैन्यस्तननदौर्बल्यक्षोभमोहकृत् ।
शुष्ककास: कफं शुष्कं कृच्छ्रान्मुक्त्वाऽल्पतां व्रजेत् ॥१२॥
स्निग्धाम्ललवणोष्णैश्च भुक्तपीतै: प्रशाम्यति ।
ऊर्ध्ववातस्य जीर्णेऽन्ने वेगवान्मारुतो भवेत् ॥१३॥
कटुकोष्णविदाह्यम्लक्षाराणामतिसेवनम् ।
पित्तकासकरं क्रोध: संतापश्चाग्निसूर्यज: ॥१४॥
पीतनिष्ठीवनाक्षित्वं तिक्तास्यत्वं स्वरामय: ।
उरोधूमायनं तृष्णा दाहो मोहोऽरुचिर्भ्रम: ॥१५॥
प्रततं कासमानश्च ज्योतींषीव च पश्यति ।
श्लेष्माणं पित्तसंसृष्टं निष्ठीवति च पैत्तिके ॥१६॥
गुर्वभिष्यन्दिमधुरस्निग्धस्वप्नाविचेष्टनै: ।
वृद्ध: श्लेष्माऽनिलं रुद्ध्वा कफकासं करोति हि ॥१७॥
मन्दाग्नित्वारुचिच्छर्दिपीनसोत्क्लेशगौरवै: ।
लोमहर्षास्यमाधुर्यक्लेदसंसदनैर्युतम् ॥१८॥
बहुलं मधुरं स्निग्धं निष्ठीवति घनं कफम् ।
कासमानो ह्यरुग् वक्ष: संपूर्णमिव मन्यते ॥१९॥
अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहै: ।
रूक्षस्योर: क्षतं वायुर्गृहीत्वा कासमावहेत् ॥२०॥
स पूर्वं कासते शुष्कं तत: ष्ठीवेत् सशोणितम् ।
कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा ॥२१॥
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ।
दु:खस्पर्शेन शूलेन भेदपीडाभितापिना ॥२२॥
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडित: ।
पारावत इवाकूजन् कासवेगात्क्षतोद्भवात् ॥२३॥
विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात् ।
घृणिनां शोचतां नृणां व्यापन्नेऽग्नौ त्रयो मला: ॥२४॥
कुपिता: क्षयजं कासं कुर्युर्देहक्षयप्रदम् ।
दुर्गन्धं हरितं रक्तं ष्ठीवेत् पूयोपमं कफम् ॥२५॥
स्थानादुत्कासमानश्च हृदयं मन्यते च्युतम् ।
अकस्मादुष्णशीतार्तो बह्वाशी दुर्बल: कृश:॥२६॥
स्निग्धाच्छमुखवर्णत्वक् श्रीमद्दर्शनलोचन: ।
पाणिपादतलै: श्लक्ष्णै: सततासूयको घृणी ॥२७॥
ज्वरो मिश्राकृतिस्तस्य पार्श्वरुक् पीनसोऽरुचि: ।
भिन्नसंहतवर्चस्त्वं स्वरभेदोऽनिमित्तत: ॥२८॥
इत्येष क्षयज: कास: क्षीणानां देहनाशन: ।
साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थित: ॥२९॥
नवौ कदाचित् सिध्येतामेतौ पादगुणान्वितौ।
स्थविराणां जराकास: सर्वो याप्य: प्रकीर्तित: ॥३०॥
त्रीन्साध्यान्साधयेत्पूर्वान् पथ्यैर्याप्यांश्च यापयेत् ।
चिकित्सामत ऊर्ध्वं तु शृणु कासनिबर्हिणीम् ॥३१॥
रूक्षस्यानिलजं कासमादौ स्नेहैरुपाचरेत् ।
सर्पिर्भिर्बस्तिभि: पेयायूषक्षीररसादिभि: ॥३२॥
वातघ्नसिद्धै: स्नेहाद्यैर्धूमैर्लेहैश्च युक्तित: ।
अभ्यङ्गै: परिषेकैश्च स्निग्धै: स्वेदैश्च बुद्धिमान् ॥३३॥
बस्तिभिर्बद्धविड्वातं शुष्कोर्ध्वं चोर्ध्वभक्तिकै: ।
घृतै: सपित्तं सकफं जयेत् स्नेहविरेचनै: ॥३४॥
कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे ।
प्रस्थ: सिद्धो घृताद्वातकासनुद्वह्निदीपन: ॥३५॥
इति कण्टकारीघृतम् ।
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरै: ।
धान्यपाठावचारास्नायष्ट्याह्वक्षारहिङ्गुभि: ॥३६॥
कोलमात्रैर्घृतप्रस्थाद्दशमूलीरसाढके ।
सिद्धाच्चतुर्थिकां पीत्वा पेयामण्डं पिबेदनु ॥३७॥
तच्छ्वासकासहृत्पार्श्वग्रहणीदोषगुल्मनुत् ।
पिप्पल्याद्यं घृतं चैतदात्रेयेण प्रकीर्तितम् ॥३८॥
इति पिप्पल्यादिघृतम् ।
त्र्यूषणं त्रिफलां द्राक्षां काश्मर्याणि परूषकम् ।
द्वे पाठे देवदार्वृद्धिं स्वगुप्तां चित्रकं शटीम् ॥३९॥
ब्राह्मीं तामलकीं मेदां काकनासां शतावरीम् ।
त्रिकण्टकं विदारीं च पिष्ट्वा कर्षसमं घृतात् ॥४०॥
प्रस्थं चतुर्गुणे क्षीरे सिद्धं कासहरं पिबेत् ।
ज्वरगुल्मारुचिप्लीहशिरोहृत्पार्श्वशूलनुत् ॥४१॥
कामलार्शोऽनिलाष्ठीलाक्षतशोषक्षयापहम्।
त्र्यूषणं नाम विख्यातमेतद्घृतमनुत्तमम् ।
इति त्र्यूषणाद्यं घृतम् ।
द्रोणेऽपां साधयेद्रास्नां दशमूलीं शतावरीम् ।
पलिकां माणिकांशांस्तु कुलत्थान्बदरान्यवान् ॥४३॥
तुलार्धं चाजमांसस्य पादशेषेन तेन च ।
घृताढकं समक्षीरं जीवनीयै: पलोन्मितै: ॥४४॥
सिद्धं तद्दशभि: कल्कैर्नस्यपानानुवासनै: ।
समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत् ॥४५॥
पञ्चकासान् शिर:कम्पं शूलं वङ्क्षणयोनिजम् ।
सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत् ॥४६॥
इति रास्नाघृतम् ।
विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम् ।
भार्गी क्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया ॥४७॥
सकफेऽनिलजे कासे श्वासहिक्काहताग्निषु ।
द्वौ क्षारौ पञ्चकोलानि पञ्चैव लवणनि च ॥४८॥
शटीनागरकोदीच्यकल्कं वा वस्त्रगालितम् ।
पाययेत घृतोन्मिश्रं वातकासनिबर्हणम् ॥४९॥
दुरालभां शटीं द्राक्षां शृङ्गवेरं सितोपलाम् ।
लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वातजे ॥५०॥
दु:स्पर्शां पिप्पलीं मुस्तं भार्गीं कर्कटकीं शटीम् ।
पुराणगुडतैलाभ्यां चूर्णितं वाऽपि लेहयेत् ॥५१॥
विडङ्गं सैन्धवं कुष्ठं व्योषं हिङ्गु मन:शिलाम् ।
मधुसर्पिर्युतं कासहिक्काश्वासं जयेल्लिहन् ॥५२॥
चित्रकं पिप्पलीमूलं व्योषं हिङ्गु दुरालभाम् ।
शटीं पुष्करमूलं च श्रेयसीं सुरसां वचाम् ॥५३॥
भार्गीं छिन्नरुहां रास्नां शृङ्गीं द्राक्षां च कार्षिकान् ।
कल्कानर्धतुलाक्वाथे निदिग्ध्या: पलविंशतिम् ॥५४॥
दत्त्वा मत्स्यण्डिकायाश्च घृताच्च कुडवं पचेत् ।
सिद्धं शीतं पृथक् क्षौद्रपिप्पलीकुडवान्वितम् ॥५५॥
चतुष्पलं तुगाक्षीर्याश्चूर्णितं तत्र दापयेत् ।
लेहयेत् कासहृद्रोगश्वासगुल्मनिवारणम् ॥५६॥
इति चित्रकादिलेह: ।
दशमूलीं स्वयङ्गुप्तां शङ्खपुष्पीं शटीं बलाम् ।
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ॥५७॥
भार्गीं पुष्करमूलं च द्विपलांशं यवाढकम् ।
हरीतकीशतं चैकं जले पञ्चाढके पचेत् ॥५८॥
यवै: स्विन्नै: कषायं तं पूतं तच्चाभयाशतम् ।
पचेुद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात् ॥५९॥
तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात् ।
लिह्याद्द्वे चाभये नित्यमत: खादेद्रसायनात् ॥६०।
तद्वलीपलितं हन्ति वर्णायुर्बलवर्धनम् ।
पञ्चकासान् क्षयं श्वासं हिक्कां च विषमज्वरम् ॥६१॥
हन्यात्तथाऽर्शोग्रहणीहृद्रोगारुचिपीनसान् ।
अगस्त्यविहितं श्रेष्ठं रसायनमिदं शुभम् ॥६२॥
इत्यगस्त्यहरीतकी ।
सैन्धवं पिप्पलीं भार्गीं शृङ्गवेरं दुरालभाम् ।
दाडिमाम्लेन कोष्णेन भार्गीनागरमम्बुना ॥६३॥
पिबेत् खदिरसारं वा मदिरादधिमस्तुभि: ।
अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम् ॥६४॥
शिरस: पीडने स्रावे नासाया हृदि ताम्यति ।
कासप्रतिश्यायवतां धूमं वैद्य: प्रयोजयेत् ॥६५॥
दशाङ्गुलोन्मितां नाडीमथवाऽष्टाङ्गुलोन्मिताम् ।
शरावसंपुटच्छिद्रे कृत्वा जिह्मां विचक्षण: ॥६६॥
वैरेचनं मुखेनैव कासवान् धूममापिबेत् ।
तमुर: केवलं प्राप्तं मुखेनैवोद्वमेत् पुन: ॥६७॥
स ह्यस्य तैक्ष्ण्याद्विच्छिद्य श्लेष्माणमुरसि स्थितम् ।
निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम् ॥६८॥
मन:शिलालमधुकमांसीमुस्तेङ्गुदै: पिबेत् ।
धूमं तस्यानु च क्षीरं सुखोष्णं सगुडं पिबेत् ॥६९॥
एष कासान् पृथग्दोषसन्निपातसमुद्भवान् ।
धूमो हन्यादसंसिद्धानन्यैर्योगशतैरपि ॥७०॥
प्रपौण्डरीकं मधुकं शार्ङ्गेष्टां समन:शिलाम् ।
मरिचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम् ॥७१॥
कृत्वा वर्तिं पिबेद्धूमं क्षौमचेलानुवर्तिताम् ।
घृताक्तामनु च क्षीरं गुडोदकमथापि वा ॥७२॥
मन:शिलैलामरिचक्षाराञ्जनकुटन्नटै: ।
वंशलेखनसेव्यालक्षौमलक्तकरोहिषै: ॥७३॥
पूर्वकल्पेन धूमोऽयं सानुपानो विधीयते ।
मन:शिलाले तद्वच्च पिप्पलीनागरै: सह ॥७४॥
त्वगैङ्गुदी बृहत्यौ द्वे तालमूली मन:शिला ।
कार्पासास्थ्यश्वगन्धा च धूम: कासविनाशन: ॥७५॥
ग्राम्यानूपौदकै: शालियवगोधूमषष्टिकान् ।
रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान् ॥७६॥
यवानीपिप्पलीबिल्वमध्यनागरचित्रकै: ।
रास्नाजाजीपृथक्पर्णीपलाशशटिपौष्करै: ॥७७॥
स्निग्धाम्ललवणां सिद्धां पेयामनिलजे पिबेत् ।
कटीहृत्पार्श्वकोष्ठार्तिश्वासहिक्काप्रणाशिनीम् ॥७८॥
दशमूलरसे तद्वत्पञ्चकोलगुडान्विताम् ।
सिद्धां समतिलां दद्यात्क्षीरे वाऽपि ससैन्धवाम् ॥७९॥
मात्स्यकौक्कुटवाराहैरामिषैर्वा घृतान्विताम् ।
सिद्धां ससैन्धवां पेयां वातकासी पिबेन्नर: ॥८०॥
वास्तुको वायसीशाकं मूलकं सुनिषण्णकम् ।
स्नेहास्तैलादयो भक्ष्या: क्षीरेक्षुरसगौडिका: ॥८१॥
दध्यारनालाम्लफलप्रसन्नापानमेव च ।
शस्यते वातकासे तु स्वाद्वम्ललवणानि च ॥८२॥
इति वातकासचिकित्सा ।
पैत्तिके सकफे कासे वमनं सर्पिषा हितम् ।
तथा मदनकाश्मर्यमधुकक्वथितैर्जलै: ॥८३॥
यष्ट्याह्वफलकल्कैर्वा विदारीक्षुरसायुतै: ।
हृतदोषस्तत: शीतं मधुरं च क्रमं भजेत् ॥८४॥
पैत्ते तनुकफे कासे त्रिवृतां मधुरैर्युताम् ।
दद्याद्घनकफे तिक्तैर्विरेकार्थे युतां भिषक् ॥८५॥
स्निग्धशीतस्तनुकफे रूक्षशीत: कफे घने ।
क्रम: कार्य: परं भोज्यै: स्नेहैर्लेहैश्च शस्यते ॥८६॥
शृङ्गाटकं पद्मबीजं नीलीसाराणि पिप्पली ।
पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम् ॥८७॥
लाजाऽमृतफला द्राक्षा त्वक्क्षीरी पिप्पली सिता ।
पिप्पलीपद्मकद्राक्षा बृहत्याश्च फलाद्रस: ॥८८॥
खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते ।
घृतक्षौद्रयुता लेहा: श्लोकार्धै: पित्तकासिनाम् ॥८९॥
शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलै: ।
पैत्ते, समुस्तमरिच: सकफे, सघृतोऽनिले ॥९०॥
मृद्वीकार्धशतं त्रिंशत्पिप्पली: शर्करापलम् ।
लेहयेन्मधुना गोर्वा क्षीरपं च शकृद्रसम् ॥९१॥
त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करै: ।
लाजामुस्तशटीरास्नाधात्रीफलबिभीतकै: ॥९२॥
शर्कराक्षौद्रसर्पिर्भिर्लेह: कासविनाशन: ।
श्वासं हिक्कां क्षयं चैव हृद्रोगं च प्रणाशयेत् ॥९३॥
पिप्पल्यामलकं द्राक्षां लाक्षां लाजां सितोपलाम् ।
क्षीरे पक्त्वा घनं शीतं लिह्यात् क्षौद्राष्टभागिकम् ॥९४॥
विदारीक्षुमृणालानां रसान् क्षीरं सितोपलाम् ।
पिबेद्वा मधुसंयुक्तं पित्तकासहरं परम् ॥९५॥
मधुरैर्जाङ्गलरसै: श्यामाकयवकोद्रवा: ।
मुद्गादियूषै: शाकैश्च तिक्तकैर्मात्रया हिता: ॥९६॥
घनश्लेष्मणि लेहास्तु तिक्तका मधुसंयुता: ।
शालय: स्युस्तनुकफे षष्टिकाश्च रसादिभि: ॥९७॥
शर्कराम्भोऽनुपानार्थं द्राक्षेक्षूणां रसा: पय: ।
सर्वं च मधुरं शीतमविदाहि प्रशस्यते ॥९८॥
काकोलीबृहतीमेदायुग्मै: सवृषनागरै: ।
पित्तकासे रसान् क्षीरं यूषांश्चाप्युपकल्पयेत् ॥९९॥
शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा ।
कषायेण शृतं क्षीरं पिबेत् समधुशर्करम् ॥१००॥
स्थिरासितापृश्निपर्णीश्रावणीबृहतीयुगै: ।
जीवकर्षभकाकोलीतामलक्यृद्धिजीवकै: ॥१०१॥
शृतं पय: पिबेत् कासी ज्वरी दाही क्षतक्षयी ।
तज्जं वा साधयेत् सर्पि: सक्षीरेक्षुरसं भिषक् ॥१०२॥
जीवकाद्यैर्मधुरकै: फलैश्चाभिषुकादिभि: ।
कल्कैस्त्रिकार्षिकै: सिद्धे पूतशीते प्रदापयेत् ॥१०३॥
शर्करापिप्पलीचूर्णं त्वक्क्षीर्या मरिचस्य च ।
शृङ्गाटकस्य चावाप्य क्षौद्रगर्भान्पलोन्मितान् ॥१०४॥
गुडान् गोधूमचूर्णेन कृत्वा खादेद्धिताशन: ।
शुक्रासृग्दोषशोषेषु कासे क्षीणक्षतेषु च ॥१०५॥
शर्करानागरोदीच्यं कण्टकारीं शटीं समम् ।
पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितम् ॥१०६॥
महिष्यजाविगोक्षीरधात्रीफलरसै: समै: ।
सर्पि: सिद्धं पिबेद्युक्त्या पित्तकासनिबर्हणम् ॥१०७॥
इति पित्तकासचिकित्सा ।
बलिनं वमनैरादौ शोधितं कफकासिनम् ।
यवान्नै: कटुरूक्षोष्णै: कफघ्नैश्चाप्युपाचरेत् ॥१०८॥
पिप्पलीक्षारिकैर्यूषै: कौलत्थैर्मूलकस्य च ।
लघून्यन्नानि भुञ्जीत रसैर्वा कटुकान्वितै: ॥१०९॥
धान्वबैलरसै: स्नेहैस्तिलसर्षपबिल्वजै: ।
मध्वम्लोष्णाम्बुतक्रं वा मद्यं वा निगदं पिबेत् ॥११०॥
पौष्करारग्वधं मूलं पटोलं तैर्निशास्थितम् ।
जलं मधुयुतं पेयं कालेष्वन्नस्य वा त्रिषु ॥१११॥
कट्फलं कत्तृणं भार्गीं मुस्तं धान्यं वचाभये ।
शुण्ठीं पर्पटकं शृङ्गीं सुराह्वं च शृतं जले ॥११२॥
मधुहिङ्गुयुतं पेयं कासे वातकफात्मके ।
कण्ठरोगे मुखे शूने श्वासहिक्काज्वरेषु च ॥११३॥
पाठां शुण्ठीं शटीं मूर्वां गवाक्षीं मुस्तपिप्पलीम् ।
पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतां पिबेत् ॥११४॥
नागरातिविषे मुस्तं शृङ्गीं कर्कटकस्य च ।
हरीतकीं शटीं चैव तेनैव विधिना पिबेत् ॥११५॥
तैलभृष्टं च पिप्पल्या: कल्काक्षं ससितोपलम् ।
पिबेद्वा श्लेष्मकासघ्नं कुलत्थरससंयुतम् ॥११६॥
कासमर्दाश्वविट्भृङ्गराजवार्ताकजो रस: ।
सक्षौद्र: कफकासघ्न: सुरसस्यासितस्य च ॥११७॥
देवदारु शटी रास्ना कर्कटाख्या दुरालभा ।
पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपला: ॥११८॥
मधुतैलयुतावेतौ लेहौ वातानुगे कफे ।
पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली ॥११९॥
पथ्या तामलकी धात्री भद्रमुस्ता च पिप्पली ।
देवदार्वभया मुस्तं पिप्पली विश्वभेषजम् ॥१२०॥
विशाला पिप्पली मुस्तं त्रिवृता चेति लेहयेत् ।
चतुरो मधुना लेहान् कफकासहरान् भिषक् ॥१२१॥
सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम् ।
चूर्णितं सर्पिषा वातकफकासहरं पिबेत् ॥१२२॥
दशमूलाढके प्रस्थं घृतस्याक्षसमै: पचेत् ।
पुष्कराह्वशटीबिल्वसुरसव्योषहिङ्गुभि: ॥१२३॥
पेयानुपानं तत् पेयं कासे वातकफात्मके ।
श्वासरोगेषु सर्वेषु कफवातात्मकेषु च ॥१२४॥
इति दशमूलादिघृतम् ।
समूलफलपत्राया: कण्टकार्या रसाढके ।
घृतप्रस्थं बलाव्योषविडङ्गशटिचित्रकै: ॥१२५॥
सौवर्चलयवक्षारपिप्पलीमूलपौष्करै : ।
वृश्चीरबृहतीपथ्यायवानीदाडिमर्धिभि: ॥१२६॥
द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसै: ।
शृङ्गीतामलकीभार्गीरास्नागोक्षुरकै: पचेत् ॥१२७॥
कल्कैस्तत् सर्वकासेषु हिक्काश्वासेषु शस्यते ।
कण्टकारीघृतं ह्येतत् कफव्याधिनिसूदनम् ॥१२८॥
इति कण्टकारीघृतम् ।
कुलत्थरसयुक्तं वा पञ्चकोलशृतं घृतम् ।
पाययेत् कफजे कासे हिक्काश्वासे च शस्यते ॥१२९॥
इति कुलत्थादिघृतम् ।
धूमांस्तानेव दद्याच्च ये प्रोक्ता वातकासिनाम् ।
कोशातकीफलान्मध्यं पिबेद्वा समन:शिलम् ॥१३०॥
तमक: कफकासे तु स्याच्चेत् पित्तानुबन्धज: ।
पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत् ॥१३१॥
वाते कफानुबन्धे तु कुर्यात् कफहरीं क्रियाम् ।
पित्तानुबन्धयोर्वातकफयो: पित्तनाशिनीम् ॥१३२॥
आर्द्रे विरूक्षणं, शुष्के स्निग्धं, वातकफात्मके ।
कासेऽन्नपानं कफजे सपित्ते तिक्तसंयुतम् ॥१३३॥
इति कफजकासचिकित्सा ।
कासमात्ययिकं मत्वा क्षतजं त्वरया जयेत् ।
मधुरैर्जीवनीयैश्च बलमांसविवर्धनै: ॥१३४॥
पिप्पली मधुकं पिष्टं कार्षिकं ससितोपलम् ।
प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसस्तथा ॥१३५॥
यवगोधूममृद्वीकाचूर्णमामलकाद्रस: ।
तैलं च प्रसृतांशानि तत् सर्वं मृदुनाऽग्निना ॥१३६॥
पचेल्लेहं घृतक्षौद्रयुक्त: स क्षतकासहा ।
श्वासहृद्रोगकार्श्येषु हितो वृद्धेऽल्परेतसि ॥१३७॥
क्षतकासाभिभूतानां वृत्ति: स्यात् पित्तकासिकी ।
क्षीरसर्पिर्मधुप्राया संसर्गे तु विशेषणम् ॥१३८॥
वातपित्तार्दितेऽभ्यङ्गो गात्रभेदे घृतैर्हित: ।
तैलैर्मारुतरोगघ्नै: पीड्यमाने च वायुना ॥१३९॥
हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिष: ।
सदाहं कासिनो रक्तं ष्ठीवत: सबलेऽनले ॥१४०॥
मांसोचितेभ्य: क्षामेभ्यो लावादीनां रसा हिता: ।
तृष्णार्तानां पयश्छागं शरमूलादिभि: शृतम् ॥१४१॥
रक्ते स्रोतोभ्य आस्याद्वाऽप्यागते क्षीरजं घृतम् ।
नस्यं पानं यवागूर्वा श्रान्ते क्षामे हतानले ॥१४२॥
स्तम्भायामेषु महतीं मात्रां वा सर्पिष: पिबेत् ।
कुर्याद्वा वातरोगघ्नं पित्तरक्ताविरोधि यत् ॥१४३॥
निवृत्ते क्षतदोषे तु कफे वृद्ध उर: क्षते ।
दाल्यते कासिनो यस्य स धूमान्ना पिबेदिमान् ॥१४४॥
द्वे मेदे मधुकं द्वे च बले तै: क्षौमलक्तकै: ।
वर्तितैर्धूममापीय जीवनीयघृतं पिबेत् ॥१४५॥
मन:शिलापलाशाजगन्धात्वक्क्षीरिनागरै: ।
भावयित्वा पिबेत् क्षौममनु चेक्षुगुडोदकम् ॥१४६॥
पिष्ट्वा मन:शिलां तुल्यामार्द्रया वटशुङ्गया ।
ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनम् ॥१४७॥
भावितं जीवनीयैर्वा कुलिङ्गाण्डरसायुतै: ।
क्षौमं धूमं पिबेत् क्षीरं शृतं चायोगुडैरनु ॥१४८॥
इति क्षतजकासचिकित्सा ।
संपूर्णरूपं क्षयजं दुर्बलस्य विवर्जयेत् ।
नवोत्थितं बलवत: प्रत्याख्यायाचरेत् क्रियाम् ॥१४९॥
तस्मै बृंहणमेवादौ कुर्यादग्नेश्च दीपनम् ।
बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम् ॥१५०॥
शम्पाकेन त्रिवृतया मृद्वीकारसयुक्तया ।
तिल्वकस्य कषायेण विदारीस्वरसेन च ॥१५१॥
सर्पि: सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम् ।
(हितं तद्देहबलयोरस्य संरक्षणं मतम् ॥१५२॥)
पित्ते कफे च संक्षीणे परिक्षीणेषु धातुषु ।
घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत् ॥१५३॥
विदारीभि: कदम्बैर्वा तालसस्यैस्तथा शृतम् ।
घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे ॥१५४॥
शूने सवेदने मेढ्रे पायौ सश्रोणिवंक्षणे ।
घृतमण्डेन मधुनाऽनुवास्यो मिश्रकेण वा ॥१५५॥
जाङ्गलै: प्रतिभुक्तस्य वर्तकाद्या बिलेशया: ।
क्रमश: प्रसहाश्चैव प्रयोज्या: पिशिताशिन: ॥१५६॥
औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्ययावयन्ति ते ।
कफं, शुद्धैश्च तै: पुष्टिं कुर्यात्सम्यग्वहन्रस: ॥१५७॥
द्विपञ्चमूलीत्रिफलाचविकाभार्गिचित्रकै: ।
कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले ॥१५८॥
शृतैर्नागरदु:स्पर्शापिप्पलीशटिपौष्करै: ।
कल्कै: कर्कटशृङ्ग्या च समै: सर्पिर्विपाचयेत् ॥१५९॥
सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणनि च ।
दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडित: ॥१६०॥
इति द्विपञ्चमूलादिघृतम् ।
गुडूचीं पिप्पलीं मूर्वां हरिद्रां श्रेयसीं वचाम् ।
निदिग्धिकां कासमर्दं पाठां चित्रकनागरम् ॥१६१॥
जले चतुर्गुणे पक्त्वा पादशेषेण तत्समम् ।
सिद्धं सर्पि: पिबेद्गुल्मश्वासार्तिक्षयकासनुत् ॥१६२॥
इति गुडूच्यादिघृतम् ।
कासमर्दाभयामुस्तपाठाकट्फलनागरै: ।
पिप्पलीकटुकाद्राक्षाकाश्मर्यसुरसैस्तथा ॥१६३॥
अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके ।
पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम् ॥१६४॥
धात्रीफलै: क्षीरसिद्धै:सर्पिर्वाऽप्यवचूर्णितम् ।
द्विगुणे दाडिमरसे विपक्वं व्योषसंयुतम् ॥१६५॥
पिबेदुपरि भक्तस्य यवक्षारघृतं नर: ।
पिप्पलीगुडसिद्धं वा च्छागक्षीरयुतं घृतम् ॥१६६॥
एतान्यग्निविवृद्ध्यर्थं सर्पींषि क्षयकासिनाम् ।
स्युर्दोषबद्धकोष्ठोर:स्रोतसां च विशुद्धये ॥१६७॥
हरीतकीर्यवक्वाथद्व्याढके विंशतिं पचेत् ।
स्विन्ना मृदित्वा तास्तस्मिन् पुराणं गुडषट्पलम् ॥१६८॥
दद्यान्मन:शिलाकर्षं कर्षांर्धं च रसाञ्जनात् ।
कुडवार्धं च पिप्पल्या: स लेह: श्वासकासनुत् ॥१६९॥
इति हरीतकीलेह: ।
श्वाविध: सूचयो दग्धा: सघृतक्षौद्रशर्करा: ।
श्वासकासहरा बर्हिपादौ वा क्षौद्रसर्पिषा ॥१७०॥
एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम् ।
लिह्यादेतेन विधिना सुरसैरण्डपत्रजम् ॥१७१॥
द्राक्षापद्मकवार्ताकपिप्पली: क्षौद्रसर्पिषा ।
लिह्यात्त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा ॥१७२॥
चित्रकं त्रिफलाजाजी कर्कटाख्या कटुत्रिकम् ।
द्राक्षां च क्षौद्रसर्पिर्भ्यां लिह्यादद्याद्गुडेन वा ॥१७३॥
पद्मकं त्रिफलां व्योषं विडङ्गं सुरदारु च ।
बलां रास्नां च तुल्यानि सूक्ष्मचूर्णानि कारयेत् ॥१७४॥
सर्वैरेभि: समं चूर्णै: पृथक् क्षौद्रं घृतं सिताम् ।
विमथ्य लेहयेल्लेहं सर्वकासहरं शिवम् ॥१७५॥
जीवन्तीं मधुकं पाठां त्वक्क्षीरीं त्रिफलां शटीम् ।
मुस्तैले पद्मकं द्राक्षां द्वे बृहत्यौ वितुन्नकम् ॥१७६॥
सारिवां पौष्करं मूलं कर्कटाख्या रसाञ्जनम् ।
पुनर्नवां लोहरजस्त्रायमाणां यवानिकाम् ॥१७७॥
भार्गीं तामलकीमृद्धिं विडङ्गं धन्वयासकम् ।
क्षारचित्रकचव्याम्लवेतसव्योषदारु च ॥१७८॥
चूर्णीकृत्य समांशानि लेहयेत् क्षौद्रसर्पिषा ।
चूर्णात्पाणितलं पञ्च कासानेतद् व्यपोहति ॥१७९॥
इति पद्मकादिलेह: ।
लिह्यान्मरिचचूर्णं वा सघृतक्षौद्रशर्करम् ।
बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम् ॥१८०॥
स्वरभेदे च कासे च लेहमेतं प्रयोजयेत् ।
पत्रकल्कं घृतैर्भृष्टं तिल्वकस्य सशर्करम् ॥१८१॥
पेया चोत्कारिका च्छर्दितृट्कासामातिसारनुत् ।
गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान् ।
साभयान् साधयेत्तोये यवागूं तेन चाम्भसा ॥१८२॥
ससर्पिर्लवणां कासे हिक्काश्वासे सपीनसे ।
पाण्ड्वामये क्षये शोथे कर्णशूले च दापयेत् ॥१८३॥
कण्टकारीरसे सिद्धो मुद्गयूष: सुसंस्कृत: ।
सगौरामलक: साम्ल: सर्वकासभिषग्जितम् ॥१८४॥
वातघ्नौषधनिष्क्वाथं क्षीरं यूषान् रसानपि ।
वैष्किरप्रतुदान् बैलान् दापयेत् क्षयकासिने ॥१८५॥
क्षतकासे च ये धूमा: सानुपाना निदर्शिता: ।
क्षयकासेऽपि तानेव यथावस्थं प्रयोजयेत् ॥१८६॥
दीपनं बृंहणं चैव स्रोतसां च विशोधनम् ।
व्यत्यासात्क्षयकासिभ्यो बल्यं सर्वं हितं भवेत् ॥१८७॥
सन्निपातभवोऽप्येष क्षयकास: सुदारुण: ।
सन्निपातहितं तस्मात् सदा कार्यं भिषग्जितम् ॥१८८॥
दोषानुबलयोगाच्च हरेद्रोगबलाबलम् ।
कासेष्वेषु गरीयांसं जानीयादुत्तरोत्तरम् ॥१८९॥
भोज्यं पानानि सर्पींषि लेहाश्च सह पानकै: ।
क्षीरं सर्पिर्गुडा धूमा: कासभैषज्यसंग्रह: ॥१९०॥
तत्र श्लोक:–
संख्या निमित्तं रूपाणि साध्यासाध्यत्वमेव च ।
कासानां भेषजं प्रोक्तं गरीयस्त्वं च कासिन: ॥१९१॥
इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते चिकित्सास्थाने कासचिकित्सितं
नामाष्टादशोऽध्याय: ॥१८॥
Last updated on June 24th, 2021 at 08:46 am