Skip to content

22. मुखरोगचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

द्वाविंशतितमोऽध्यायः ।

अथातो मुखरोगचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च |

वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदं च बुद्धिमान् ||३||

विदध्यादोष्ठकोपे तु साल्वणं चोपनाहने |

मस्तिष्के चैव नस्ये च तैलं वातहरं हितम् ||४||

श्रीवेष्टकं सर्जरसं सुरदारु सगुग्गुलु |

यष्टीमधुकचूर्णं तु विदध्यात् प्रतिसारणम् ||५||

पित्तरक्ताभिघातोत्थं जलौकोभिरुपाचरेत् |

पित्तविद्रधिवच्चापि क्रियां कुर्यादशेषतः ||६||

शिरोविरेचनं धूमः स्वेदः कवल एव च |

हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ||७||

त्र्यूषणं स्वर्जिकाक्षारो यवक्षारो विडं तथा |

क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम् ||८||

मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः |

प्रियङ्गुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम् ||९||

एतदोष्ठप्रकोपानां साध्यानां कर्म कीर्तितम् |

दन्तमूलगतानां तु रोगाणां कर्म वक्ष्यते ||१०||

शीतादे हृतरक्ते तु तोये नागरसर्षपान् |

निष्क्वाथ्य त्रिफलां मुस्तं गण्डूषः सरसाञ्जनः ||११||

प्रियङ्गवश्च मुस्तं च त्रिफला च प्रलेपनम् |

नस्यं च त्रिफलासिद्धं मधुकोत्पलपद्मकैः ||१२||

दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम् |

सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम् ||१३||

हितः शिरोविरेकश्च नस्यं स्निग्धं च भोजनम् |

विस्राविते दन्तवेष्टे व्रणांस्तु प्रतिसारयेत् ||१४||

रोध्रपत्तङ्गयष्ट्याह्वलाक्षाचूर्णैर्मधूत्तरैः |

गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः ||१५||

काकोल्यादौ दशक्षीरसिद्धं सर्पिश्च नस्यतः |

शौषिरे हृतरक्ते तु रोध्रमुस्तरसाञ्जनैः ||१६||

सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः |

सारिवोत्पलयष्ट्याह्वसावरागुरुचन्दनैः ||१७||

क्षीरे दशगुणे सिद्धं सर्पिर्नस्ये च पूजितम् |

क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः ||१८||

संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा |

काकोदुम्बरिकागोजीपत्रैर्विस्रावयेदसृक् ||१९||

क्षौद्रयुक्तैश्च लवणैः सव्योषैः प्रतिसारयेत् |

पिप्पलीः सर्षपाञ् श्वेतान्नागरं नैचुलं फलम् ||२०||

सुखोदकेन संसृज्य कवलं चापि धारयेत् |

घृतं मधुरकैः सिद्धं हितं कवलनस्ययोः ||२१||

शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत् |

ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः ||२२||

उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत् |

कृमिदन्तकवच्चापि विधिः कार्यो विजानता ||२३||

छित्त्वाऽधिमांसं सक्षौद्रैरेभिश्चूर्णैरुपाचरेत् |

वचातेजोवतीपाठास्वर्जिकायावशूकजैः ||२४||

क्षौद्रद्वितीयाः पिप्पल्यः कवलश्चात्र कीर्तितः |

पटोलत्रिफलानिम्बकषायश्चात्र धावने |

हितः शिरोविरैकश्च धूमो वैरेचनश्च यः ||२५||

सामान्यं कर्म नाडीनां विशेषं चात्र मे शृणु |

नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत् ||२६||

यं दन्तमभिजायेत नाडी तं दन्तमुद्धरेत् |

छित्त्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत् ||२७||

शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा |

भिनत्त्युपेक्षिते दन्ते हनुकास्थि गतिर्ध्रुवम् ||२८||

समूलं दशनं तस्मादुद्धरेद्भग्नमस्थिरम् |

उद्धृते तूत्तरे दन्ते समूले स्थिरबन्धने ||२९||

रक्तातियोगात् पूर्वोक्ता रोगा घोरा भवन्ति हि |

काणः सञ्जायते जन्तुरर्दितं चास्य जायते ||३०||

चलमप्युत्तरं दन्तमतो नापहरेद्भिषक् |

धावने जातिमदनस्वादुकण्टकखादिरम् ||३१||

कषायं जातिमदनकटुकस्वादुकण्टकैः |

यष्ट्याह्वरोध्रमञ्जिष्ठाखदिरैश्चापि यत् कृतम् ||३२||

तैलं संशोधनं तद्धि हन्याद्दन्तगतां गतिम् |

कीर्तिता दन्तमूले तु क्रिया दन्तेषु वक्ष्यते ||३३||

स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य वा |

निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ||३४||

स्नैहिकश्च हितो धूमो नस्यं स्निग्धं च भोजनम् |

रसो रसयवाग्वश्च क्षीरं सन्तानिका घृतम् ||३५||

शिरोबस्तिर्हितश्चापि क्रमो यश्चानिलापहः |

अहिंसन् दन्तमूलानि शर्करामुद्धरेद्भिषक् ||३६||

लाक्षाचूर्णैर्मधुयुतैस्ततस्ताः प्रतिसारयेत् |

दन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः ||३७||

कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता |

जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम् ||३८||

तथाऽवपीडैर्वातघ्नैः स्नेहगण्डूषधारणैः |

भद्रदार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ||३९||

चलमुद्धृत्य च स्थानं विदहेत् सुषिरस्य च |

ततो विदारीयष्ट्याह्वशृङ्गाटककसेरुकैः ||४०||

तैलं दशगुणे क्षीरे सिद्धं नस्ये हितं भवेत् |

हनुमोक्षे समुद्दिष्टां कुर्याच्चार्दितवत् क्रियाम् ||४१||

फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् |

तथाऽतिकठिनान् भक्ष्यान् दन्तरोगी विवर्जयेत् ||४२||

साध्यानां दन्तरोगणां चिकित्सितमुदीरितम् |

जिह्वागतानां साध्यानां कर्म वक्ष्यामि सिद्धये ||४३||

ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक् चिकित्सितम् |

कण्टकेष्वनिलोत्थेषु तत् कार्यं भिषजा भवेत् ||४४||

पित्तजेषु विघृष्टेषु निःसृते दुष्टशोणिते |

प्रतिसारणगण्डूषं नस्यं च मधुरं हितम् ||४५||

कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये |

पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे ||४६||

गृह्णीयात् कवलांश्चापि गौरसर्षपसैन्धवैः |

पटोलनिम्बवार्ताकुक्षारयूषैश्च भोजयेत् ||४७||

उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत् |

शिरोविरेकगण्डूषधूमैश्चैनमुपाचरेत् ||४८||

जिह्वागतानां कर्मोक्तंतालव्यानां प्रवक्ष्यते |

अङ्गुष्ठाङ्गुलिसन्दंशेनाकृष्य गलशुण्डिकाम् ||४९||

छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम् |

नोत्कृष्टं चैव हीनं च त्रिभागं छेदयेद्भिषक् ||५०||

अत्यादानात् स्रवेद्रक्तं तन्निमित्तं म्रियेत च |

हीनच्छेदाद्भवेच्छोफो लाला निद्रा भ्रमस्तमः ||५१||

तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः |

गलशुण्डीं तु सञ्छिद्य कुर्यात् प्राप्तमिमं क्रमम् ||५२||

मरिचातिविषापाठावचाकुष्ठकुटन्नटैः |

क्षौद्रयुक्तैः सलवणैस्ततस्तां प्रतिसारयेत् ||५३||

वचामतिविषां पाठां रास्नां कटुकरोहिणीम् |

निष्क्वाथ्य पिचुमन्दं च कवलं तत्र योजयेत् ||५४||

इङ्गुदीकिणिहीदन्तीसरलासुरदारुभिः |

पञ्चाङ्गीं कारयेत् पिष्टैर्वर्तिं गन्धोत्तरां शुभाम् ||५५||

ततो धूमं पिबेज्जन्तुर्द्विरह्नः कफनाशनम् |

क्षारसिद्धेषु मुद्गेषु यूषश्चाप्यशने हितः ||५६||

तुण्डिकेर्यध्रुषे कूर्मे सङ्घाते तालुपुप्पुटे |

एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ||५७||

तालुपाके तु कर्तव्यं विधानं पित्तनाशनम् |

स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः ||५८||

कीर्तितं तालुजानां तुकण्ठ्यानां कर्म वक्ष्यते |

साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम् ||५९||

छर्दनं धूमपानं च गण्डूषो नस्यकर्म च |

वातिकीं तु हृते रक्ते लवणैः प्रतिसारयेत् ||६०||

सुखोष्णन् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः |

पतङ्गशर्कराक्षौद्रैः पैत्तिकीं प्रतिसारयेत् ||६१||

द्राक्षापरूषकक्वाथो हितश्च कवलग्रहे |

अगारधूमकटुकैः श्लैष्मिकीं प्रतिसारयेत् ||६२||

श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् |

नस्यकर्मणि योक्तव्यं तथा कवलधारणे ||६३||

पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम् |

विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ||६४||

एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः |

उपजिह्विकवच्चापि साधयेदधिजिह्विकाम् ||६५||

एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत् |

गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् ||६६||

अमर्मस्थं सुपक्वं च भेदयेद्गलविद्रधिम् |

वातात् सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत् ||६७||

तैलं वातहरैः सिद्धं हितं कवलनस्ययोः |

ततोऽस्मै स्नैहिकं धूममिमं दद्याद्विचक्षणः ||६८||

शालराजादनैरण्डसारैङ्गुदमधूकजाः |

मज्जानो गुग्गुलुध्याममांसीकालानुसारिवाः |

श्रीसर्जरसशैलेयमधूच्छिष्टानि चाहरेत् ||६९||

तत्सर्वं सुकृतं चूर्णं स्नेहेनालोड्य युक्तितः |

टिण्टूकवृन्तं सक्षौद्रं मतिमांस्तेन लेपयेत् ||७०||

एष सर्वसरे धूमः प्रशस्तः स्नैहिको मतः |

कफघ्नो मारुतघ्नश्च मुखरोगविनाशनः ||७१||

पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः |

सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः ||७२||

प्रतिसारणगण्डूषौ धूमः संशोधनानि च |

कफात्मके सर्वसरे विधिं कुर्यात् कफापहम् ||७३||

पिबेदतिविषां पाठां मुस्तं च सुरदारु च |

रोहिणीं कटुकाख्यां च कुटजस्य फलानि च ||७४||

गवां मूत्रेण मनुजो भागैर्धरणसम्मितैः |

एष सर्वान् कफकृतान् रोगान् योगोऽपकर्षति ||७५||

क्षीरेक्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः |

विदध्यात् कवलान् वीक्ष्य दोषं तैलघृतैरपि ||७६||

रोगाणां मुखजातानां साध्यानां कर्म कीर्तितम् |

असाध्या अपि वक्ष्यन्ते रोगा ये तत्र कीर्तिताः ||७७||

ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः |

दन्तमूलेषु वर्ज्यौ तु त्रिलिङ्गगतिसौषिरौ ||७८||

दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः |

जिह्वागतेष्वलासस्तु तालव्येष्वर्बुदं तथा ||७९||

स्वरघ्नो वलयो वृन्दो विदार्यलस एव च |

गलौष्ठो मांसतानश्च शतघ्नी रोहिणी च या ||८०||

असाध्याः कीर्तिता ह्येते रोगा नव दशैव च |

तेषां चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ||८१||

इति सुश्रुतसंहितायां चिकित्सास्थाने मुखरोगचिकित्सितं नाम द्वाविंशोऽध्यायः ||२२||

Last updated on July 8th, 2021 at 09:30 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English