Skip to content

08. कीटकल्पः – कल्प – सु.”

सुश्रुतसंहिता ।

अथ कल्पस्थानम्‌ ।

अष्टमोऽध्यायः ।

अथातः कीटकल्पं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसम्भवाः |

वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः ||३||

सर्वदोषप्रकृतिभिर्युक्तास्ते परिणामतः |

कीटत्वेऽपि सुघोराः स्युः, सर्व एव चतुर्विधाः ||४||

कुम्भीनसस्तुण्डिकेरी शृङ्गी शतकुलीरकः |

उच्चिटिङ्गोऽग्निनामा च चिच्चिटिङ्गो मयूरिका ||५||

आवर्तकस्तथोरभ्रः सारिकामुखवैदलौ |

शरावकुर्दोऽभीराजिः परुषश्चित्रशीर्षकः ||६||

शतबाहुश्च यश्चापि रक्तराजिश्च कीर्तितः |

अष्टादशेति वायव्याः कीटाः पवनकोपनाः ||७||

तैर्भवन्तीह दष्टानां रोगा वातनिमित्तजाः |

कौण्डिन्यकः कणभको वरटी पत्रवृश्चिकः ||८||

विनासिका ब्राह्मणिका बिन्दुलो भ्रमरस्तथा |

बाह्यकी पिच्चिटः कुम्भी वर्चःकीटोऽरिमेदकः ||९||

पद्मकीटो दुन्दुभिको मकरः शतपादकः |

पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्दभी ||१०||

क्लीतः कृमिसरारी च यश्चाप्युत्क्लेशकस्तथा |

एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च ||११||

तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः |

विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथ कोकिलः ||१२||

सैरेयकः प्रचलको वलभः किटिभस्तथा |

सूचीमुखः कृष्णगोधा यश्च काषायवासिकः ||१३||

कीटो गर्दभकश्चैव तथा त्रोटक एव च |

त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः ||१४||

तैर्भवन्तीह दष्टानां रोगाः कफनिमित्तजाः |

तुङ्गीनासो विचिलकस्तालको वाहकस्तथा ||१५||

कोष्ठागारी क्रिमिकरो यश्च मण्डलपुच्छकः |

तुण्ड(ङ्ग)नाभः सर्षपिको वल्गुलिः शम्बुकस्तथा ||१६||

अग्निकीटश्च विज्ञेया द्वादश प्राणनाशनाः |

तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत् ||१७||

तास्ताश्च वेदनास्तीव्रा रोगा वै सान्निपातिकाः |

क्षाराग्निदग्धवद्दंशो रक्तपीतसितारुणः ||१८||

ज्वराङ्गमर्दरोमाञ्चवेदनाभिः समन्वितः |

छर्द्यतीसारतृष्णाश्च दाहो मूर्च्छा विजृम्भिका ||१९||

वेपथुश्वासहिक्काश्च दाहः शीतं च दारुणम् |

पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च ||२०||

दद्रवः कर्णिकाश्चैव विसर्पाः किटिभानि च |

तैर्भवन्तीह दष्टानां यथास्वं चाप्युपद्रवाः ||२१||

येऽन्ये तेषां विशेषास्तु तूर्णं तेषां समादिशेत् |

दूषीविषप्रकोपाच्च तथैव विषलेपनात् ||२२||

लिङ्गं तीक्ष्णविषेष्वेतच्छृणु मन्दविषेष्वतः |

प्रसेकारोचकच्छर्दिशिरोगौरवशीतकाः ||२३||

पिडकाकोठकण्डूनां जन्म दोषविभागतः |

योगैर्नानाविधैरेषां चूर्णानि गरमादिशेत् ||२४||

दूषीविषप्रकाराणां तथा चाप्यनुलेपनात् |

एकजातीनतस्तूर्ध्वं कीटान् वक्ष्यामि भेदतः ||२५||

सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च |

त्रिकण्टः करिणी चापि हस्तिकक्षोऽपराजितः |

चत्वार एते कणभा व्याख्यातास्तीव्रवेदनाः ||२६||

तैर्दष्टस्य श्वयथुरङ्गमर्दो गुरुता गात्राणां दंशः कृष्णश्च भवति ||२७||

प्रतिसूर्यकः, पिङ्गाभासो, बहुवर्णो, निरूपमो गोधेरेक इति पञ्च गोधेरकाः; तैर्दष्टस्य शोफो दाहरुजौ च भवतः, गोधेरकेणैतदेव ग्रन्थिप्रादुर्भावो ज्वरश्च ||२८||

गलगोलिका – श्वेता, कृष्णा, रक्तराजी, रक्तमण्डला, सर्वश्वेता, सर्षपिकेत्येवं षट्; ताभिर्दष्टे सर्षपिकावर्जं दाहशोफक्लेदा भवन्ति, सर्षपिकया हृदयपिडाऽतिसारश्च, तासु मध्ये सर्षपिका प्राणहरी ||२९||

शतपद्यस्तु- परुषा, कृष्णा, चित्रा, कपिला, पीतिका, रक्ता, श्वेता, अग्निप्रभा, इत्यष्टौ; ताभिर्दष्टे शोफो वेदना दाहश्च हृदये, श्वेताग्निप्रभाभ्यामेतदेव दाहो मूर्च्छा चातिमात्रं श्वेतपिडकोत्पत्तिश्च ||३०||

मण्डूकाः- कृष्णः, सारः, कुहको, हरितो, रक्तो, यववर्णाभो, भृकुटी, कोटिकश्चेत्यष्टौ; तैर्दष्टस्य दंशे कण्डूर्भवति पीतफेनागमश्च वक्त्रात्, भृकुटीकोटिकाभ्यामेतदेव दाहश्छर्दिर्मूर्च्छा चातिमात्रम् ||३१||

विश्वम्भराभिर्दष्टे दंशः सर्षपाकाराभिः पिडकाभिः सरुजाभिश्चीयते, शीतज्वरार्तश्च पुरुषो भवति ||३२||

अहिण्डुकाभिर्दष्टे तोददाहकण्डुश्वयथवो भवन्ति मोहश्च; कण्डूमकाभिर्दष्टे पीताङ्गश्छर्द्यतीसारज्वरादिभिरभिहन्यते; शूकवृन्ताभिर्दष्टे कण्डूकोठाः प्रवर्धन्ते शूकं चात्र लक्ष्यते ||३३||

पिपीलिकाः- स्थूलशीर्षा, संवाहिका, ब्राह्मणिका, अङ्गुलिका; कपिलिका, चित्रवर्णेति षट्; ताभिर्दष्टे दंशे श्वयथुरग्निस्पर्शवद्दाहशोफौ भवतः ||३४||

मक्षिकाः- कान्तारिका, कृष्णा, पिङ्गला, मधूलिका, काषायी, स्थालिकेत्येवं षट्; ताभिर्दष्टस्य कण्डुशोफदाहरुजो भवन्ति, स्थालिकाकाषायीभ्यामेतदेव श्यावपिडकोत्पत्तिरुपद्रवाश्च ज्वरादयो भवन्ति, काषायी स्थालिका च प्राणहरे ||३५||

मशकाः- सामुद्रः, परिमण्डलो, हस्तिमशकः, कृष्णः, पार्वतीय इति पञ्च; तैर्दष्टस्य तीव्रा कण्डूर्दंशशोफश्च, पार्वतीयस्तु कीटैः प्राणहरैस्तुल्यलक्षणः ||३६||

नखावकृष्टेऽत्यर्थं पिडकादाहपाका भवन्ति |

जलौकसां दष्टलक्षणमुक्तं चिकित्सितं च ||३७||

भवन्ति चात्र-

गोधेरकः स्थालिका च ये च श्वेताग्निसप्रभे |

भृकुटी कोटिकश्चैव न सिध्यन्त्येकजातिषु ||३८||

शवमूत्रपुरीषैस्तु सविषैरवमर्शनात् |

स्युः कण्डूदाहकोठारुःपिडकातोदवेदनाः ||३९||

प्रक्लेदवांस्तथा स्रावो भृशं सम्पाचयेत्त्वचम् |

दिग्धविद्धक्रियास्तत्र यथावदवचारयेत् ||४०||

नावसन्नं न चोत्सन्नमतिसंरम्भवेदनम् |

दंशादौ विपरीतार्ति कीटदष्टं सुबाधकम् ||४१||

दष्टानुग्रविषैः कीटैः सर्पवत् समुपाचरेत् |

त्रिविधानां तु पूर्वेषां त्रैविध्येन क्रिया हिताः ||४२||

स्वेदमालेपनं सेकं चोष्णमत्रावचारयेत् |

अन्यत्र मूर्च्छिताद्दंशात् पाककोथप्रपीडितात् ||४३||

विषघ्नं च विधिं सर्वं बहुशः शोधनानि च |

शिरीषकटुकाकुष्ठवचारजनिसैन्धवैः ||४४||

क्षीरमज्जवसासर्पिःशुण्ठीपिप्पलिदारुषु |

उत्कारिका स्थिरादौ वा सुकृता स्वेदने हिता ||४५||

न स्वेदयेत चादंशं धूमं वक्ष्यामि वृश्चिके |

अगदानेकजातीषु प्रवक्ष्यामि पृथक् पृथक् ||४६||

कुष्ठं वक्रं वचा पाठा बिल्वमूलं सुवर्चिका |

गृहधूमं हरिद्रे द्वे त्रिकण्टकविषे हिताः ||४७||

रजन्यागारधूमश्च वक्रं कुष्ठं पलाशजम् |

गलगोलिकद्ष्टानामगदो विषनाशनः ||४८||

कुङ्कुमं तगरं शिग्रु पद्मकं रजनीद्वयम् |

अगदो जलपिष्टोऽयं शतपद्विषनाशनः ||४९||

मेषशृङ्गी वचा पाठा निचुलो रोहिणी जलम् |

सर्वमण्डूकदष्टानामगदोऽयं विषापहः ||५०||

धवाश्वगन्धातिबलाबलासातिगुहागुहाः |

विश्वम्भराभिदष्टानामगदोऽयं विषापहः ||५१||

शिरीषं तगरं कुष्ठं शालिपर्णी सहा निशे |

अहिण्डुकाभिर्दष्टानामगदो विषनाशनः ||५२||

कण्डूमकाभिर्दष्टानां रात्रौ शीताः क्रिया हिताः |

दिवा ते नैव सिध्यन्ति सूर्यरश्मिबलार्दिताः ||५३||

वक्रं कुष्ठमपामार्गः शूकवृन्तविषेऽगदः |

भृङ्गस्वरसपिष्टा वा कृष्णवल्मीकमृत्तिका ||५४||

पिपीलिकाभिर्दष्टानां मक्षिकामशकैस्तथा |

गोमूत्रेण युतो लेपः कृष्णवल्मीकमृत्तिका ||५५||

नखावघृष्टसञ्जाते शोफे भृङ्गरसो हितः |

प्रतिसूर्यकदष्टानां सर्पदष्टवदाचरेत् |

त्रिविधा वृश्चिकाः प्रोक्ता मन्दमध्यमहाविषाः ||५६||

गोशकृत्कोथजा मन्दा मध्याः काष्ठेष्टिकोद्भवाः |

सर्पकोथोद्भवास्तीक्ष्णा ये चान्ये विषसम्भवाः ||५७||

मन्दा द्वादश मध्यास्तु त्रयः पञ्चदशोत्तमाः |

दश विंशतिरित्येते सङ्ख्यया परिकीर्तिताः ||५८||

कृष्णः श्यावः कर्बुरः पाण्डुवर्णो गोमूत्राभः कर्कशो मेचकश्च |

पीतो धूम्रो रोमशः शाड्वलाभो रक्तः श्वेतेनोदरेणेति मन्दाः ||५९||

युक्ताश्चैते वृश्चिकाः पुच्छदेशे स्युर्भूयोभिः पर्वभिश्चेतरेभ्यः |

एभिर्दष्टे वेदना वेपथुश्च गात्रस्तम्भः कृष्णरक्तागमश्च ||६०||

शाखादष्टे वेदना चोर्ध्वमेति दाहस्वेदौ दंशशोफो ज्वरश्च |

रक्तः पीतः कापिलेनोदरेण सर्वे धूम्राः पर्वभिश्च त्रिभिः स्युः ||६१||

एते मूत्रोच्चारपूत्यण्डजाता मध्या ज्ञेयास्त्रिप्रकारोरगाणाम् |

यस्यैतेषामन्वयाद्यः प्रसूतो दोषोत्पत्तिं तत्स्वरूपां स कुर्यात् ||६२||

जिह्वाशोफो भोजनस्यावरोधो मूर्च्छा चोग्रा मध्यवीर्याभिदष्टे |

श्वेतश्चित्रः श्यामलो लोहिताभो रक्तः श्वेतो रक्तनीलोदरौ च ||६३||

पीतोऽरक्तो नीलपीतोऽपरस्तु रक्तो नीलो नीलशुक्लस्तथा च |

रक्तो बभ्रुः पूर्ववच्चैकपर्वा यश्चापर्वा पर्वणी द्वे च यस्य ||६४||

नानारूपा वर्णतश्चापि घोरा ज्ञेयाश्चैते वृश्चिकाः प्राणचौराः |

जन्मैतेषां सर्पकोथात् प्रदिष्टं देहेभ्यो वा घातितानां विषेण ||६५||

एभिर्दष्टे सर्पवेगप्रवृत्तिः स्फोटोत्पत्तिर्भ्रान्तिदाहौ ज्वरश्च |

खेभ्यः कृष्णं शोणितं याति तीव्रं तस्मात् प्राणैस्त्यज्यते शीघ्रमेव ||६६||

उग्रमध्यविषैर्दष्टं चिकित्सेत् सर्पदष्टवत् |

आदंशं स्वेदितं चूर्णैः प्रच्छितं प्रतिसारयेत् ||६७||

रजनीसैन्धवव्योषशिरीषफलपुष्पजैः |

मातुलुङ्गाम्लगोमूत्रपिष्टं च सुरसाग्रजम् ||६८||

लेपे, स्वेदे सुखोष्णं च गोमयं हितमिष्यते |

पाने क्षौद्रयुतं सर्पिः क्षीरं वा बहुशर्करम् ||६९||

दंशं मन्दविषाणां तु चक्रतैलेन सेचयेत् |

विदारीगणसिद्धेन सुखोष्णेनाथवा पुनः ||७०||

कुर्याच्चोत्कारिकास्वेदं विषघ्नैरुपनाहयेत् |

गुडोदकं वा सुहिमं चातुर्जातकसंयुतम् ||७१||

पानमस्मै प्रदातव्यं क्षीरं वा सगुडं हिमम् |

शिखिकुक्कुटबर्हाणि सैन्धवं तैलसर्पिषी ||७२||

धूमो हन्ति प्रयुक्तस्तु शीघ्रं वृश्चिकजं विषम् |

कुसुम्भपुष्पं रजनी निशा वा कोद्रवं तृणम् ||७३||

एभिर्घृताक्तैर्धूपस्तु पायुदेशे प्रयोजितः |

नाशयेदाशु कीटोत्थं वृश्चिकस्य च यद्विषम् ||७४||

लूताविषं घोरतमं दुर्विज्ञेयतमं च तत् |

दुश्चिकित्स्यतमं चापि भिषग्भिर्मन्दबुद्धिभिः ||७५||

सविषं निर्विषं चैतदित्येवं परिशङ्किते |

विषघ्नमेव कर्तव्यमविरोधि यदौषधम् ||७६||

अगदानां हि संयोगो विषजुष्टस्य युज्यते |

निर्विषे मानवे युक्तोऽगदः सम्पद्यतेऽसुखम् ||७७||

तस्मात् सर्वप्रयत्नेन ज्ञातव्यो विषनिश्चयः |

अज्ञात्वा विषसद्भावं भिषग्व्यापादयेन्नरम् ||७८||

प्रोद्भिद्यमानस्तु यथाऽङ्कुरेण न व्यक्तजातिः प्रविभाति वृक्षः |

तद्वद्दुरालक्ष्यतमं हि तासां विषं शरीरे प्रविकीर्णमात्रम् ||७९||

ईषत्सकण्डु प्रचलं सकोठमव्यक्तवर्णं प्रथमेऽहनि स्यात् |

अन्तेषु शूनं परिनिम्नमध्यं प्रव्यक्तरूपं च दिने द्वितीये ||८०||

त्र्यहेण तद्दर्शयतीह रूपं विषं चतुर्थेऽहनि कोपमेति |

अतोऽधिकेऽह्नि प्रकरोति जन्तोर्विषप्रकोपप्रभवान् विकारान् ||८१||

षष्ठे दिने विप्रसृतं तु सर्वान् मर्मप्रदेशान् भृशमावृणोति |

तत् सप्तमेऽत्यर्थपरीतगात्रं व्यापादयेन्मर्त्यमतिप्रवृद्धम् ||८२||

यास्तीक्ष्णचण्डोग्रविषा हि लूतास्ताः सप्तरात्रेण नरं निहन्युः |

अतोऽधिकेनापि निहन्युरन्या यासां विषं मध्यमवीर्यमुक्तम् ||८३||

यासां कनीयो विषवीर्यमुक्तं ताः पक्षमात्रेण विनाशयन्ति |

तस्मात् प्रयत्नं भिषगत्र कुर्यादादंशपाताद्विषघातियोगैः ||८४||

विषं तु लालानखमूत्रदंष्ट्रारजःपुरीषैरथ चेन्द्रियेण |

सप्तप्रकारं विसृजन्ति लूतास्तदुग्रमध्यावरवीर्ययुक्तम् ||८५||

सकण्डुकोठं स्थिरमल्पमूलं लालाकृतं मन्दरुजं वदन्ति |

शोफश्च कण्डूश्च पुलालिका च धूमायनं चैव नखाग्रदंशे ||८६||

दंशं तु मूत्रेण सकृष्णमध्यं सरक्तपर्यन्तमवेहि दीर्णम् |

दंष्ट्राभिरुग्रं कठिनं विवर्णं जानीहि दंशं स्थिरमण्डलं च ||८७||

रजःपुरीषेन्द्रियजं हि विद्धि स्फोटं विपक्वामलपीलुपाण्डुम् |

एतावदेतत् समुदाहृतं तु वक्ष्यामि लूताप्रभवं पुराणम् ||८८||

सामान्यतो दष्टमसाध्यसाध्यं चिकित्सितं चापि यथाविशेषम् ||८९||

विश्वामित्रो नृपवरः कदाचिदृषिसत्तमम् |

वशिष्ठं कोपयामास गत्वाऽऽश्रमपदं किल ||९०||

कुपितस्य मुनेस्तस्य ललाटात् स्वेदबिन्दवः |

अपतन् दर्शनादेव रवेस्तत्समतेजसः ||९१||

तृणे महर्षिणा लूने धेन्वर्थं सम्भृतेऽपि च |

ततो जातास्त्विमा घोरा नानारूपा महाविषाः |

अपकाराय वर्तन्ते नृपसाधनवाहने ||९२||

यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः |

तस्माल्लूतेति भाष्यन्ते सङ्ख्यया ताश्च षोडश ||९३||

कृच्छ्रसाध्यास्तथाऽसाध्या लूतास्तु द्विविधाःस्मृताः |

तासामष्टौ कृच्छ्रसाध्या वर्ज्यास्तावत्य एव तु ||९४||

त्रिमण्डला तथा श्वेता कपिला पीतिका तथा |

आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता ||९५||

ताभिर्दष्टे शिरोदुःखं कण्डूर्दंशे च वेदना |

भवन्ति च विशेषेण गदाः श्लैष्मिकवातिकाः ||९६||

सौवर्णिका लाजवर्णा जालिन्येणीपदी तथा |

कृष्णाऽग्निवर्णा काकाण्डा मालागुणाऽष्टमी तथा ||९७||

ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च |

ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ||९८||

पिडका विविधाकारा मण्डलानि महान्ति च |

महान्तो मृदवः शोफा रक्ताः श्यावाश्चलास्तथा ||९९||

सामान्यं सर्वलूतानामेतदादंशलक्षणम् |

विशेषलक्षणं तासां वक्ष्यामि सचिकित्सितम् ||१००||

त्रिमण्डलाया दंशेऽसृक् कृष्णं स्रवति दीर्यते |

बाधिर्यं कलुषा दृष्टिस्तथा दाहश्च नेत्रयोः ||१०१||

तत्रार्कमूलं रजनी नाकुली पृश्निपर्णिका |

पानकर्मणि शस्यन्ते नस्यालेपाञ्जनेषु च ||१०२||

श्वेतायाः पिडका दंशे श्वेता कण्डूमती भवेत् |

दाहमूर्च्छाज्वरवती विसर्पक्लेदरुक्करी ||१०३||

तत्र चन्दनरास्नैलाहरेणुनलवञ्जुलाः |

कुष्ठं लामज्जकं वक्रं नलदं चागदो हितः ||१०४||

आदंशे पिडका ताम्रा कपिलायाः स्थिरा भवेत् |

शिरसो गौरवं दाहस्तिमिरं भ्रम एव च ||१०५||

तत्र पद्मककुष्ठैलाकरञ्जककुभत्वचः |

स्थिरार्कपर्ण्यपामार्गदूर्वाब्राह्म्यो विषापहाः ||१०६||

आदंशे पीतिकायास्तु पिडका पीतिका स्थिरा |

भवेच्छर्दिर्ज्वरः शूलं मूर्ध्नि रक्ते तथाऽक्षिणी ||१०७||

तत्रेष्टाः कुटजोशीरतुङ्गपद्मकवञ्जुलाः |

शिरीषकिणिहीशेलुकदम्बककुभत्वचः ||१०८||

रक्तमण्डनिभे दंशे पिडकाः सर्षपा इव |

जायन्ते तालुशोषश्च दाहश्चालविषार्दिते ||१०९||

तत्र प्रियङ्गुह्रीबेरकुष्ठलामज्जवञ्जुलाः |

अगदः शतपुष्पा च सपिप्पलवटाङ्कुराः ||११०||

पूतिर्मूत्रविषादंशो विसर्पी कृष्णशोणितः |

कासश्वासवमीमूर्च्छाज्वरदाहसमन्वितः ||१११||

मनःशिलालमधुककुष्ठचन्दनपद्मकैः |

मधुमिश्रैः सलामज्जैरगदस्तत्र कीर्तितः ||११२||

आपाण्डुपिडको दंशो दाहक्लेदसमन्वितः |

रक्ताया रक्तपर्यन्तो विज्ञेयो रक्तसंयुतः ||११३||

कार्यस्तत्रागदस्तोयचन्दनोशीरपद्मकैः |

तथैवार्जुनशेलुभ्यां त्वग्भिराम्रातकस्य च ||११४||

पिच्छिलं कसनादंशाद्रुधिरं शीतलं स्रवेत् |

कासश्वासौ च तत्रोक्तं रक्तलूताचिकित्सितम् ||११५||

पुरीषगन्धिरल्पासृक् कृष्णाया दंश एव तु |

ज्वरमूर्च्छावमीदाहकासश्वाससमन्वितः ||११६||

तत्रैलावक्रसर्पाक्षीगन्धनाकुलिचन्दनैः |

महासुगन्धिसहितैः प्रत्याख्यायागदः स्मृतः ||११७||

दंशो दाहोऽग्निवक्रायाः स्रावोऽत्यर्थं ज्वरस्तथा |

चोषकण्डूरोमहर्षा दाहविस्फोटसंयुतः ||११८||

कृष्णाप्रशमनं चात्र प्रत्याख्याय प्रयोजयेत् |

सारिवोशीरयष्ट्याह्वचन्दनोत्पलपद्मकम् ||११९||

सर्वासामेव युञ्जीत विषे श्लेष्मातकत्वचम् |

भिषक् सर्वप्रकारेण तथा चाक्षीवपिप्पलम् ||१२०||

कृच्छ्रसाध्यविषा ह्यष्टौ प्रोक्ता द्वे च यदृच्छया |

अवार्यविषवीर्याणां लक्षणानि निबोध मे ||१२१||

ध्यामः सौवर्णिकादंशः सफेनो मत्स्यगन्धकः |

श्वासः कासो ज्वरस्तृष्णा मूर्च्छा चात्र सुदारुणा ||१२२||

आदंशे लाजवर्णाया ध्यामं पूति स्रवेदसृक् |

दाहो मूर्च्छाऽतिसारश्च शिरोदुःखं च जायते ||१२३||

घोरो दंशस्तु जालिन्या राजिमानवदीर्यते |

स्तम्भः श्वासस्तमोवृद्धिस्तालुशोषश्च जायते ||१२४||

एणीपद्यास्तथा दंशो भवेत् कृष्णतिलाकृतिः |

तृष्णामूर्च्छाज्वरच्छर्दिकासश्वाससमन्वितः ||१२५||

दंशः काकाण्डिकादष्टे पाण्डुरक्तोऽतिवेदनः |

तृण्मूर्च्छाश्वासहृद्रोगहिक्काकासाः स्युरुच्छ्रिताः ||१२६||

रक्तो मालागुणादंशो धूमगन्धोऽतिवेदनः |

बहुधा च विशीर्येत दाहमूर्च्छाज्वरान्वितः ||१२७||

असाध्यास्वप्यभिहितं प्रत्याख्यायाशु योजयेत् |

दोषोच्छ्रायविशेषेण दाहच्छेदविवर्जितम् ||१२८||

साध्याभिराभिर्लूताभिर्दष्टमात्रस्य देहिनः |

वृद्धिपत्रेण मतिमान् सम्यगादंशमुद्धरेत् ||१२९||

अमर्मणि विधानज्ञो वर्जितस्य ज्वरादिभिः |

दंशस्योत्कर्तनं कुर्यादल्पश्वयथुकस्य च ||१३०||

मधुसैन्धवसंयुक्तैरगदैर्लेपयेत्ततः |

प्रियङ्गुरजनीकुष्ठसमङ्गामधुकैस्तथा ||१३१||

सारिवां मधुकं द्राक्षां पयस्यां क्षीरमोरटम् |

विदारीगोक्षुरक्षौद्रमधुकं पाययेत वा ||१३२||

क्षीरिणां त्वक्कषायेण सुशीतेन च सेचयेत् |

उपद्रवान् यथादोषं विषघ्नैरेव साधयेत् ||१३३||

नस्याञ्जनाभ्यञ्जनपानधूमं तथाऽवपीडं कवलग्रहं च |

संशोधनं चोभयतः प्रगाढं कुर्यात्सिरामोक्षणमेव चात्र ||१३४||

कीटदष्टव्रणान् सर्वानहिदष्टव्रणानपि |

आदाहपाकात्तान् सर्वाञ्चिकित्सेद्दुष्टवद्भिषग् ||१३५||

विनिवृत्ते ततः शोफे कर्णिकापातनं हितम् |

निम्बपत्रं त्रिवृद्दन्ती कुसुम्भं कुसुमं मधु ||१३६||

गुग्गुलुः सैन्धवं किण्वं वर्चः पारावतस्य च |

विषवृद्धिकरं चान्नं हित्वा सम्भोजनं हितम् ||१३७||

विषेभ्यः खलु सर्वेभ्यः कर्णिकामरुजां स्थिराम् |

प्रच्छयित्वा मधून्मिश्रैः शोधनीयैरुपाचरेत् ||१३८||

सप्तषष्ठस्य कीटानां शतस्यैतद्विभागशः |

दष्टलक्षणमाख्यातं चिकित्सा चाप्यनन्तरम् ||१३९||

सविंशमध्यायशतमेतदुक्तं विभागशः |

इहोद्दिष्टाननिर्दिष्टानर्थान् वक्ष्याम्यथोत्तरे ||१४०||

सनातनत्वाद्वेदानामक्षरत्वात्तथैव च |

तथा दृष्टफलत्वाच्च हितत्वादपि देहिनाम् ||१४१||

वाक्समूहार्थविस्तारात् पूजितत्वाच्च देहिभिः |

चिकित्सितात् पुण्यतमं न किञ्चिदपि शुश्रुमः ||१४२||

ऋषेरिन्द्रप्रभावस्यामृतयोनेर्भिषग्गुरोः |

धारयित्वा तु विमलं मतं परमसम्मतम् |

उक्ताहारसमाचार इह प्रेत्य च मोदते ||१४३||

इति सुश्रुतसंहितायां कल्पस्थाने कीटकल्पो नामाष्टमोऽध्यायः ||८||

इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां पञ्चमं कल्पस्थानं समाप्तम् |

Last updated on July 8th, 2021 at 10:57 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English