Skip to content

06. Chhardi Hridroga Trishn`aa Chikitsaa – Chikitsaa – AH”

अष्टाङ्गहृदये (चिकित्सितस्थानम्‌)

छर्दिहृद्रोगतृष्णाचिकित्सितं षष्ठोऽध्यायः।

अथातछर्दिहृद्रोगतृष्णाचिकित्सितं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः॥

आमाशयोत्क्लेशभवाः प्रायश्छर्द्यो हितं ततः।

लङ्घनं प्रागृते वायोर्वमनं तत्र योजयेत्‌॥१॥

बलिनो बहुदोषस्य वमतः प्रततं बहु।

ततो विरेकं क्रमशो हृद्यं मद्यैः फलाम्बुभिः॥२॥

क्षीरैर्वा सह स ह्यूर्ध्वं गतं दोषं नयत्यधः।

शमनं चौषधं रूक्षदुर्बलस्य तदेव तु॥३॥

परिशुष्कं प्रियं सात्म्यमन्नं लघु च शस्यते।

उपवासस्तथा यूषा रसाः काम्बलिकाः खलाः॥४॥

शाकानि लेहा भोज्यानि रागषाडवपानकाः।

भक्ष्याः शुष्का विचित्राश्च फलानि स्नानघर्षणम्‌॥५॥

गन्धाः सुगन्धयो गन्धफलपुष्पान्नपानजाः।

भुक्तमात्रस्य सहसा मुखे शीताम्बुसेचनम्‌॥६॥

हन्ति मारुतजां छर्दि सर्पिः पीतं ससैन्धवम्‌।

किञ्चिदुष्मं विशेषेण सकासहृदयद्रवाम्‌॥७॥

व्योषत्रिलवणाढ्यं वा सिद्धं वा दाडिमाम्बुना।

सशुण्ठीदधिधान्येन शृतं तुल्याम्बु वा पयः॥८॥

व्यक्तसैन्धवसर्पिर्वा फलाम्लो वैष्किरो रसः।

स्निग्धं च भोजनं शुण्ठीदधिदाडिमसाधितम्‌॥९॥

कोष्णं सलवणं चात्र हितं स्नेहविरेचनम्‌।

पित्तजायां विरेकार्थं द्राक्षेक्षुस्वरसैस्त्रिवृत्‌॥१०॥

सर्पिर्वा तैल्वकं योज्यं वृद्धं च श्लेष्मधामगम्‌।

ऊर्ध्वमेव हरेत्‌ पित्तं स्वादुतिक्तैर्विशुद्धिमान्‌॥११॥

पिबेन्मन्थं यवागूं वा लाजैः समधुशर्कराम्‌।

मुद्गजाङ्गलजैरद्याद्व्यव्यञ्जनैः शालिषष्टिकम्‌॥१२॥

मृद्भृष्टलोष्टप्रभवं सुशीतं सलिलं पिबेत्‌।

मुद्गोशीरकणाधान्यैः सह वा संस्थितं निशाम्‌॥१३॥

द्राक्षारसं रसं वेक्षोर्गुडूच्यम्बु पयोऽपि वा।

जम्ब्वाम्रपल्लवोशीरवटशुङ्गावरोहजः॥१४॥

क्वाथः क्षौद्रयुतः पीतः शीतो वा विनियच्छति।

छर्दि ज्वरमतीसारं मूर्च्छां तृष्णां च दुर्जयाम्‌॥१५॥

धात्रीरसेन वा शीतं पिबेन्मुद्गदलाम्बु वा।

कोलमज्जसितालाजामक्षिकाविट्‌कणाञ्जनम्‌॥१६॥

लिह्यात्क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा।

कफजायां वमेन्निम्बकृष्णापिण्डीतसर्षपैः॥१७॥

युक्तेन कोष्णतोयेन, दुर्बलं चोपवासयेत्‌।

आरग्वधादिनिर्यूहं शीतं क्षौद्रयुतं पिबेत्‌॥१८॥

मन्थान्‌ यवैर्वा बहुशश्च्छर्दिघ्नौषधभावितैः।

कफघ्नमन्नं हृद्यं च रागाः सार्जकभूस्तृणाः॥१९॥

लीढं मनःशिलाकृष्णामरिचं बीजपूरकात्‌।

स्वरसेन कपित्थस्य सक्षौद्रेण वमिं जयेत्‌॥२०॥

खादेत्कपित्थं सव्योषं, मधुना वा दुरालभाम्‌।

लिह्यान्मरिचचोचैलागोशकृद्रसमाक्षिकम्‌॥२१॥

अनुकूलोपचारेण याति द्विष्टार्थजा शमम्‌।

कृमिजा कृमिहृद्रोगगदितैश्च भिषग्जितैः॥२२॥

यथास्वं परिशेषाश्च, तत्कृताश्च तथाऽऽमयाः।

छर्दिप्रसङ्गेन हि मातरिश्वा

धातुक्षयात्कोपमुपैत्यवश्यम्‌।

कुर्यादतोऽस्मिन्‌ वमनातियोग-

प्रोक्तं विधिं स्तम्भनबृंहणीयम्‌॥२३॥

सर्पिर्गुडा मांसरसा घृतानि

कल्याणकत्र्यूषणजीवनानि।

पयांसि पथ्योपहितानि लेहा-

श्छर्दिं प्रसक्तां प्रशमं नयन्ति॥२४॥

इति छर्दिचिकित्सितम्‌।

अथ हृद्रोगचिकित्सितम्‌।

हृद्रोगे वातजे तैलं मस्तुसौवीरतक्रवत्‌।२५॥

पिबेत्सुखोष्णं सबिडं गुल्मानाहार्तिजिच्च तत्‌।

तैलं च लवणैः सिद्धं समूत्राम्लं तथागुणम्‌॥२६॥

बिल्वं रास्नां यवान्‌ कोलं देवदारुं पुनर्नवाम्‌।

कुलत्थान्‌ पञ्चमूलं च पक्त्वा तस्मिन्पचेज्जले॥२७॥

तैलं तन्नावने पाने बस्तौ च विनियोजयेत्‌।

शुण्ठीवयस्थालवणकायस्थाहिङ्गुपौष्करैः॥२८॥

पथ्यया च शृतं पार्श्वहृद्रुजागुल्मजिद्घृतम्‌।

सौवर्चलस्य द्विपले पथ्यापञ्चाशदन्विते॥२९॥

घृतस्य साधितः प्रस्थो हृद्रोगश्वासगुल्मजित्‌।

दाडिमं कृष्णलवणं शुण्ठी हिङ्‌ग्वम्लवेतसम्‌॥३०॥

अपतन्त्रकहृद्रोगश्वासघ्नं चूर्णमुत्तमम्‌।

पुष्कराह्वशठीशुण्ठीबीजपूरजटाभयाः॥३१॥

पीताः कल्कीकृताः क्षारघृताम्ललवणैर्युताः।

विकर्तिकाशूलहराः क्वाथः कोष्णश्च तद्गुणः॥३२॥

यवानीलवणक्षारवचाजाज्यौषधैः कृतः।

सपूतिदारुबीजाह्वपलाशशठिपौष्करैः॥३३॥

(यवक्षारो यवानी च पिबेदुष्णेन वारिणा।

एतेन वातजं शूलं गुल्मं चैव चिरोत्थितम्‌॥१॥

भिद्यते सप्तरात्रेण पवनेन यथा घनः।)

पञ्चकोलशठीपथ्यागुडबीजाह्वपौष्करम्‌।

वारुणीकल्कितं भृष्टं यमके लवणान्वितम्‌॥३४॥

हृत्पार्श्वयोनिशूलेषु खादेद्गुल्मोदरेषु च।

स्निग्धाश्चेह हिताः स्वेदाः संस्कृतानि घृतानि च॥३५॥

लघुना पञ्चमूलेन शुण्ठ्या वा साधितं जलम्‌।

वारुणीदधिमण्डं वा धान्याम्लं वा पिबेत्तृषि॥३६॥

सायामस्तम्भशूलामे हृदि मारुतदूषिते।

क्रियैषा सद्रवायामप्रमोहे तु हिताः रसाः॥३७॥

स्नेहाढ्यास्तित्तिरिक्रौञ्चशिखिवर्तकदक्षजाः।

बलातैलं सहृद्रोगः पिबेद्वा सुकुमारकम्‌॥३८॥

यष्ट्याह्वशतपाकं वा महास्नेहं तथोत्तमम्‌।

रास्नाजीवकजीवन्तीबलाव्याघ्रीपुनर्नवैः॥३९॥

भार्गीस्थिरावचाव्योषैर्महास्नेहं विपाचयेत्‌।

दधिपादं तथाम्लैश्च लाभतः स निषेवितः॥४०॥

तर्पणो बृंहणो बल्यो वातहृद्रोगनाशनः।

दीप्तेऽग्नौ  सद्रवायामे हृद्रोगे वातिके हितम्‌॥४१॥

क्षीरं दधि गुडः सर्पिरौदकानूपमामिषम्‌।

एतान्येव च वर्ज्यानि हृद्रोगेषु चतुर्ष्वपि॥४२॥

शेषेषु, स्तम्भजाड्यामसंयुक्तेऽपि च वातिके।

कफानुबन्धे तस्मिंस्तु रूक्षोष्णामाचरेत्क्रियाम्‌॥४३॥

पैत्ते द्राक्षेक्षुनिर्याससिताक्षौद्रपरूषकैः।

युक्तो विरेको हृद्यः स्यात्क्रमः शुद्धे च पित्तहा॥४४॥

क्षतपित्तज्वरोक्तं च बाह्यान्तः परिमार्जनम्‌।

कट्वीमधुककल्कं च पिबेत्ससितमम्भसा॥४५॥

श्रेयसीशर्कराद्राक्षाजीवकर्षभकोत्पलैः।

बलाखर्जूरकाकोलीमेदायुग्मैश्च साधितम्‌॥४६॥

सक्षीरं माहिषं सर्पिः पित्तहृद्रोगनाशनम्‌।

प्रपौण्डरीकमधुकबिसग्रन्थिकसेरुकाः॥४७॥

सशुण्ठीशैवलास्ताभिः सक्षीरं विपचेद्घृतम्‌।

शीतं समधु तच्चेष्टं स्वादुवर्गकृतं च यत्‌॥४८॥

बस्तिं च दद्यात्सक्षौद्रं तैलं मधुकसाधितम्‌।

कफोद्भवे वमेत्स्विन्नः पिचुमन्दवचाम्भसा॥४९॥

कुलत्थधन्वोत्थरसतीक्ष्णमद्ययवाशनः।

पिबेच्चूर्णं वचाहिङ्गुलवणद्वयनागरात्‌॥५०॥

सैलायवानककणायवक्षारात्सुखाम्बुना।

फलधान्याम्लकौलत्थयूषमूत्रासवैस्तथा॥५१॥

पुष्कराह्वाभयाशुण्ठीशठीरास्नावचाकणात्‌।

क्वाथं तथाऽभयाशुण्ठीमाद्रीपीतद्रुकट्‌फलात्‌॥५२॥

क्वाथे रोहितकाश्वत्थखदिरोदुम्बरार्जुने।

सपलाशवटे व्योषत्रिवृच्चूर्णान्विते कृतः॥५३॥

सुखोदकानुपानश्च लेहः कफविकारहा।

श्लेष्मगुल्मोदिताज्यानि क्षारांश्च विविधान्‌ पिबेत्‌॥५४॥

प्रयोजयोच्छिलाह्वं वा ब्राह्मं वाऽत्र रसायनम्‌।

तथाऽऽमलकलेहं वा प्राशं वाऽगस्त्यनिर्मितम्‌॥५५॥

स्याच्छूलं यस्य भुक्तेऽति, जीर्यत्यल्पं, जरां गते।

शाम्येत्स कुष्ठकृमिजिल्लवणद्वयतिल्वकैः॥५६॥

सदेवदार्वतिविषैश्चूर्णमुष्णाम्बुना पिबेत्‌।

यस्य जीर्णेऽधिकं स्नेहैः स विरेच्यः, फलैः पुनः॥५७॥

जीर्यत्यन्ने, तथा मूलैस्तीक्ष्णैः शूले सदाऽधिके।

प्रायोऽनिलो रुद्धगतिः कुप्यत्यामाशये गतः॥५८॥

तस्यानुलोमनं कार्यं शुद्धिलङ्घनपाचनैः।

कृमिघ्नमौषधं सर्वं कृमिजे हृदयामये॥५९॥

इति हृद्रोगचिकित्सितम्‌।

अथ तृष्णाचिकित्मितम्‌।

तृष्णासु वातपित्तघ्नो विधिः प्रायेण शस्यते।

सर्वासु शीतो बाह्यान्तस्तथा शमनशोधनः॥६०॥

दिव्याम्बु शीतं सक्षौद्रं तद्वद्भौमं च तद्गुणम्‌।

निर्वापितं तप्तलोष्टकपालसिकतादिभिः॥६१॥

सशर्करं वा क्वथितं पञ्चमूलेन वा जलम्‌।

दर्भपूर्वेण मन्थश्च प्रशस्तो लाजसक्तुभिः॥६२॥

वाट्यश्चामयवैः शीतः शर्करामाक्षिकान्वितः।

यवागूः शालिभिस्तद्वत्कोद्रवैश्च चिरन्तनैः॥६३॥

शीतेन शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनम्‌।

हिमाम्बुपरिषिक्तस्य पयसा ससितामधु॥६४॥

रसैश्चानम्ललवणैर्जाङ्गलैर्घृतभर्जितैः।

मुद्गादीनां तथा यूषैर्जीवनीयरसान्वितैः॥६५॥

नस्यं क्षीरघृतं सिद्धं शीतैरिक्षोस्तथा रसः।

निर्वापणाश्च गण्डूषाः सूत्रस्थानोदिता हिताः॥६६॥

दाहज्वरोक्ता लेपाद्या निरीहत्वं मनोरतिः।

महासरिद्‌ध्रदादीनां दर्शनस्मरणानि च॥६७॥

तृष्णायां पवनोत्थायां सगुडं दधि शस्यते।

रसाश्च बृंहणाः शीता विदार्यादिगणाम्बु च॥६८॥

पित्तजायां सितायुक्तः पक्वोदुम्बरजो रसः।

तत्क्वाथो वा हिमस्तद्वत्सारिवादिगणाम्बु वा॥६९॥

तद्विधैश्च गणैः शीतकषायान्‌ ससितामधून्‌।

मधुरैरौषधैस्तद्वत्‌ क्षीरिवृक्षैश्च कल्पितान्‌॥७०॥

बीजपूरकमृद्वीकावटवेतसपल्लवान्‌।

मूलानि कुशकाशानां यष्ट्याह्वं च जले शृतम्‌॥७१॥

ज्वरोदितं वा द्राक्षादि  पञ्चसाराम्बु वा पिबेत्‌।

कफोद्भवायां वमनं निम्बप्रसववारिणा॥७२॥

बिल्वाढकीपञ्चकोलदर्भपञ्चकसाधितम्‌।

जलं पिबेद्रजन्या वा सिद्धं सक्षौद्रशर्करम्‌॥७३॥

मुद्गयूषं च सव्योषपटोलीनिम्बपल्लवम्‌।

यवान्नं तीक्ष्णकवलनस्यलेहांश्च शीलयेत्‌॥७४॥

सर्वैरामाच्च तद्धन्त्री क्रियेष्टा वमनं तथा।

त्र्यूषणारुष्करवचाफलाम्लोष्णाम्बुमस्तुभिः॥७५॥

अन्नात्ययान्मण्डमुष्णं हिमं मन्थं च कालवित्‌।

तृषि श्रमान्मांसरसं मन्थं वा ससितं पिबेत्‌॥७६॥

आतपात्ससितं मन्थं यवकोलजसक्तुभिः।

सर्वाण्यङ्गानि लिम्पेच्च तिलपिण्याककाञ्जिकैः॥७७॥

शीतस्नानाच्च मद्याम्बु पिबेत्तृण्मान्‌ गुडाम्बु वा।

मद्यादर्धजलं मद्यं स्नातोऽम्ललवणैर्युतम्‌॥७८॥

स्नेहतीक्ष्णतराग्निस्तु स्वभावशिशिरं जलम्‌।

स्नेहादुष्माम्ब्वजीर्णात्तु जीर्णान्मण्डं पिपासितः॥७९॥

पिबेत्स्निग्धान्नतृषितो हिमस्पर्धि गुडोदकम्‌।

गुर्वाद्यन्नेन तृषितः पीत्वोष्णाम्बु तदुल्लिखेत्‌॥८०॥

क्षयजायां क्षयहितं सर्वं बृंहणमौषधम्‌।

कृशदुर्बलरूक्षाणां क्षीरं छागो रसोऽथवा॥८१॥

क्षीरं च सोर्ध्ववातायां क्षयकासहरैः शृतम्‌।

रोगोपसर्गाज्जातायां धान्याम्बु ससितामधु॥८२॥

पाने प्रशस्तं सर्वा च क्रिया रोगाद्यपेक्षया।

तृष्यन्‌ पूर्वामयक्षीणो न लभेत जलं यदि॥८३॥

मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं ततः।

सात्म्यान्नपानभैषज्यैस्तृष्णां तस्य जयेत्पुरा॥८४॥

तस्यां जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम्‌।.८४.१.२॥

इति तृष्णारोगचिकित्सितम्‌॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने छर्दिहृद्रोगतृष्णाचिकित्सितं नाम षष्ठोऽध्यायः॥६॥

Last updated on August 19th, 2021 at 09:29 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English