Skip to content

02. Raktapitta Nidaana – Nidaana – C”

चरकसंहिता

निदानस्थानम्‌ ।

द्वितीयोऽध्याय: ।

       अथातो रक्तपित्तनिदानं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       पित्तं यथाभूतं लोहितपित्तमिति संज्ञां लभते, तद्‌ व्याख्यास्याम: ॥३॥

       यदा जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते, भृशोष्णतीक्ष्णमपि चान्यदन्नजातं निष्पावमाषकुलत्थसूपक्षारोपसंहितं, दधिदधिमण्डोदश्वित्कट्वराम्लकाञ्जिकोपसेकं वा, वाराहमाहिषाविकमात्स्यगव्यपिशितं, पिण्याकपिण्डालुशुष्कशाकोपहितं, मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रु (खडयूष)भूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकोपदंशं, सुरासौवीरतुषोदकमैरेयमेदकमधूलकशुक्तकुवलबदराम्लप्रायानुपानं वा, पिष्टान्नोत्तरभूयिष्ठम्‌, उष्णाभितप्तो वाऽतिमात्रमतिवेलं वाऽऽमं पय: पिबति, पयसा समश्नाति रौहिणीकं, काणकपोतं वा सर्षपतैलक्षारसिद्धं, कुलत्थपिण्याकजाम्बवलकुचपक्वै: शौक्तिकैर्वा सह क्षीरं पिबत्युष्णाभितप्त:, तस्यैवमाचरत: पित्तं प्रकोपमापद्यते, लोहितं च स्वप्रमाणमतिवर्तते । तस्मिन्‌ प्रमाणातिवृत्ते पित्तं प्रकुपितं शरीरमनुसर्पद्यदेव यकृत्प्लीहप्रभवाणां लोहितवहानां च स्रोतसां लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य प्रतिरुन्ध्यात्‌ तदेव लोहितं दूषयति ॥४॥

संसर्गाल्लोहितप्रदूषणाल्लोहितगन्धवर्णानुविधानाच्च पित्तं लोहितपित्तमित्याचक्षते ॥५॥

       तस्येमानि पूर्वरूपाणि भवन्ति । तद्यथा–अनन्नाभिलाष:, भुक्तस्य विदाह:, शुक्ताम्लगन्धरस उद्गार:, छर्देरभीक्ष्णमागमनं, छर्दितस्य बीभत्सता, स्वरभेदो, गात्राणां सदनं, परिदाह:, मुखाद्धूमागम इव, लोहलोहितमत्स्यामगन्धित्वमिव चास्यस्य, रक्तहरितहारिद्रत्वमङ्गावयवशकृन्मूत्रस्वेदलालासिङ्घाणकास्यकर्णमलपिडकोलिकापिडकानाम्‌, अङ्गवेदना, लोहितनीलपीतश्यावानामर्चिष्मतां च रूपाणां स्वप्ने  दर्शनमभीक्ष्णमिति  (लोहितपित्तपूर्वरूपाणि भवन्ति) ॥६॥

       उपद्रवास्तु खलु दौर्बल्यारोचकाविपाकश्वासकासज्वरातीसारशोफशोषपाण्डुरोगा: स्वरभेदश्च ॥७॥

       मार्गौ पुनरस्य द्वौ-ऊर्ध्वं, चाधश्च । तद्बहुश्लेष्मणि शरीरे श्लेष्मसंसर्गादूर्ध्वं प्रतिपद्यमानं कर्णनासिकानेत्रास्येभ्य: प्रच्यवते, बहुवाते तु शरीरे वातसंसर्गादध: प्रतिपद्यमानं मूत्रपुरीषमार्गाभ्यां प्रच्यवते, बहुश्लेष्मवाते तु शरीरे श्लेष्मवातसंसर्गाद्‌ द्वावपि मार्गौ प्रतिपद्यते, तौ मार्गौ प्रतिपद्यमानं सर्वेभ्य एव यथोक्तेभ्य: खेभ्य: प्रच्यवते शरीरस्य ॥८॥

       तत्र यदूर्ध्वभागं तत्‌ साध्यं, विरेचनोपक्रमणीयत्वाह्वौषधत्वाच्च, यदधोभागं तद्याप्यं, वमनोपक्रमणीयत्वादल्पौषधत्वाच्च, यदुभयभागं तदसाध्यं, वमनविरेचनायोगित्वादनौषधत्वाच्चेति ॥९॥

       रक्तपित्तप्रकोपस्तु खलु पुरा दक्षयज्ञोद्‌ध्वंसे रुद्रकोपामर्षाग्निना प्राणिनां परिगतशरीरप्राणानामभवज्ज्वरमनु ॥१०॥

       तस्याशुकारिणो दावाग्निश्लेरिवापतितस्यात्ययिकस्याशु प्रशान्त्यै प्रयतितव्यं मात्रां देशं कालं चाभिसमीक्ष्य संतर्पणेनापतर्पणेन वा मृदुमधुरशिशिरतिक्तकषायैरभ्यवहार्यै: प्रदेहपरिषेकावगाहसंस्पर्शनैर्वमनाद्यैर्वा तत्रावहितेनेति ॥११॥

       भवन्ति चात्र–

       साध्यं लोहितपित्तं तद्यदूर्ध्वं प्रतिपद्यते ।

       विरेचनस्य योगित्वाद्बहुत्वाद्भेषजस्य च ॥१२॥

       विरेचनं तु पित्तस्य जयार्थे परमौषधम्‌ ।

       यश्च तत्रान्वय: श्लेष्मा तस्य चानधमं स्मृतम्‌ ॥१३॥

       भवेद्योगावहं तत्र मधुरं चैव भेषजम्‌ ।

       तस्मात्‌ साध्यं मतं रक्तं यदूर्ध्वं प्रतिपद्यते ॥१४॥

       रक्तं तु यदधोभागं तद्याप्यमिति निश्चितम्‌ ।

       वमनस्याल्पयोगित्वादल्पत्वाद्भेषजस्य  च ॥१५॥

       वमनं हि न पित्तस्य हरणे श्रेष्ठमुच्यते ।

       यश्च तत्रान्वयो वायुस्तच्छान्तौ चावरं स्मृतम्‌ ॥१६॥

       तच्चायोगावहं तत्र कषायं तिक्तकानि च ।

       तस्माद्याप्यं समाख्यातं यदुक्तमनुलोमगम्‌ ॥१७॥

       रक्तपित्तं तु यन्मार्गौ द्वावपि प्रतिपद्यते ।

       असाध्यमिति तज्ज्ञेयं पूर्वोक्तादेव कारणात्‌ ॥१८॥

       नहि संशोधनं किंचिदस्त्यस्य प्रतिमार्गगम्‌ ।

       प्रतिमार्गं च हरणं रक्तपित्ते विधीयते ॥१९॥

       एवमेवोपशमनं सर्वशो नास्य विद्यते ।

       संसृष्टेषु च दोषेषु सर्वजिच्छमनं मतम्‌ ॥२०॥

       इत्युक्तं त्रिविधोदर्कं रक्तं मार्गविशेषत: ।

       एभ्यस्तु खलु हेतुभ्य: किंचित्साध्यं न सिध्यति ॥२१॥

       प्रेष्योपकरणाभावाद्दौरात्म्याद्वैद्यदोषत: ।

       अकर्मतश्च साध्यत्वं कश्चिद्रोगोऽतिवर्तते ॥२२॥

       तत्रासाध्यत्वमेकं स्यात्‌ साध्ययाप्यपरिक्रमात्‌ ।

       रक्तपित्तस्य विज्ञानमिदं तस्योपदिश्यते ॥२३॥

       यत्‌ कृष्णमथवा नीलं यद्वा शक्रधनुष्प्रभम्‌ ।

       रक्तपित्तमसाध्यं तद्वाससो रञ्जनं च यत्‌ ॥२४॥

       भृशं पूत्यतिमात्रं च सर्वोपद्रववच्च यत्‌ ।

       बलमांसक्षये यच्च तच्च रक्तमसिद्धिमत्‌ ॥२५॥

       येन चोपहतो रक्तं रक्तपित्तेन मानव: ।

       पश्येद्दृश्यं वियच्चापि तच्चासाध्यं न संशय: ॥२६॥

       तत्रासाध्यं परित्याज्यं, याप्यं यत्नेन यापयेत्‌ ।

       साध्यं चावहित: सिद्धैर्भेषजै: साधयेद्भिषक्‌ ॥२७॥

       तत्र श्लोकौ–

       कारणं नामनिर्वृत्तिं पूर्वरूपाण्युपद्रवान्‌ ।

       मार्गौ दोषानुबन्धं च साध्यत्वं न च हेतुमत्‌ ॥२८॥

       निदाने रक्तपित्तस्य व्याजहार पुनर्वसु: ।

       वीतमोहरजोदोषलोभमानमदस्पृह: ॥२९॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने रक्तपित्तनिदानं नाम द्वितीयोऽध्याय: ॥२॥

Last updated on June 3rd, 2021 at 10:55 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English