Skip to content

28. Vipareeta Avipareeta Vran`a Vidnyaaneeya – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

अष्टाविंशतितमोऽध्याय: ।

अथातो विपरीताविपरीतव्रणविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

फलाग्निजलवृष्टीनां पुष्पधूमाम्बुदा यथा |

ख्यापयन्ति भविष्यत्त्वं तथा रिष्टानि पञ्चताम् ||३||

तानि सौक्ष्म्यात् प्रमादाद्वा तथैवाशु व्यतिक्रमात् |

गृह्यन्ते नोद्गतान्यज्ञैर्मुमूर्षोर्न त्वसम्भवात् ||४||

ध्रुवं तु मरणं रिष्टे ब्राह्मणैस्तत् किलामलैः |

रसायनतपोजप्यतत्परैर्वा निवार्यते ||५||

नक्षत्रपीडा बहुधा यथा कालं  विपच्यते |

तथैवारिष्टपाकं च ब्रुवते बहवो जनाः ||६||

असिद्धिमाप्नुयाल्लोके प्रतिकुर्वन् गतायुषः |

अतोऽरिष्टानि यत्नेन लक्षयेत् कुशलो भिषक् ||७||

गन्धवर्णरसादीनां विशेषाणां स्वभावतः [१] |

वैकृतं यत् तदाचष्टे व्रणिनः पक्वलक्षणम् ||८||

कटुस्तीक्ष्णश्च विस्रश्च गन्धस्तु पवनादिभिः |

लोहगन्धिस्तु रक्तेन व्यामिश्रः सान्निपातिकः ||९||

लाजातसीतैलसमाः किञ्चिद्विस्राश्च गन्धतः |

ज्ञेयाः प्रकृतिगन्धाःस्युरतोऽन्यद्गन्धवैकृतम् ||१०||

मद्यागुर्वाज्यसुमनापद्मचन्दनचम्पकैः |

सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः ||११||

श्ववाजिमूषिकध्वाङ्क्षपूतिवल्लूरमत्कुणैः |

सगन्धाः पङ्कगन्धाश्च भूमिगन्धाश्च गर्हिताः ||१२||

कुङ्कुमध्यामकङ्कुष्ठसवर्णाः पित्तकोपतः |

न दह्यन्ते न चूष्यन्ते भिषक् तान् परिवर्जयेत् ||१३||

कण्डूमन्तः स्थिराः श्वेताः स्निग्धाः कफनिमित्ततः |

दूयन्ते वाऽपि दह्यन्ते भिषक् तान् परिवर्जयेत् ||१४||

कृष्णास्तु ये तनुस्रावा वातजा मर्मतापिनः |

स्वल्पामपि न कुर्वन्ति रुजं तान् परिवर्जयेत् ||१५||

क्ष्वेडन्ति घुर्घुरायन्ते ज्वलन्तीव च ये व्रणाः |

त्वङ्मांसस्थाश्च पवनं सशब्दं विसृजन्ति ये ||१६||

ये च मर्मस्वसम्भूता भवन्त्यत्यर्थवेदनाः

दह्यन्ते चान्तरत्यर्थं बहिः शीताश्च ये व्रणाः ||१७||

दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः

शक्तिध्वजरथाः कुन्तवाजिवारणगोवृषाः ||१८||

येषु चाप्यवभासेरन् प्रासादाकृतयस्तथा |

चूर्णावकीर्णा इव ये भान्तिचानवचूर्णिताः ||१९||

प्राणमांसक्षयश्वासकासारोचकपीडिताः |

प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु ||२०||

क्रियाभिः सम्यगारब्धा न सिद्ध्यन्ति च ये व्रणाः |

वर्जयेत्तानपि प्राज्ञः संरक्षन्नात्मनो यशः ||२१||

इति सुश्रुतसंहितायां सूत्रस्थाने विपरीताविपरीतव्रणविज्ञानीयो नामाष्टाविंशतितमोऽध्यायः ||२८||

Last updated on May 24th, 2021 at 07:16 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English