Skip to content

05. कृष्णगतरोगविज्ञानीयाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ शारीरस्थानं

पञ्चमोऽध्यायः।

अथातः कृष्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

यत् सव्रणं शुक्र(क्ल)मथाव्रणं वा पाकात्ययश्चाप्यजका तथैव |

चत्वार एतेऽभिहिता विकाराः कृष्णाश्रयाः सङ्ग्रहतः पुरस्तात् ||३||

निमग्नरूपं हि भवेत्तु कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै |

स्रावं स्रवेदुष्णमतीव रुक् च तत् सव्रणं शुक्र(क्ल)मुदाहरन्ति ||४||

दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि |

अवेदनावन्न च युग्मशुक्रं तत्सिद्धिमाप्नोति कदाचिदेव ||५||

विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासक्तमदृष्टिकृच्च |

द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् ||६||

उष्णाश्रुपातः पिडका च कृष्णे यस्मिन् भवेन्मुद्गनिभं च शुक्रम् |

तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् ||७||

सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुगश्रुयुक्तम् |

विहायसीवाच्छघनानुकारि तदव्रणं साध्यतमं वदन्ति ||८||

गम्भीरजातं बहलं च शुक्रं चिरोत्थितं चापि वदन्ति कृच्छ्रम् |

सञ्च्छाद्यते श्वेतनिभेन सर्वं दोषेण यस्यासितमण्डलं तु ||९||

तमक्षिपाकात्ययमक्षिकोपसमुत्थितं तीव्ररुजं वदन्ति |

अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलाश्रुः |

विदार्य कृष्णं प्रचयोऽभ्युपैति तं चाजकाजातमिति व्यवस्येत् ||१०||

इति सुश्रुतसंहितायामुत्तरतन्त्रे कृष्णगतरोगविज्ञानीयो नाम पञ्चमोऽध्यायः ||५||

Last updated on July 8th, 2021 at 11:18 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English