Skip to content

33. अन्धपूतनाप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

त्रयस्त्रिंशत्तमोऽध्यायः ।

अथातोऽन्धपूतनाप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

तिक्तकद्रुमपत्राणां कार्यः क्वाथोऽवसेचने |
सुरा सौवीरकं कुष्ठं हरितालं मनःशिला ||३||

तथा सर्जरसश्चैव तैलार्थमुपदिश्यते |
पिप्पल्यः पिप्पलीमूलं वर्गो मधुरको मधु ||४||

शालपर्णी बृहत्यौ च घृतार्थमुपदिश्यते |
सर्वगन्धैः प्रदेहश्च गात्रेष्वक्ष्णोश्च शीतलैः ||५||

पुरीषं कौक्कुटं केशांश्चर्म सर्पत्वचं तथा |
जीर्णां च भिक्षुसङ्घाटीं धूमनायोपकल्पयेत् ||६||

कुक्कुटीं मर्कटीं शिम्बीमनन्तां चापि धारयेत् |
मांसमामं तथा पक्वं शोणितं च चतुष्पथे ||७||

निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः |
शिशोश्च स्नपनं कुर्यात् सर्वगन्धोदकैः शुभैः ||८||

कराला पिङ्गला मुण्डा कषायाम्बरवासिनी |
देवी बालमिमं प्रीता संरक्षत्वन्धपूतना ||९||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेऽन्धपूतनाप्रतिषेधो नाम (सप्तमोऽध्यायः, आदितः) त्रयस्त्रिंशोऽध्यायः ||३३||

Last updated on July 8th, 2021 at 11:57 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English