Skip to content

07. Ars`ha Nidaana – Nidaana – AH”

अष्टाङ्गहृदयस्य (निदानस्थानम्‌) अर्शसां निदानं

सप्तमोऽध्यायः।

अथातोऽर्शसां निदानं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

अरिवत्प्राणिनो मांसकीलका विशसन्ति यत्‌।

अर्शांसि तस्मादुच्यन्ते गुदमार्गनिरोधतः॥१॥

दोषास्त्वङ्‌मांसमेदांसि सन्दूष्य विविधाकृतीन्‌।

मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि तान्‌ जगुः॥२॥

सहजन्मोत्तरोत्थानभेदाद्‌द्वेधा समासतः।

शुष्कस्राविविभेदाच्च गुदः स्थूलान्त्रसंश्रयः॥३॥

अर्धपञ्चाङ्गुलस्तस्मिंस्तिस्रोऽध्यर्धाङ्गुलाः स्थिताः।

वल्यः, प्रवाहिणी तासामन्तर्मध्ये विसर्जनी॥४॥

बाह्या संवरणी तस्या गुदौष्ठो बहिरङ्गुले।

यवाध्यर्धः प्रमाणेन रोमाण्यत्र ततः परम्‌॥५॥

तत्र हेतुः सहोत्थानां वलीबीजोपतप्तता।

अर्शसां, बीजतप्तिस्तु मातापित्रपचारतः॥६॥

दैवाच्च, ताभ्यां कोपो हि सन्निपातस्य तान्यतः।

असाध्यान्येवमाख्याताः सर्वे रोगाः कुलोद्भवाः॥७॥

सहजानि विशेषेण रूक्षदुर्दर्शनानि च।

अन्तर्मुखानि पाण्डूनि दारुणोपद्रवाणि च॥८॥

षोढाऽन्यानि पृथग्दोषसंसर्गनिचयास्रतः।

शुष्काणि वातश्लेष्मभ्यामार्द्राणि त्वस्रपित्ततः॥९॥

दोषप्रकोपहेतुस्तु प्रागुक्तस्तेन सादिते।

अग्नौ, मलेऽतिनिचिते, पुनश्चातिव्यवायतः॥१०॥

यानसङ्‌क्षोभविषमकठिनोत्कटकासनात्‌।

बस्तिनेत्राश्मलोष्ठोर्वीतलचैलादिघट्टनात्‌॥११॥

भृशं शीताम्बुसंस्पर्शात्प्रततातिप्रवाहणात्‌।

वातमूत्रशकृद्वेगधारणात्तदुदीरणात्‌॥१२॥

ज्वरगुल्मातिसारामग्रहणीशोफपाण्डुभिः।

कर्शनाद्विषमाभ्यश्च चेष्टाभ्यो, योषितां पुनः॥१३॥

आमगर्भप्रपतनाद्गर्भवृद्धिप्रपीडनात्‌।

ईदृशैश्चापरैर्वायुरपानः कुपितो मलम्‌॥१४॥

पायोर्वलीषु तं धत्ते तास्वभिष्यण्णमूर्तिषु।

जायन्तेऽर्शांसि तत्पूर्वलक्षणं मन्दवह्निता॥१५॥

विष्टम्भः सक्थिसदनं पिण्डिकोद्वेष्टनं भ्रमः।

सादोऽङ्गे नेत्रयोः शोफः शकृद्भेदोऽथवा ग्रहः॥१६॥

मारुतः प्रचुरो मूढः प्रायो नाभेरधश्चरन्‌।

सरुक्‌ सपरिकर्तश्च कृच्छ्रान्निर्गच्छति स्वनन्‌॥१७॥

अन्त्रकूजनमाटोपः क्षामतोद्गारभूरिता।

प्रभूतं मूत्रमल्पा विडश्रद्धा धूमकोऽम्लकः॥१८॥

शिरःपृष्ठोरसां शूलमालस्यं भिन्नवर्णता।

तन्द्रेन्द्रियाणां दौर्बल्यं क्रोधो दुःखोपचारता॥१९॥

आशङ्का ग्रहणीदोषपाण्डुगुल्मोदरेषु च।

एतान्येव विवर्द्धन्ते जातेषु हतनामसु॥२०॥

निवर्तमानोऽपानो हि तैरधोमार्गरोधतः।

क्षोभयन्ननिलानन्यान्‌ सर्वेन्द्रियशरीरगान्‌॥२१॥

तथा मूत्रशकृत्पित्तकफान्‌ धातूंश्च साशयान्‌।

मृद्नात्यग्निं ततः सर्वो भवति प्रायशोऽर्शसः॥२२॥

कृशो भृशं हतोत्साहो दीनः क्षामोऽतिनिष्प्रभः।

असारो विगतच्छायो जन्तुजुष्ट इव द्रुमः॥२३॥

कृत्स्नैरुपद्रवैर्ग्रस्तो यथोक्तैर्मर्मपीडनैः।

तथा कासपिपासास्यवैरस्यश्वासपीनसैः॥२४॥

क्लमाङ्गभङ्गवमथुक्षवथुश्वयथुज्वरैः।

क्लैब्यबाधिर्यतैमिर्यशर्कराश्मरिपीडितः॥२५॥

क्षामभिन्नस्वरो ध्यायन्मुहुः ष्ठीवन्नरोचकी।

सर्वपर्वास्थिहृन्नाभिपायुवङ्‌क्षणशूलवान्‌॥२६॥

गुदेन स्रवता पिच्छां पुलाकोदकसन्निभाम्‌।

विबद्धमुक्तं शुष्कार्द्रं पक्वामं चान्तराऽन्तरा॥२७॥

पाण्डु पीतं हरिद्रक्तं पिच्छिलं चोपवेश्यते।

गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमिचिमान्विताः॥२८॥

म्लानाः श्यावारुणाः स्तब्धा विषमाः परुषाः खराः।

मिथो विसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः॥२९॥

बिम्बीकर्कन्धुखर्जूरकार्पासीफलसन्निभाः।

केचित्कदम्बपुष्पाभाः केचित्सिद्धार्थकोपमाः॥३०॥

शिरः पार्श्वांसकट्यूरुवङ्‌क्षणाभ्यधिकव्यथाः।

क्षवथूद्गारविष्टम्भहृद्‌ग्रहारोचकप्रदाः॥३१॥

कासश्वासाग्निवैषम्यकर्णनादभ्रमावहाः।

तैरार्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकम्‌॥३२॥

रुक्फेनपिच्छानुगतं विबद्धमुपवेश्यते।

कृष्णत्वङ्‌नखविण्मूत्रनेत्रवक्त्रश्च जायते॥३३॥

गुल्मप्लीहोदराष्ठीलासम्भवस्तत एव च।

पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः॥३४॥

तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथाः।

शुकजिह्वायकृत्खण्डजलौकोवक्त्रसन्निभाः॥३५॥

दाहपाकज्वरस्वेदतृण्मूर्च्छारुचिमोहदाः।

सोष्माणो द्रवनीलोष्णपीतरक्तामवर्चसः॥३६॥

यवमध्या हरित्पीतहारिद्रत्वङ्‌नखादयः।

श्लेष्मोल्बणा महामूला घना मन्दरुजः सिताः॥३७॥

उच्छूनोपचिताः स्रिग्धाः

स्तब्धवृत्तगुरुस्थिराः।

पिच्छिलाः स्तिमिताः श्लक्ष्णाः

कण्ड्‌वाढ्याः स्पर्शनप्रियाः॥३८॥

करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः।

वङ्‌क्षणानाहिनः पायुबस्तिनाभिविकर्तिनः॥३९॥

सकासश्वासहृल्लासप्रसेकारुचिपीनसाः।

मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः॥४०॥

क्लैब्याग्निमार्दवच्छर्दिरामप्रायविकारदाः।

वसाभसकफप्राज्यपुरीषाः सप्रवाहिकाः॥४१॥

न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः।

संसृष्टलिङ्गाः संसर्गात्‌ निचयात्सर्वलक्षणाः॥४२॥

रक्तोल्बणा गुदेकीलाः पित्ताकृतिसमन्विताः।

वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः॥४३॥

तेऽत्यर्थं दुष्टमुष्णं च गाढविट्‌प्रतिपीडिताः।

स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः॥४४॥

भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः।

हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः॥४५॥

मुद्गकोद्रवजूर्णाह्वकरीरचणकादिभिः।

रूक्षैः सङ्‌ग्राहिभिर्वायुः स्वे स्थाने कुपितो बली॥४६॥

अधोवहानि स्रोतांसि संरुध्याधः प्रशोषयन्‌।

पुरीषं वातविण्मूत्रसङ्गं कुर्वीत दारुणम्‌॥४७॥

तेन तीव्रा रुजा कोष्ठपृष्ठहृत्पार्श्वगा भवेत्‌।

आध्मानमुदरावेष्टो हृल्लासः परिकर्तनम्‌॥४८॥

बस्तौ च सुतरां शूलं गण्डश्वयथुसम्भवः।

पवनस्योर्ध्वगामित्वं ततछर्द्यरुचिज्वराः॥४९॥

हृद्रोगग्रहणीदोषमूत्रसङ्गप्रवाहिकाः।

बाधिर्यतिमिरश्वासशिरोरुक्कासपीनसाः॥५०॥

मनोविकारस्तृष्णास्रपित्तगुल्मोदरादयः।

ते ते च वातजा रोगा जायन्ते भृशदारुणाः॥५१॥

दुर्नाम्नामित्युदावर्तः परमोऽयमुपद्रवः।

वाताभिभूतकोष्ठानां तैर्विनाऽपि स जायते॥५२॥

सहजानि त्रिदोषाणि यानि चाभ्यन्तरे वलौ।

स्थितानि तान्यसाध्यानि, याप्यन्तेऽग्निबलादिभिः॥५३॥

द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च।

कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च॥५४॥

बाह्यायां तु वलौ जातान्येकदोषोल्बणानि च।

अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च॥५५॥

मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि तु।

गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च॥५६॥

व्यानो गृहित्वा श्लेष्माणं करोत्यर्शस्त्वचो बहिः।

कीलोपमं स्थिरखरं चर्मकीलं तु तं विदुः॥५७॥

वातेन तोदः पारुष्यं, पित्तादसितरक्तता।

श्लेष्मणा स्निग्धता तस्य ग्रथितत्वं सवर्णता॥५८॥

अर्शसां प्रशमे यत्नमाशु कुर्वीत बुद्धिमान्‌।

तान्याशु हि गुदं बद्ध्वा कुर्युर्बद्धगुदोदरम्‌॥५९॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थानेऽर्शसां निदानं नाम सप्तमोऽध्यायः॥७॥

Last updated on August 16th, 2021 at 06:20 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English