Skip to content

09. Khud`d`aakachatushpaada – Sootra – C”

नवमोऽध्यायः ।

अथातः खुड्डाकचतुष्पादमध्यायं व्याख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्‌ ।

गुणवत्‌ कारणं ज्ञेयं विकारव्युपशान्तये ॥३॥

विकारो धातुवैषम्यं, साम्यं प्रकृतिरुच्यते ।

सुखसंज्ञकमारोग्यं, विकारो दुःखमेव च ॥४॥

चतुर्णां भिषगादीनां शस्तानां धातुवैकृते ।

प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते ॥५॥

श्रुते पर्यवदातत्वं बहुशो दृष्टकर्मता ।

दाक्ष्यं शौचमिति ज्ञेयं वैद्ये गुणचतुष्टयम्‌ ॥६॥

बहुता तत्रयोग्यत्वमनेकविधकल्पना ।

संपच्चेति चतुष्कोऽयं द्रव्याणां गुण उच्यते ॥७॥

उपचारज्ञता दाक्ष्यमनुरागश्च भर्तरि ।

शौचं चेति चतुष्कोऽयं गुणः परिचरे जने ॥८॥

 स्मृतिर्निर्देशकारित्वमभीरुत्वमथापि च ।

ज्ञापकत्वं च रोगाणामातुरस्य गुणाः स्मृताः ॥९॥

कारणं षोडशगुणं सिध्दौ पादचतुष्टयम्‌ ।

विज्ञाता शासिता योक्ता प्रधानं भिषगत्र तु ॥१०॥

पक्तौ हि कारणं पक्तुर्यथा पात्रेन्धनानलाः ।

विजेतुर्विजये भूमिश्चमूः प्रहरणानि च ॥११॥

आतुराद्यास्तथा सिध्दौ पादाः कारणसंज्ञिताः ।

वैद्यस्यातश्चिकित्सायां प्रधानं कारणं भिषक्‌ ॥१२॥

मृद्दण्डचक्रसूत्राद्याः कुम्भकारादृते यथा ।

नावहन्ति गुणं वैद्यादृते पादत्रयं तथा ॥१३॥

गन्धर्वपुरवन्नाशं यद्विकाराः सुदारुणाः ।

यान्ति यच्चेतरे वृध्दिमाशूपायप्रतीक्षिणः ॥१४॥

सति पादत्रये ज्ञाज्ञौ भिषजावत्र कारणम्‌ ।

वरमात्मा हुतोऽज्ञेन न चिकित्सा प्रवर्तिता ॥१५॥

पाणिचाराद्यथाऽचक्षुरज्ञानाद्भीतभीतवत्‌ ।

नौर्मारुतवशेवाज्ञो भिषक्‌ चरति कर्मसु ॥१६॥

यदृच्छया समापन्नमुत्तार्य नियतायुषम्‌ ।

भिषङ्‌मानी निहन्त्याशु शतान्यनियतायुषाम्‌ ॥१७॥

तस्माच्छास्त्रेऽर्थविज्ञाने प्रवृत्तौ कर्मदर्शने ।

भिषक्‌ चतुष्टये युक्तः प्राणाभिसर उच्यते ॥१८॥

हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे ।

ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः ॥१९॥

शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये ।

पात्रापेक्षीण्यतः प्रज्ञां चिकित्सार्थं विशोधयेत्‌ ॥२०॥

विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया ।

यस्यैते षड्‌गुणास्तस्य न साध्यमतिवर्तते ॥२१॥

विद्या मतिः कर्मदृष्टिरभ्यासः सिध्दिराश्रयः ।

वैद्यशब्दाभिनिष्पत्तावलमेकैकमप्यतः ॥२२॥

यस्य त्वेते गुणाः सर्वे सन्ति विद्यादयः शुभाः ।

स वैद्यशब्दं सद्भूतमर्हन्‌ प्राणिसुखप्रदः ॥२३॥

शास्त्रं ज्योतिः प्रकाशार्थं दर्शनं बुध्दिरात्मनः ।

ताभ्यां भिषक्‌ सुयुक्ताभ्यां चिकित्सन्नापराध्यति ॥२४॥

चिकित्सिते त्रयः पादा यस्माद्वैद्यव्यपाश्रयः ।

तस्मात्‌ प्रयत्नमातिष्ठेद्भिषक्‌ स्वगुणसंपदि ॥२५॥

मैत्री कारुण्यमार्तेषु शक्ये प्रीतिरुपेक्षणम्‌ ।

प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधेति ॥२६॥

तत्र श्लोकौ –

भिषग्जितं चतुष्पादं पादः पादश्चतुर्गुणः ।

भिषक्‌ प्रधानं पादेभ्यो यस्माद्वैद्यस्तु यद्गुणः ॥२७॥

ज्ञानानि बुध्दिर्ब्राह्मी च भिषजां या चतुर्विधा ।

सर्वमेतच्चतुष्पादे खुड्डाके संप्रकाशितमिति ॥२८॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने खुड्डाकचतुष्पादो नाम नवमोऽध्यायः ॥९॥

Last updated on May 28th, 2021 at 04:59 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English