Skip to content

28. स्कन्दग्रहप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

अष्टाविंशतितमोऽध्याय: ।

अथातः स्कन्धग्रहप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

स्कन्दग्रहोपसृष्टानां कुमाराणां प्रशस्यते |
वातघ्नद्रुमपत्राणां निष्क्वाथः परिषेचने ||३||

तेषां मूलेषु सिद्धं च तैलमभ्यञ्जने हितम् |
सर्वगन्धसुरामण्डकैडर्यावापमिष्यते ||४||

देवदारुणि रास्नायां मधुरेषु द्रुमेषु च |
सिद्धं सर्पिश्च सक्षीरं पानमस्मै प्रयोजयेत् ||५||

सर्षपाः सर्पनिर्मोको वचा काकादनी घृतम् |
उष्ट्राजाविगवां चैव रोमाण्युद्धूपनं शिशोः ||६||

सोमवल्लीमिन्द्रवल्लीं शमीं बिल्वस्य कण्टकान् |
मृगादन्याश्च मूलानि ग्रथितान्येव धारयेत् ||७||

रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धा विविधाश्च भक्ष्याः |
घण्टा च देवाय बलिर्निवेद्यः सुकुक्कुटः स्कन्दग्रहे हिताय ||८||

स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात् पुरं शालियवैर्नवैस्तु |
अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं व्याहृतिभिश्च वह्नेः ||९||

रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम् |
अहन्यहनि कर्तव्या या भिषग्भिरतन्द्रितैः ||१०||

तपसां तेजसां चैव यशसां वपुषां तथा |
निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु ||११||

ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः |
देवसेनारिपुहरः पातु त्वां भगवान् गुहः ||१२||

देवदेवस्य महतः पावकस्य च यः सुतः |
गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छतु ||१३||

रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः |
रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः ||१४||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दप्रतिषेधो
नामा(द्वितीयोऽध्यायः, आदितोऽ)ष्टाविंशोऽध्यायः ||२८||

Last updated on July 8th, 2021 at 11:53 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English