Skip to content

05. Agropaharan`eeya – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

पञ्चमोऽध्यायः ।

अथातोऽग्रोपहरणीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

त्रिविधं कर्म- पूर्वकर्म, प्रधानकर्म, पश्चात्कर्मेति; तद्व्याधिं प्रत्युपदेक्ष्यामः ||३||

अस्य तु शास्त्रस्य शस्त्रकर्मप्राधान्याच्छस्त्रकर्मैव तावत् पूर्वमुपदेक्ष्यामस्तत्सम्भारांश्च ||४||

तच्च शस्त्रकर्माऽष्टविधं; तद्यथा- छेद्यं, भेद्यं, लेख्यं, वेध्यम्, एष्यम्, आहार्यं, विस्राव्यं, सीव्यमिति ||५||

अतोऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वमेवोपकल्पयितव्यानि भवन्ति, तद्यथा- यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गजलौकालाबूजाम्बवौष्ठपिचुप्रोतसूत्रपत्रपट्टमधुघृतवसापयस्तैल- तर्पणकषायालेपनकल्कव्यजनशीतोष्णोदककटाहादीनि, परिकर्मिणश्च स्निग्धाः स्थिरा बलवन्तः ||६||

ततः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं विप्रान् भिषजश्चार्चयित्वा, कृतबलिमङ्गलस्वस्तिवाचनं लघुभुक्तवन्तं प्राङ्मुखमातुरमुपवेश्य, यन्त्रयित्वा, प्रत्यङ्मुखो वैद्यो मर्मसिरास्नायुसन्ध्यस्थिधमनीः परिहरन्, अनुलोमं शस्त्रं निदध्यादापूयदर्शनात्, सकृदेवापहरेच्छस्त्रमाशु च; महत्स्वपि च पाकेषु द्व्यङ्गुलान्तरं त्र्यङ्गुलान्तरं वा शस्त्रपदमुक्तम् ||७||

तत्रायतो विशालः समः सुविभक्तो निराश्रय इति व्रणगुणाः ||८||

भवतश्चात्र-

आयतश्च विशालश्च सुविभक्तो निराश्रयः |

प्राप्तकालकृतश्चापि व्रणः कर्मणि शस्यते ||९||

शौर्यमाशुक्रिया शस्त्रतैक्ष्ण्यमस्वेदवेपथु |

असम्मोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते ||१०||

एकेन वा व्रणेनाशुध्यमाने नाऽन्तरा बुद्ध्याऽवेक्ष्यापरान् व्रणान् कुर्यात् ||११||

भवति चात्र-

यतो यतो गतिं  विद्यादुत्सङ्गो यत्र यत्र च |

तत्र तत्र व्रणं कुर्याद्यथा दोषो न तिष्ठति ||१२||

तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकक्षाकुक्षिवङ्क्षणेषु तिर्यक् छेद उक्तः ||१३||

(चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् |

अर्धचन्द्राकृतींश्चापि गुदे मेढ्रे च बुद्धिमान्) ||१४||

अन्यथा तु सिरास्नायुच्छेदनम्, अतिमात्रं वेदना, चिराद्व्रणसंरोहो, मांसकन्दीप्रादुर्भावश्चेति ||१५||

मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ||१६||

ततः शस्त्रमवचार्य,शीताभिरद्भिरातुरमाश्वास्य, समन्तात् परिपीड्याङ्गुल्या, व्रणमभिमृद्य(ज्य), प्रक्षाल्य कषायेण प्रोतेनोदकमादाय, तिलकल्कमधुसर्पिःप्रगाढामौषधयुक्तां नातिस्निग्धां नातिरूक्षां वर्तिं प्रणिदध्यात्; ततः कल्केनाच्छाद्य, घनां कवलिकां दत्त्वा, वस्त्रपट्टेन बध्नीयात्; वेदनारक्षोघ्नैर्धूपैर्धूपयेत्, रक्षोघ्नैश्च मन्त्रै रक्षां कुर्वीत ||१७||

ततो गुग्गुल्वगुरुसर्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रविमिश्रैराज्ययुक्तैर्धूपयेत् |

आज्यशेषेण चास्य प्राणान् समालभेत ||१८||

उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् रक्षाकर्म कुर्यात्; तद्वक्ष्यामः- ||१९||

कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च |

रक्षाकर्म करिष्यामि ब्रह्मा तदनुमन्यताम् ||२०||

नागाः पिशाचा गन्धर्वाः पितरो यक्षराक्षसाः |

अभिद्रवन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा ||२१||

पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः |

दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः ||२२||

पान्तु त्वां मुनयो ब्राह्मया दिव्या राजर्षयस्तथा |

पर्वताश्चैव नद्यश्च सर्वाः सर्वे च सागराः ||२३||

अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च |

सोमो व्यानमपानं ते पर्जन्यः परिरक्षतु ||२४||

उदानं विद्युतः पान्तु समानं स्तनयित्नवः |

बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ||२५||

कामांस्ते पान्तु गन्धर्वाः सत्त्वमिन्द्रोऽभिरक्षतु |

प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ||२६||

चक्षुः सूर्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः |

नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ||२७||

रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा |

आकाशं खानि ते पान्तु देहं तव वसुन्धरा ||२८||

वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् |

पौरुषं पुरुषश्रेष्ठो ब्रह्माऽऽत्मानं ध्रुवो भ्रुवौ ||२९||

एता देहे विशेषेण तव नित्या हि देवताः |

एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ||३०||

स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्वताम् |

(स्वस्ति ते चन्द्रसूर्यौ च स्वस्ति नारदपर्वतौ) |

स्वस्त्यग्निश्चौव वायुश्च स्वस्ति देवाः सहेन्द्रगाः ||३१||

पितामहकृता रक्षा स्वस्त्यायुर्वर्धतां तव |

ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ||३२||

इति स्वाहा |

एतैर्वेदात्मकैर्मन्त्रैः कृत्याव्याधिविनाशनैः |

मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ||३३||

ततः कृतरक्षमातुरमागारं प्रवेश्य, आचारिकमादिशेत् ||३४||

इदानीं कृतरक्षस्येतिकर्तव्यतां दर्शयन्नाह- ततः कृतरक्षमित्यादि| आगारं गृहम्, आचारिकं द्विविधमाहारविहारलक्षणं व्रणितोपासनीयनिर्दिष्टम्||३४||

ततस्तृतीयेऽहनि विमुच्यैवमेव बध्नीयाद्वस्त्रपट्टेन; न चैनं त्वरमाणोऽपरेद्युर्मोक्षयेत् ||३५||

द्वितीयदिवसपरिमोक्षणाद्विग्रथितो व्रणश्चिरादुपसंरोहति, तीव्ररुजश्च भवति ||३६||

अत ऊर्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धाहाराचारान् विदध्यात् ||३७||

न चैनं त्वरमाणः सान्तर्दोषं रोपयेत्; स ह्यल्पेनाप्यपचारेणाभ्यन्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति ||३८||

भवन्ति चात्र-

तस्मादन्तर्बहिश्चैव सुशुद्धं रोपयेद्व्रणम् |

रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् |

हर्षं क्रोधं भयं चापि यावत् स्थैर्योपसम्भवात् ||३९||

हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् |

त्र्यहाद्द्व्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धिमान् ||४०||

अतिपातिषु रोगेषु नेच्छेद्विधिमिमं भिषक् |

प्रदीप्तागारवच्छीघ्रं तत्र कुर्यात् प्रतिक्रियाम् ||४१||

या वेदना शस्त्रनिपातजाता तीव्रा शरीरं प्रदुनोति जन्तोः |

धृतेन सा शान्तिमुपैति सिक्ता कोष्णेन यष्टीमधुकान्वितेना ||४२||

इति सुश्रुतसंहितायां सूत्रस्थानेऽग्रोपहरणीयो नाम पञ्चमोऽध्यायः ||५||

Last updated on May 24th, 2021 at 05:57 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English