षष्ठोऽध्यायः
अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः ॥१॥
इति ह स्माह भगवानात्रेयः ॥२॥
तस्याशिताद्यादाहाराद्बलं वर्णश्च वर्धते ।
यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम् ॥३॥
इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात् ।
तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन्
ग्रीष्मान्तान् व्यवस्येत्, वर्षादीन् पुनर्हेमन्तान्तान्
दक्षिणायनं विसर्गं च ॥४॥
विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति, इतरे पुनरादाने;
सोमश्चाव्याहतबलः शिशिराभिर्भाभिरापूरयञ्जगदाप्या-
ययति शश्वत, अतो विसर्गः सौम्यः। आदानं पुनराग्नेयं; तावेतावर्कवायू सोमश्च कालस्वभावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताः समुपदिश्यन्ते ॥५॥
तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्ररुक्षाश्चो-
पशोषयन्तः शिशिरवसन्तग्रीष्मेषु यथा क्रमं रौक्ष्यमुत्पा-
दयन्तो रूक्षान् रसांस्तिक्तकषायकटुकाश्चांभिवर्धयन्तो
नृणां दौर्बल्यमावहन्ति ॥६॥
वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखेऽर्के कालमार्गमेघवात-
वर्षाभिहतप्रतापे, शशिनि चाव्याहतबले, माहेन्द्रसलिलप्र-
शान्तसन्तापे जगति, अरूक्षा रसाः प्रवर्धन्तेऽम्ललवण-
मधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति ॥७॥
आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम् ।
मध्ये मध्यबलं, त्वन्ते श्रेष्ठमग्रे च निर्दिशेत् ॥८॥
शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली ।
पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः ॥९॥
स यदा नेन्धनं युक्तं लभते देहजं तदा ।
रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति ॥१०॥
तस्मात्तुषारसमये स्निग्धाम्ललवणान् रसान् ।
औदकानूपमांसानां मेद्यानामुपयोजयेत् ॥११॥
बिलेशयानां मांसानि प्रसहानां भृतानि च ।
भक्षयेन्मदिरां शीधुं मधु चानुपिबेन्नरः ॥१२॥
गोरसानिक्षुविकृतीर्वसां तैलं नवौदनम् ।
हेमन्तेऽभ्यस्यतस्तोयमुष्णं चायुर्न हीयते॥१३॥
अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपम् ।
भजेद्भूमिगृहं चोष्णमुष्णं गर्भगृहं तथा ॥१४॥
शीतेषु संवृतं सेव्यं यानं शयनमासनम् ।
प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम् ॥१५॥
गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा ।
शयने प्रमदां पीनां विशालोपचितस्तनीम् ॥१६॥
आलिङ्ग्यागुरूदिग्धाङ्गीं सुप्यात् समदमन्मथः ।
प्रकामं च निषेवेत मैथुनं शिशिरागमे ॥१७॥
वर्जयेदन्नपानानि वातलानि लघूनि च ।
प्रवातं प्रमिताहारमुदमन्थं हिमागमे ॥१८॥
हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम् ।
रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम् ॥१९॥
तस्माद्धैमन्तिकः सर्वः शिशिरे विधिरिष्यते ।
निवातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत् ॥२०॥
कटुतिक्तकषायाणि वातलानि लघूनि च ।
वर्जयेदन्नपानानि शिशिरे शीतलानि च ॥२१॥
वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः ।
कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून् ॥२२॥
तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत् ।
गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत् ॥२३॥
व्यायामोद्वर्तनं धूमं कवलग्रहमञ्जनम् ।
सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे ॥२४॥
चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः ।
शारभं शाशमैणेयं मांसं लावकपिञ्जलम् ॥२५॥
भक्षयेन्निर्गदं सीधुं पिबेन्माध्वीकमेव वा ।
वसन्तेऽनुभवेत् स्त्रीणां काननानां च यौवनम् ॥२६॥
मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः ।
स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम् ॥२७॥
शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः ।
घृतं पयः सशाल्यन्नं भजन् ग्रीष्मे न सीदति ॥२८॥
मद्यमल्पं न वा पेयमथवा सुबहूदकम् ।
लवणाम्लकटूष्णानि व्यायामं च विवर्जयेत् ॥२९॥
दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले ।
भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके ॥३०॥
व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः ।
सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ॥३१॥
काननानि च शीतानि जलानि कुसुमानि च ।
ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः ॥३२॥
आदानदुर्बले देहे पक्ता भवति दुर्बलः ।
स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः ॥३३॥
भूबाष्पान्मेघनिस्यन्दात् पाकादम्लाज्जलस्य च ।
वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः ॥३४॥
तस्मात् साधारणः सर्वो विधिर्वर्षासु शस्यते ।
उदमन्थं दिवास्वप्नमवश्यायं नदीजलम् ॥३५॥
व्यायाममातपं चैव व्यवायं चात्र वर्जयेत् ।
पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत् ॥३६॥
व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि ।
विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये ॥३७॥
अग्निसंरक्षणवता यवगोधूमशालयः ।
पुराणा जाङ्गलैर्मांसैर्भोज्या यूषैश्च संस्कृतैः ॥३८॥
पिबेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा ।
माहेन्द्रं तप्तशीतं वा कौपं सारसमेव वा ॥३९॥
प्रघर्षोद्वर्तनस्नानगन्धमाल्यपरो भवेत् ।
लघुशुद्धाम्बरः स्थानं भजेदक्लेदि वार्षिकम् ॥४०॥
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः ।
तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति ॥४१॥
तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम् ।
पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङि्क्षतैः ॥४२॥
लावान् कपिञ्जलानेणानुरभ्राञ्छरभान् शशान् ।
शालीन् सयवगोधूमान् सेव्यानाहुर्घनात्यये ॥४३॥
तिक्तस्य सर्पिषः पानं विरेको रक्तमोक्षणम् ।
धाराधरात्यये कार्यमातपस्य च वर्जनम् ॥४४॥
वसां तैलमवश्यायमौदकानूपमामिषम् ।
क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत् ॥४५॥
दिवा सूर्यांशुसंतप्तं निशि तन्द्रांशुशीतलम् ।
कालेन पक्वं निर्दोषमगस्त्येनाविषीकृतम् ॥४६॥
हंसोदकमिति ख्यातं शारदं विमलं शुचि ।
स्नानपानावगाहेषु हितमम्बु यथाऽमृतम् ॥४७॥
शारदानि च माल्यानि वासांसि विमलानि च ।
शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः ॥४८॥
इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम् ।
उपशेते यदौचित्यादोकःसात्म्यं तदुच्यते ॥४९॥
देशानामामयानां च विपरीतगुणं गुणैः ।
सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च ॥५०॥
तत्र श्लोकः-
ऋतावृतौ नृभिः सेव्यमसेव्यं यच्च किंचन ।
तस्याशितीये निर्दिष्टं हेतुमत् सात्म्यमेव च ॥५१॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने
तस्याशितीयो नाम षष्ठोऽध्यायः ॥६॥
Last updated on May 27th, 2021 at 11:09 am