Skip to content

47. पानात्ययप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

सप्तचत्वारिंशत्तमोऽध्यायः ।

अथातः पानात्ययप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव च |
रूक्षमाशुकरं चैव व्यवायि च विकाशि च ||३||

औष्ण्याच्छीतोपचारं तत्तैक्ष्ण्याद्धन्ति मनोगतिम् |
विशत्यवयवान् सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत् ||४||

मारुतं कोपयेद्रौक्ष्यादाशुत्वाच्चाशुकर्मकृत् |
हर्षदं च व्यवायित्वाद्विकाशित्वाद्विसर्पति ||५||

तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम् |
केचिल्लवणवर्ज्यांस्तु रसानत्रादिशन्ति हि ||६||

स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम् |
भवेदायुःप्रकर्षाय बलायोपचयाय च ||७||

काम्यता मनसस्तुष्टिर्धैर्यं तेजोऽतिविक्रमः |
विधिवत् सेव्यमाने तु मद्ये सन्निहिता गुणाः ||८||

तदेवानन्नमज्ञेन सेव्यमानममात्रया |
कायाग्निना ह्यग्निसमं समेत्य कुरुते मदम् ||९||

मदेन करणानां तु भावान्यत्वे कृते सति |
निगूढमपि भावं स्वं प्रकाशीकुरुतेऽवशः ||१०||

त्र्यवस्थश्च मदो ज्ञेयः पूर्वो मध्योऽथ पश्चिमः |
पूर्वे वीर्यरतिप्रीतिहर्षभाष्यादिवर्धनम् ||११||

प्रलापो मध्यमे मोहो युक्तायुक्तक्रियास्तथा |
विसञ्ज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः ||१२||

श्लैष्मिकानल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः |
पानं न बाधतेऽत्यर्थं विपरीतांस्तु बाधते ||१३||

निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् |
उत्पादयेत् कष्टतमान् विकारानापादयेच्चापि शरीरमेदम् ||१४||

क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन |
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ||१५||

अत्यम्लभक्ष्यावततोदरेण साजीर्णभुक्तेन तथाऽबलेन |
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान् ||२६||

पानात्ययं परमदं पानाजीर्णमथापि वा |
पानविभ्रममुग्रं च तेषां वक्ष्यमि लक्षणम् ||१७||

स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाः पानात्ययेऽनिलकृते शिरसो रुजश्च |
स्वेदप्रलापमुखशोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च ||१८||

श्लेष्मात्मके वमथुशीतकफप्रसेकाः सर्वात्मके भवति सर्वविकारसम्पत् |
ऊष्माणमङ्गगुरुतां विरसाननत्वं श्लेष्माधिकत्वमरुचिं मलमूत्रसङ्गम् ||१९||

लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णां रुजां शिरसि सन्धिषु चापि भेदम् |
आध्मानमुद्गिरणमम्लरसो विदाहोऽजीर्णस्य पानजनितस्य वदन्ति लिङ्गम् ||२०||

ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि |
हृद्गात्रतोदवमथुज्वरकण्ठधूममूर्च्छाकफस्रवणमूर्धरुजो विदाहः ||२१||

द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः |
हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमति(पि)पानहतं विजह्यात् ||२२||

जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे च |
हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते ||२३||

तेषां निवारणमिदं हि मयोच्यमानं व्यक्ताभिधानमखिलेन विधिं निबोध |
मद्यं तु चुक्रमरिचार्द्रकदीप्यकुष्ठसौवर्चलायुतमलं पवनस्य शान्त्यै ||२४||

पृथ्वीकदीप्यकमहौषधहिङ्गुभिर्वा सौवर्चलेन च युतं वितरेत् सुखाय |
आम्रातकाम्रफलदाडिममातुलुङ्गैः कुर्याच्छुभान्यपि च षाडवपानकानि ||२५||

सेवेत वा फलरसोपहितान् रसादीनानूपवर्गपिशितान्यपि गन्धवन्ति |
पित्तात्मके मधुरवर्गकषायमिश्रं मद्यं हितं समधुशर्करमिष्टगन्धम् ||२६||

पीत्वा च मद्यमपि चेक्षुरसप्रगाढं निःशेषतः क्षणमवस्थितमुल्लिखेच्च |
लावैणतित्तिरिरसांश्च पिबेदनम्लान् मौद्गान् सुखाय सघृतान् ससितांश्च यूषान् ||२७||

पानात्यये कफकृते कफमुल्लिखेच्च मद्येन बिम्बिविदुलोदकसंयुतेन |
सेवेत तिक्तकटुकांश्च रसानुदारान् यूषांश्च तिक्तकटुकोपहितान् हिताय ||२८||

पथ्यं यवान्नविकृतानि च जाङ्गलानि श्लेष्मघ्नमन्यदपि यच्च निरत्ययं स्यात् |
कुर्याच्च सर्वमथ सर्वभवे विधानं द्वन्द्वोद्भवे द्वयमवेक्ष्य यथाप्रधानम् ||२९||

सामान्यमन्यदपि यच्च समग्रमग्र्यं वक्ष्यामि यच्च मनसो मदकृत् सुखं च |
त्वङ्गागपुष्पमगधैलमधूकधान्यैः श्लक्ष्णैरजाजिमरिचैश्च कृतं समांशैः ||३०||

पानं कपित्थरसवारिपरूषकाढ्यं पानात्ययेषु विधिवत्स्रुतमम्बरान्ते |
ह्रीवेरपद्मपरिपेलवसम्प्रयुक्तैः पुष्पैर्विलिप्य करवीरजलोद्भवैश्च ||३१||

पिष्टैः सपद्मकयुतैरपि सारिवाद्यैः सेकं जलैश्च वितरेदमलैः सुशीतैः |
त्वक्पत्रचोचमरिचैलभुजङ्गपुष्पश्लेष्मातकप्रसववल्कगुडैरुपेतम् ||३२||

द्राक्षायुतं हृतमलं मदिरामयार्तैस्तत्पानकं शुचि सुगन्धि नरैर्निषेव्यम् |
पिष्ट्वा पिबेच्च मधुकं कटुरोहिणीं च द्राक्षां च मूलमसकृत् त्रपुषीभवं यत् ||३३||

कार्पासिनीमथ च नागबलां च तुल्यां पीत्वा सुखी भवति साधु सुवर्चलां च |
काश्मर्यदारुविडदाडिमपिप्पलीषु द्राक्षान्वितासु कृतमम्बुनि पानकं यत् ||३४||

तद्बीजपूरकरसायुतमाशु पीतं शान्तिं परां परमदे त्वचिरात् करोति |
द्राक्षासितामधुकजीरकधान्यकृष्णास्वेवं कृतं त्रिवृतया च पिबेत्तथैव ||३५||

सौवर्चलायुतमुदाररसं फलाम्लं भार्गीशृतेन च जलेन हितोऽवसेकः ||३६||

इक्ष्वाकुधामार्गववृक्षकाणि काकाह्वयोदुम्बरिकाश्च दुग्धे |
विपाच्य तस्याञ्जलिना वमेद्धि मद्यं पिबेच्चाह्नि गते त्वजीर्णे ||३७||

त्वक्पिप्पलीभुजगपुष्पविडैरुपेतं सेवेत हिङ्गुमरिचैलयुतं फलाम्लम् |
उष्णाम्बुसैन्धवयुतास्त्वथवा विडत्वक्चव्यैलहिङ्गुमगधाफलमूलशुण्ठीः ||३८||

हृद्यैः खडैरपि च भोजनमत्र शस्तंद्राक्षाकपित्थफलदाडिमपानकं यत् |
तत् पानविभ्रमहरं मधुशर्कराढ्यमाम्रातकोलरसपानकमेव चापि ||३९||

खर्जूरवेत्रककरीरपरूषकेषु द्राक्षात्रिवृत्सु च कृतं ससितं हिमं वा |
श्रीपर्णियुक्तमथवा तु पिबेदिमानि यष्ट्याह्वयोत्पलहिमाम्बुविमिश्रितानि ||४०||

क्षीरिप्रवालबिसजीरकनागपुष्पपत्रैलवालुसितसारिवपद्मकानि |
आम्रातभव्यकरमर्दकपित्थकोलवृक्षाम्लवेत्रफलजीरकदाडिमानि ||४१||

सेवेत वा मरिचजीरकनागपुष्पत्वक्पत्रविश्वचविकैलयुतान् रसांश्च |
सूक्ष्माम्बरस्रुतहिमांश्च सुगन्धिगन्धान् पानोद्भवान्नुदति सप्तगदानशेषान् ||४२||

पञ्चेन्द्रियार्थविषया मृदुपानयोगा हृद्याः सुखाश्च मनसः सततं निषेव्याः |
पानात्ययेषु विकटोरुनितम्बवत्यः पीनोन्नतस्तनभरानतमध्यदेशाः ||४३||

प्रौढाः स्त्रियोऽभिनवयौवनपीनगात्र्यः सेव्याश्च पञ्चविषयातिशयस्वभावाः ||४४||

पिबेद्रसं पुष्पफलोद्भवं वा सितामधूकत्रिसुगन्धियुक्तम् |
सञ्चूर्ण्य संयोज्य च नागपुष्पैरजाजिकृष्णामरिचैश्च तुल्यैः ||४५||

वर्षाभूयष्ट्याह्वमधूकलाक्षात्वक्कर्बुदाराङ्कुरजीरकाणि |
द्राक्षां च कृष्णामथ केशरं च क्षीरे समालोड्य पिबेत् सुखेप्सुः ||४६||

भवेच्च मद्येन तु येन पातितः प्रकामपीतेन सुरासवादिना |
तदेव तस्मै विधिवत् प्रदापयेद्विपर्यये भ्रंशमवश्यमृच्छति ||४७||

यथा नरेन्द्रोपहतस्य कस्यचिद्भवेत् प्रसादस्तत एव नान्यतः |
ध्रुवं तथा मद्यहतस्य देहिनो भवेत् प्रसादस्तत एव नान्यतः ||४८||

विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते |
तस्य पानात्ययोद्दिष्टा विकाराः सम्भवन्ति हि ||४९||

मद्यस्याग्नेयवायव्यौ गुणावम्बु(म्भो)वहानि तु |
स्रोतांसि शोषयेयातां तेन तृष्णोपजायते ||५०||

पाटलोत्पलकन्देषु मुद्गपर्ण्यां च साधितम् |
पिबेन्मागधिकोन्मिश्रं तत्राम्भो हिमशीतलम् ||५१||

सर्पिस्तैलवसामज्जदधिभृङ्गरसैर्युतम् |
क्वाथेन बिल्वयवयोः सर्वगन्धैश्च पेषितैः ||५२||

पक्वमभ्यञ्जने श्रेष्ठंसेके क्वाथश्च शीतलः |
रसवन्ति च भोज्यानि यथास्वमवचारयेत् ||५३||

पानकानि सुशीतानि हृद्यानि सुरभीणि च |
त्वचं प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूर्च्छितः |
दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ||५४||

शीतं विधानमत ऊर्ध्वमहं प्रवक्ष्ये दाहप्रशान्तिकरमृद्धिमतां नराणाम् |
तत्रादितो मलयजेन हितः प्रदेहश्चन्द्रांशुहारतुहिनोदकशीतलेन ||५५||

शीताम्बुशीतलतरैश्च शयानमेनं हारैर्मृणालवलयैरबलाः स्पृशेयुः |
भिन्नोत्पलोज्ज्वलहिमे शयने शयीत पत्रेषु वा सजलबिन्दुषु पद्मिनीनाम् ||५६||

आसादयन् पवनमाहृतमङ्गनाभिः कह्लारपद्मदलशैवलसञ्चयेषु |
कान्तैर्वनान्तपवनैः परिमृश्यमानः शक्तश्चरेद्भवनकाननदीर्घिकासु ||५७||

दाहाभिभूतमथवा परिषेचयेत्तु लामज्जकाम्बुरुहचन्दनतोयतोयैः |
विस्रावितां हृतमलां नववारिपूर्णां पद्मोत्पलाकुलजलामधिवासिताम्बुम् ||५८||

वापीं भजेत हरिचन्दनभूषिताङ्गः कान्ताकरस्पृशनकर्कशरोमकूपः |
तत्रैनमम्बुरुहपत्रसमैः स्पृशन्त्यः शीतैः करोरुवदनैः कठिनैः स्तनैश्च ||५९||

तोयावगाहकुशला मधुरस्वभावाः संहर्षयेयुरबलाः सुकलैः प्रलापैः |
धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत सलिलानिलशीतकुक्षौ ||६०||

गन्धोदकैः सकुसुमैरुपसिक्तभूमौ पत्राम्बुचन्दनरसैरुपलिप्तकुड्ये |
जात्युत्पलप्रियककेशरपुण्डरीकपुन्नागनागकरवीरकृतोपचारे ||६१||

तस्मिन् गृहे कमलरेण्वरुणे शयीत यत्नाहृतानिलविकम्पितपुष्पदाम्नि |
हेमन्तविन्ध्यहिमवन्मलयाचलानां शीताम्भसां सकदलीहरितद्रुमाणाम् ||६२||

उद्भिन्ननीलनलिनाम्बुरुहाकराणां चन्द्रोदयस्य च कथाः शृणुयान्मनोज्ञाः |
म्लानं प्रतान्तमनसं मनसोऽनुकूलाः पीनस्तनोरुजघना हरिचन्दनाङ्ग्यः ||६३||

ता एनमार्द्रवसनाः सह संविशेयुः श्लिष्ट्वाऽबलाः शिथिलमेखलहारयष्ट्यः ||६४||

हर्षयेयुर्नरं नार्यः स्वगुणै रहसि स्थिताः |
ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम् ||६५||

तृड्दाहरक्तपित्तेषु कार्योऽयं भेषजक्रमः |
सामान्यतोविशेषं तु शृणु दाहेष्वशेषतः ||६६||

कृत्स्नदेहानुगं रक्तमुद्रिक्तं दहति ह्यति |
सञ्चूष्यते दह्यते च ताम्राभस्ताम्रलोचनः ||६७||

लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते |
तं विलङ्घ्य विधानेन संसृष्टाहारमाचरेत् ||६८||

अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः |
शाखाश्रया यथान्यायं रोहिणीर्व्यधयेत् सिराः ||६९||

पित्तज्वरसमः पित्तात् स चाप्यस्य विधिर्हितः |
तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् ||७०||

सबाह्याभ्यन्तरं देहं दहेद्वै मन्दचेतसः |
संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते ||७१||

तत्रोपशमयेत्तेजस्त्वब्धातुं च विवर्धयेत् |
पाययेत् काममम्भश्च शर्कराढ्यं पयोऽपि वा ||७२||

शीतमिक्षुरसं मन्थं वितरेच्चेरितं विधिम् |
असृजा पूर्णकोष्ठस्य दाहो भवति दुःसहः ||७३||

विधिः सद्योव्रणीयोक्तस्तस्य लक्षणमेव च |
धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृषान्वितः ||७४||

क्षामस्वरः क्रियाहीनो भृशं सीदति पीडितः |
रक्तपित्तविधिस्तस्य हितः स्निग्धोऽनिलापहः ||७५||

क्षतजेनाश्नतश्चान्यः शोचतो वाऽप्यनेकधा |
तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्च्छाप्रलापवान् ||७६||

तमिष्टविषयोपेतं सुहृद्भिरभिसंवृतम् |
क्षीरमांसरसाहारं विधिनोक्तेन साधयेत् ||७७||

मर्माभिघातजोऽप्यस्ति स चासाध्यतमः स्मृतः |
सर्व एव च वर्ज्याः स्युः शीतगात्रेषु देहिषु ||७८||

(एवंविधो भवेद्यस्तु मदिरामयपीडितः ||) |
प्रशान्तोपद्रवे चापि शोधनं प्राप्तमाचरेत् ||७९||

सजीरकाण्यार्द्रकशृङ्गवेरसौवर्चलान्यर्धजलप्लुतानि |
मद्यानि हृद्यान्यथ गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम् ||८०||

जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम् |
पिबन् सुरां नैव लभेत रोगान् मनोनुविघ्नं च मदं न याति ||८१||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मदात्ययप्रतिषेधो नाम (नवमोऽध्यायः, आदितः) सप्तचत्वारिंशत्तमोऽध्यायः ||४७||

Last updated on July 8th, 2021 at 12:09 pm

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English