Skip to content

05. Basti Vyaapad Siddhi – Kalpa Siddhi – AH”

अष्टाङ्गहृदये कल्पसिद्धस्थानम्‌

बस्तिव्यापत्सिद्धिं पञ्चमोऽध्यायः।

अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

अस्निग्धस्विन्नदेहस्य गुरुकोष्ठस्य योजितः।

शीतोऽल्पस्नेहलवणद्रव्यमात्रो घनोऽपि वा॥१॥

बस्तिः सङ्‌क्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्‌।

करोत्ययोगं तेन स्याद्वातमूत्रशकृद्‌ग्रहः॥२॥

नाभिबस्तिरुजा दाहो हृल्लेपः श्वयथुर्गुदे।

कण्डूर्गण्डानि वैवर्ण्यमरतिर्वह्निमार्दवम्‌।.३॥

क्वाथद्वयं प्राग्विहितं मध्यदोषेऽतिसारिणि।

उष्णस्य तस्मादेकस्य तत्र पानं प्रशस्यते॥४॥

फलवर्त्यस्तथा स्वेदाः कालं ज्ञात्वा विरेचनम्‌।

बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्‌॥५॥

सुरादिमूत्रवान्‌ बस्तिः सप्राक्पेष्यस्तमानयेत्‌।

युक्तोऽल्पवीर्यो दोषाढ्ये रूक्षे क्रूराशयेऽथवा॥६॥

बस्तिर्दोषावृतो रुद्धमार्गो रुन्ध्यात्समीरणम्‌।

स विमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम्‌॥७॥

विदाहं गुदकोष्ठस्य मुष्कवङ्‌क्षणवेदनाम्‌।

रुणद्धि हृदयं शूलैरितश्चेतश्च धावति॥८॥

स्वभ्यक्तस्विन्नगात्रस्य तत्र वर्तिं प्रयोजयेत्‌।

बिल्वादिश्च निरूहः स्यात्पीलुसर्षपमूत्रवान्‌॥९॥

सरलामरदारुभ्यां साधितं चानुवासनम्‌।

कुर्वतो वेगसंरोधं पीडितो वाऽतिमात्रया॥१०॥

अस्निग्धलवणोष्णो वा बस्तिरल्पोऽल्पभेषजः।

मृदुर्वा मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकात्‌॥११॥

निरेति मूर्च्छाहृल्लासतृड्‌दाहादीन्‌ प्रवर्तयन्‌।

मूर्च्छाविकारं दृष्ट्वाऽस्य सिञ्चेच्छीताम्बुना मुखम्‌॥१२॥

व्यजेदाक्लमनाशाच्च प्राणायामं च कारयेत्‌।

पृष्ठपार्श्वोदरं मृज्यात्‌ करैरुष्णैरधोमुखम्‌॥१३॥

केशेषूत्क्षिप्य धुन्वीत भीषयेद्व्यालदंष्ट्रिभिः।

शस्त्रोल्काराजपुरुषैर्बस्तिरेति तथा ह्यधः॥१४॥

पाणिवस्त्रैर्गलापीडं कुर्यान्न म्रियते तथा।

प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायनः॥१५॥

अपानः पवनो बस्तिं तमाश्वेवापकर्षति।

कुष्ठक्रमुककल्कं च पाययेताम्लसंयुतम्‌॥१६॥

औष्ण्यात्तैक्ष्ण्यात्सरत्वाच्च बस्तिं सोऽस्यानुलोमयेत्‌।

गोमूत्रेण त्रिवृत्पथ्याकल्कं वाऽधोनुलोमनम्‌॥१७॥

पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः।

यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः॥१८॥

बस्तिर्गोमूत्रसिद्धैर्वा सामृतावंशपल्लवैः।

पूतीकरञ्जत्वक्पत्रशठीदेवाह्वरोहिषैः॥१९॥

सतैलगुडसिन्धूत्थो विरेकौषधकल्कवान्‌।

बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते॥२०॥

शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः।

बस्तिरत्युष्णतीक्ष्णाम्लघनोऽतिस्वेदितस्य वा॥२१॥

अल्पे दोषे मृदौ कोष्ठे प्रयुक्तो वा पुनः पुनः।

अतियोगत्वमापन्नो भवेत्कुक्षिरुजाकरः॥२२॥

विरेचनातियोगेन स तुल्याकृतिसाधनः।

बस्तिः क्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा॥२३॥

गुदं दहन्‌ लिखन्‌ क्षिण्वन्‌ करोत्यस्य परिस्रवम्‌।

स विदग्धं स्रवत्यस्रं वर्णैः पित्तं च भूरिभिः॥२४॥

बहुशश्चातिवेगेन मोहं गच्छति सोऽसकृत्‌।

रक्तपित्तातिसारघ्नी क्रिया तत्र प्रशस्यते॥२५॥

दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत्‌।

तद्धि पित्तशकृद्वातान्‌ हृत्वा दाहादिकान्‌ जयेत्‌॥२६॥

विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुताम्‌।

युञ्ज्याद्वाऽतिविरिक्तस्य क्षीणविट्‌कस्य भोजनम्‌॥२७॥

माषयूषेण कुल्माषान्‌ पानं दध्यथवा सुराम्‌।

सिद्धिर्बस्त्यापदामेवं स्नेहबस्तेस्तु वक्ष्यते॥२८॥

शीतोऽल्पो वाऽधिके वाते पित्तेऽत्युष्णः कफे मृदुः।

अतिभुक्ते गुरुर्वर्चः सञ्चयेऽल्पबलस्तथा॥२९॥

दत्तस्तैरावृतः स्नेहो नायात्यभिभवादपि।

स्तम्भोरुसदनाध्मानज्वरशूलाङ्गमर्दनैः॥३०॥

पार्श्वरुग्वेष्टनैर्विद्याद्वायुना स्नेहमावृतम्‌।

स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः॥३१॥

सौवीरकसुराकोलकुलत्थयवसाधितैः।

निरूहैर्निर्हरेत्सम्यक्‌ समूत्रैः पाञ्चमूलिकैः॥३२॥

ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्‌।

तृड्‌दाहरागसम्मोहवैवर्ण्यतमकज्वरैः॥३३॥

विद्यात्पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्‌।

तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः॥३४॥

सम्मूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्‌।

कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः॥३५॥

फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्‌।

छर्दिमूर्च्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः॥३६॥

आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम्‌।

कटुनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम्‌॥३७॥

मृदुर्विरेकः सर्वं च तत्रामविहितं हितम्‌।

विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्‌ग्रहैः॥३८॥

स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः।

श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः॥३९॥

निर्हरेद्विधाना सम्यगुदावर्तहरेण च।

अभुक्ते शूनपायौ वा पेयामात्राशितस्य वा॥४०॥

गुदे प्रणिहितः स्नेहो वेगाद्धावत्यनावृतः।

ऊर्ध्वं कायं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि॥४१॥

मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्‌।

तत्सिद्धतैलो देयः स्यान्निरूहः सानुवासनः॥४२॥

कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः।

छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान्निबर्हणम्‌॥४३॥

नापक्वं प्रणयेत्स्नेहं गुदं स ह्युपलिम्पति।

ततः कुर्यात्सरुङ्‌मोहकण्डूशोफान्‌, क्रियाऽत्र च॥४४॥

तीक्ष्णो बस्तिस्तथा तैलमर्कपत्ररसे शृतम्‌।

अनुच्छ्वास्य तु बद्धे वा दत्ते निःशेष एव वा॥४५॥

प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत्‌।

तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च॥४६॥

द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा।

स्यात्‌ कटीगुदजङ्घोरुबस्तिस्तम्भार्तिभेदनम्‌॥४७॥

भोजनं तत्र वातघ्नं स्वेदाभ्यङ्गाः सबस्तयः।

पीड्यमानेऽन्तरा मुक्ते गुदे प्रतिहतोऽनिलः॥४८॥

उरः शिरोरुजं सादमूर्वोश्च जनयेद्बली।

बस्तिः स्यात्तत्र बिल्वादिफलश्यामादिमूत्रवान्‌॥४९॥

अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्‌।

तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च॥५०॥

वमनाद्यैर्विशुद्धं च क्षामदेहबलानलम्‌।

यथाऽण्डं तरुणं पूर्णं तैलपात्रं यथा तथा॥५१॥

भिषक्‌ प्रयत्नतो रक्षेत्सर्वस्मादपचारतः।

दद्यान्मधुरहृद्यानि ततोऽम्ललवणौ रसौ।५२॥

स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः।

अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः॥५३॥

व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत्‌।

सर्वसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः॥५४॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने बस्तिव्यापत्सिद्धि-

र्नाम पञ्चमोऽध्यायः॥।५॥

Last updated on August 27th, 2021 at 11:17 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English