Skip to content

08. चिकित्सितप्रविभागविज्ञानीयाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

अष्टमोऽध्यायः ।

अथातश्चिकित्सितप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः (सुश्रुताय) ||२||

षट्सप्ततिर्येऽभिहिता व्याधयो नामलक्षणैः |

चिकित्सितमिदं तेषां समासव्यासतः शृणु ||३||

छेद्यास्तेषु दशैकश्च नव लेख्याः प्रकीर्तिताः |

भेद्याः पञ्च विकाराः स्युर्व्यध्याः पञ्चदशैव तु ||४||

द्वादशाऽशस्त्रकृत्याश्च याप्याः सप्त भवन्ति हि |

रोगा वर्जयितव्याः स्युर्दश पञ्च च जानता |

असाध्यौ वा भवेतां तु याप्यौ चागन्तुसञ्ज्ञितौ ||५||

अर्शोऽन्वितं भवति वर्त्म तु यत्तथाऽर्शः शुष्कं तथाऽर्बुदमथो पिडकाः सिराजाः |

जालं सिराजमपि पञ्चविधं तथाऽर्म छेद्या भवन्ति सह पर्वणिकामयेन ||६||

उत्साङ्गिनी बहलकर्दमवर्त्मनी च श्यावं च यच्च पठितं त्विह बद्धवर्त्म |

क्लिष्टं च पोथकियुतं खलु यच्च वर्त्म कुम्भीकिनी च सह शर्करया च लेख्याः ||७||

श्लेष्मोपनाहलगणौ च बिसं च भेद्या ग्रन्थिश्च यः कृमिकृतोऽञ्जननामिका च |

आदौ सिरा निगदितास्तु ययोः प्रयोगे पाकौ च यौ नयनयोः पवनोऽन्यतश्च ||८||

पूयालसानिलविपर्ययमन्थसञ्ज्ञाः स्यन्दास्तु यान्त्युपशमं हि सिराव्यधेन |

शुष्काक्षिपाककफपित्तविदग्धदृष्टिष्वम्लाख्यशुक्रसहितार्जुनपिष्टकेषु ||९||

अक्लिन्नवर्त्महुतभुग्ध्वजदर्शिशुक्तिप्रक्लिन्नवर्त्मसु तथैव बलाससञ्ज्ञे |

आगन्तुनाऽऽमययुगेन च दूषितायां दृष्टौ न शस्त्रपतनं प्रवदन्ति तज्ज्ञाः ||१०||

सम्पश्यतः षडपि येऽभिहितास्तु काचास्ते पक्ष्मकोपसहितास्तु भवन्ति याप्याः |

चत्वार एव पवनप्रभवास्त्वसाध्या द्वौ पित्तजौ कफनिमित्तज एक एव |

अष्टार्धका रुधिरजाश्च गदास्त्रिदोषास्तावन्त एव गदितावपि बाह्यजौ द्वौ ||११||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे

चिकित्सितप्रविभागविज्ञानीयो नामाष्टमोऽध्यायः ||८||

Last updated on July 8th, 2021 at 11:33 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English