Skip to content

07. अर्शश्चिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानं

सप्तमोऽध्यायः ।

अथातोऽश्मरीचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः |

औषधैस्तरुणः साध्यः प्रवृद्धश्छेदमर्हति ||३||

तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते |

तेनास्यापचयं यान्ति व्याधेर्मूलान्यशेषतः ||४||

पाषाणभेदो वसुको वशिराश्मन्तकौ तथा |

शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका ||५||

कपोतवङ्काऽऽर्तगलः कच्चकोशीरकुब्जकाः |

वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम् ||६||

यवाः कुलत्थाः कोलानि कतकस्य फलानि च |

ऊषकादिप्रतीवापमेषां क्वाथैर्घृतं कृतम् ||७||

भिनत्ति वातसम्भूतामश्मरीं क्षिप्रमेव तु |

क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च ||८||

भोजनानि च कुर्वीत वर्गेऽस्मिन् वातनाशने |

कुशः काशः सरो गुन्द्रा इत्कटो मोरटोऽश्मभित् ||९||

वरी विदारी वाराही शालिमूलत्रिकण्टकम् |

भल्लूकः पाटला पाठा पत्तूरोऽथ कुरुण्टिका ||१०||

पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम् |

घृतं शिलाजमधुकबीजैरिन्दीवरस्य च ||११||

त्रपुसैर्वारुकादीनां बीजैश्चावापितं शुभम् |

भिनत्ति पित्तसम्भूतामश्मरीं क्षिप्रमेव तु ||१२||

क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च |

भोजनानि च कुर्वीत वर्गेऽस्मिन् पित्तनाशने ||१३||

गणो वरुणकादिस्तु गुग्गुल्वेलाहरेणवः |

कुष्ठभद्रादिमरिचचित्रकैः ससुराह्वयैः ||१४||

एतैः सिद्धमजासर्पिरूषकादिगणेन च |

भिनत्ति कफसम्भूतामश्मरीं क्षिप्रमेव तु ||१५||

क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च |

भोजनानि च कुर्वीत वर्गेऽस्मिन् कफनाशने ||१६||

पिचुकाङ्कोलकतकशाकेन्दीवरजैः फलैः |

चूर्णितैः सगुडं तोयं शर्कराशमनं पिबेत् ||१७||

क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालमूलिका |

अजमोदा कदम्बस्य मूलं नागरमेव च ||१८||

पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा |

त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम् ||१९||

अविक्षीरेण सप्ताहमश्मरीभेदनं पिबेत् |

द्रव्याणां तु घृतोक्तानां क्षारोऽविमूत्रगालितः ||२०||

ग्राम्यसत्त्वशकृत्क्षारैः संयुक्तः साधितः शनैः |

तत्रोषकादिरावापः कार्यस्त्रिकटुकान्वितः ||२१||

एष क्षारोऽश्मरीं गुल्मं शर्करां च भिनत्त्यपि |

तिलापामार्गकदलीपलाशयवकल्कजः ||२२||

क्षारः पेयोऽविमूत्रेण शर्करानाशनः परः |

पाटलाकरवीराणां क्षारमेवं समाचरेत् ||२३||

श्वदंष्ट्रायष्टिकाब्राह्मीकल्कं वाऽक्षसमं पिबेत् |

सहैडकाख्यौ पेयौ वा शोभाञ्जनकमार्कवौ ||२४||

कपोतवङ्कामूलं वा पिबेदम्लैः सुरादिभिः |

तत्सिद्धं वा पिबेत् क्षीरं वेदनाभिरुपद्रुतः ||२५||

हरीतक्यादिसिद्धं वा वर्षाभूसिद्धमेव वा |

सर्वथैवोपयोज्यः स्याद्गणो वीरतरादिकः ||२६||

घृतैः क्षारैः कषायैश्च क्षीरैः सोत्तरबस्तिभिः |

यदि नोपशमं गच्छेच्छेदस्तत्रोत्तरो विधिः ||२७||

कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाध्रुवा |

उपक्रमो जघन्योऽयमतः सम्परिकीर्तितः ||२८||

अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् |

तस्मादापृच्छ्य कर्तव्यमीश्वरं साधुकारिणा ||२९||

अथ रोगान्वितमुपस्निग्धमपकृष्टदोषमीषत्कर्शितमभ्यक्तस्विन्नशरीरं भुक्तवन्तं कृतबलिमङ्गलस्वस्तिवाचनमग्रोपहरणीयोक्तेन विधानेनोपकल्पितसम्भारमाश्वास्य, ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपविष्टान्यपुरुषस्योत्सङ्गे निषण्णपूर्वकायमुत्तानमुन्नतकटीकं वस्त्राधारकोपविष्टं सङ्कुचितजानुकूर्परमितरेण सहावबद्धं सूत्रेण शाटकैर्वा, ततः स्वभ्यक्तनाभिप्रदेशस्य वामपार्श्वं विमृद्य मुष्टिनाऽवपीडयेदधोनाभेर्यावदश्मर्यधः प्रपन्नेति, ततः स्नेहाभ्यक्ते क्लृप्तनखे वामहस्तप्रदेशिनीमध्यमे अङ्गुल्यौ पायौ प्रणिधायानुसेवनीमासाद्य प्रयत्नबलाभ्यां पायुमेढ्रान्तरमानीय, निर्व्यलीकमनायतमविषमं च बस्तिं सन्निवेश्य, भृशमुत्पीडयेदङ्गुलिभ्यां यथा ग्रन्थिरिवोन्नतं शल्यं भवति ||३०||

स चेद्गृहीतशल्ये तु विवृताक्षो विचेतनः |

हतवल्लम्बशीर्षश्च निर्विकारो मृतोपमः ||३१||

न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः |

विना त्वेतेषु रूपेषु निर्हर्तुं प्रयतेत वै ||३२||

ततः सव्ये पार्श्वे सेवनीं यवमात्रेण मुक्त्वाऽवचारयेच्छस्त्रमश्मरीप्रमाणं, दक्षिणतो वा क्रियासौकर्यहेतोरित्येके, यथा सा न भिद्यते चूर्ण्यते वा तथा प्रयतेत, चूर्णमल्पमप्यवस्थितं हि पुनः परिवृद्धिमेति, तस्मात् समस्तामग्रवक्रेणाददीत; स्त्रीणां तु बस्तिपार्श्वगतो गर्भाशयः सन्निकृष्टः, तस्मात्तासामुत्सङ्गवच्छस्त्रं पातयेत्, अतोऽन्यथा खल्वासां मूत्रस्रावी व्रणो भवेत्, पुरुषस्य वा मूत्रप्रसेकक्षणनान्मूत्रक्षरणम्; अश्मरीव्रणादृते भिन्नबस्तिरेकधाऽपि न भवति, द्विधा भिन्नबस्तिराश्मरिको न सिध्यति, अश्मरीव्रणनिमित्तमेकधाभिन्नबस्तिर्जीवति,क्रियाभ्यासाच्छास्त्रविहितच्छेदान्निः – स्यन्दपरिवृद्धत्वाच्च शल्यस्येति |

उद्धृतशल्यं तूष्णोदकद्रोण्यामवगाह्य स्वेदयेत्, तथा हि बस्तिरसृजा न पूर्यते; पूर्णे वा क्षीरवृक्षकषायं पुष्पनेत्रेण विदध्यात् ||३३||

भवति चात्र-

क्षीरवृक्षकषायस्तु पुष्पनेत्रेण योजितः |

निर्हरेदश्मरीं तूर्णं रक्तं बस्तिगतं च यत् ||३४||

मूत्रमार्गविशोधनार्थं चास्मै गुडसौहित्यं वितरेत्; उद्धृत्य चैनं मधुघृताभ्यक्तव्रणं मूत्रविशोधनद्रव्यसिद्धामुष्णां सघृतां यवागूं पाययेतोभयकालं त्रिरात्रं; त्रिरात्रादूर्ध्वं गुडप्रगाढेन पयसा मृद्वोदनमल्पं भोजयेद्दशरात्रं (मूत्रासृग्विशुद्ध्यर्थं व्रणक्लेदनार्थं च), दशरात्रादूर्ध्वं फलाम्लैर्जाङ्गलरसैरुपाचरेत्; ततो दशरात्रं चैनमप्रमत्तः स्वेदयेत् स्नेहेन द्रवस्वेदेन वा; क्षीरवृक्षकषायेण चास्य व्रणं प्रक्षालयेत्; रोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्कैर्व्रणं प्रतिग्राहयेत्; एतेष्वेव हरिद्रायुतेषु तैलं घृतं वा विपक्वं व्रणाभ्यञ्जनमिति; स्त्यानशोणितं चोत्तरबस्तिभिरुपाचरेत्; सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे व्रणं यथोक्तेन विधिना दहेदग्निना, स्वमार्गप्रतिपन्ने चोत्तरबस्त्यास्थापनानुवासनैरुपाचरेन्मधुरकषायैरिति; यदृच्छया वा मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसाऽपहरेत्, एवं चाशक्ये विदार्य नाडीं शस्त्रेण बडिशेनोद्धरेत् |

रूढव्रणश्चाङ्गनाश्वनगनागरथद्रुमान् नारोहेत वर्षं, नाप्सु प्लवेत, भुञ्जीत वा गुरु ||३५||

मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदबस्तीनष्टौ परिहरेत् |

तत्र मूत्रवहच्छेदान्मरणं मूत्रपूर्णबस्तेः, शुक्रवहच्छेदान्मरणं क्लैब्यं वा, मुष्कस्रोत-उपघाताद् ध्वजभङ्गः, मूत्रप्रसेकक्षणनान्मूत्रप्रक्षरणं, सेवनीयोनिच्छेदाद्रुजः प्रादुर्भावः, बस्तिगुदविद्धलक्षणं प्रागुक्तमिति ||३६||

भवति चात्र-

मर्माण्यष्टावसम्बुध्य स्रोतोजानि शरीरिणाम् |

व्यापादयेद्बहून्मर्त्यान् शस्त्रकर्मापटुर्भिषक् ||३७||

सेवनी शुक्रहरणी स्रोतसी फलयोर्गुदम् |

मूत्रसेकं मूत्रवहं योनिर्बस्तिस्तथाऽष्टमः ||३८||

इति सुश्रुतसंहितायां चिकित्सास्थानेऽश्मरीचिकित्सितं नाम सप्तमोऽध्यायः ||७||

Last updated on July 8th, 2021 at 09:01 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English