Skip to content

21. Mukharoga Vidnyaaneeya – Uttara – AH”

अष्टाङ्गहृदये (उत्तरस्थानम्‌)

मुखरोगविज्ञानीयं एकविंशोऽध्यायः।

अथातो मुखरोगविज्ञानीयं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

मात्स्यमाहिषवाराहपिशितामकमूलकम्‌।

माषसूपदधिक्षीरसुक्तेक्षुरसफाणितम्‌॥१॥

अवाक्शय्यां च भजतो द्विषतो दन्तधावनम्‌।

धूमच्छर्दनगण्डूषानुचितं च सिराव्यधम्‌॥२॥

क्रुद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्यन्तर्मुखं गदान्‌।

तत्र खण्डौष्ठ इत्युक्तो वातेनौष्ठो द्विधा कृतः॥३॥

ओष्ठकोपे तु पवनात्‌ स्तब्धावोष्ठौ महारुजौ।

दाल्येते परिपाट्येते परुषासितकर्कशौ॥४॥

पित्तात्तीक्ष्णासहौ पीतौ सर्षपाकृतिभिश्चितौ।

पिटिकाभिर्बहुक्लेदावाशुपाकौ कफात्पुनः॥५॥

शीतासहौ गुरू शूनौ सवर्णपिटिकाचितौ।

सन्निपातादनेकाभौ दुर्गन्धास्रावपिच्छिलौ॥६॥

अकस्मान्म्लानसंशूनरुजौ विषमपाकिनौ।

रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ॥७॥

खर्जूरसदृशं चात्र क्षीणे रक्तेऽर्बुदं भवेत्‌।

मांसपिण्डोपमौ मांसात्स्यातां मूर्च्छत्कृमी क्रमात्‌॥८॥

तैलाभश्वयथुक्लेदौ सकण्ड्‌वौ मेदसा मृदू।

क्षतजाववदीर्येते पाट्येते चासकृत्पुनः॥९॥

ग्रथितौ च पुनः स्यातां कण्डूलौ दशनच्छदौ।

जलबुद्बुदवद्वातकफादोष्ठे जलार्बुदम्‌॥१०॥

गण्डालजी स्थिरः शोफो गण्डे दाहज्वरान्वितः।

वातादुष्णसहा दन्ताः शीतस्पर्शेऽधिकव्यथाः॥११॥

दाल्यन्त इव शूलेन शीताख्यो दालनश्च सः।

दन्तहर्षे प्रवाताम्लशीतभक्षाक्षमा द्विजाः॥१२॥

भवन्त्यम्लाशनेनेव सरुजाश्चलिता इव।

दन्तभेदे द्विजास्तोदभेदरुक्स्फुटनान्विताः॥१३॥

चालश्चलद्भिर्दशनैर्भक्षणादधिकव्यथैः।

करालस्तु करालानां दशनानां समुद्गमः॥१४॥

दन्तोऽधिकोऽधिदन्ताख्यः स चोक्तः खलु वर्धनः।

जायमानेऽतिरुग्‌ दन्ते, जाते तत्र तु शाम्यति॥१५॥

अधावनान्मलो दन्ते कफो वा वातशोषितः।

पूतिगन्धिः स्थिरीभूतः शर्करा साऽप्युपेक्षिता॥१६॥

शातयत्यणुशो दन्तात्कपालानि कपालिका।

श्यावः श्यावत्वमायातो रक्तपित्तानिलैर्द्विजः॥१७॥

समूलं दन्तमाश्रित्य दोषैरुल्बणमारुतैः।

शोषिते मज्ज्ञि सुषिरे दन्तेऽन्नमलपूरिते॥१८॥

पूतित्वात्कृमयः सूक्ष्मा जायन्ते, जायते ततः।

अहेतुतीव्रार्तिशमः ससंरम्भोऽसितश्चलः॥१९॥

प्रलूनः पूयरक्तस्रुत्‌ स चोक्तः कृमिदन्तकः।

श्लेष्मरक्तेन पूतीनि वहन्त्यस्रमहेतुकम्‌॥२०॥

शीर्यन्ते दन्तमांसानि मृदुक्लिन्नासितानि च।

शीतादोऽसौ उपकुशः पाकः पित्तासृगुद्भवः॥२१॥

दन्तमांसानि दह्यन्ते रक्तान्युत्सेधवन्त्यतः।

कण्डूमन्ति स्रवन्त्यस्रमाध्मायन्तेऽसृजि स्थिते॥२२॥

चला मन्दरुजो दन्ता पूति वक्त्रं च जायते।

दन्तयोस्त्रिषु वाशोफो बदरास्थिनिभो घनः॥२३॥

कफास्रात्तीव्ररुक्‌ शीघ्रं पच्यते दन्तपुप्पुटः।

दन्तमांसे मलैः सास्रैर्बाह्यान्तः श्वयथुर्गुरुः॥२४॥

सरुग्दाहः स्रवेद्भिन्नः पूयास्रं दन्तविद्रधिः।

श्वयथुर्दन्तमूलेषु रुजावान्‌ पित्तरक्तजः॥२५॥

लालास्रावी स सुषिरो दन्तमांसप्रशातनः।

स सन्निपाताज्ज्वरवान्‌ सपूयरुधिरस्रुतिः॥२६॥

महासुषिर इत्युक्तो विशीर्णद्विजबन्धनः।

दन्तान्ते कीलवच्छोफो हनुकर्णरुजाकरः॥२७॥

प्रतिहन्त्यभ्यवहृतिं श्लेष्मणा सोऽधिमांसकः॥

घृष्टेषु दन्तमांसेषु संरम्भो जायते महान्‌॥२८॥

यस्मिंश्चलन्ति दन्ताश्च स विदर्भोऽभिघातजः।

दन्तमांसाश्रितान्‌ रोगान्‌ यः साध्यानप्युपेक्षते॥२९॥

अन्तस्तस्यास्रवन्‌ दोषः सूक्ष्मां सञ्जनयेद्गतिम्‌।

पूयं मुहुः सा स्रवति त्वङ्‌मांसास्थिप्रभेदिनी॥३०॥

ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर्यथोदितैः।

शाकपत्रखरा सुप्ता स्फुटिता वातदूषिता॥३१॥

जिह्वा पित्तात्‌ सदाहोषा रक्तैर्मांसाङ्कुरैश्चिता।

शाल्मलीकण्टकाभैस्तु कफेन बहला गुरुः॥३२॥

कफपित्तादधः शोफो जिह्वास्तम्भकृदुन्नतः।

मत्स्यगन्धिर्भवेत्पक्वः सोऽलसो मांसशातनः॥३३॥

प्रबन्धनेऽधो जिह्वायाः शोफो जिह्वाग्रसन्निभः।

साङ्कुरः कफपित्तास्रैर्लालोषास्तम्भवान्‌ खरः॥३४॥

 अधिजिह्वः सरुक्कण्डूर्वाक्याहारविघातकृत्‌।

तादृगेवोपजिह्वस्तु जिह्वाया उपरि स्थितः॥३५॥

तालुमांसेऽनिलाद्दुष्टे पिटिकाः सरुजः खराः।

बह्व्यो घनाः स्रावयुतास्तास्तालुपिटिकाः स्मृताः॥३६॥

तालुमूले कफात्सास्रात्‌ मत्स्यबस्तिनिभो मृदुः।

प्रलम्बः पिच्छिलः शोफो नासयाऽऽहारमीरयन्‌॥३७॥

कण्ठोपरोधतृट्‌कासवमिकृत्‌ गलशुण्डिका।

तालुमध्ये निरुङ्‌मांसं संहतं तालुसंहतिः॥३८॥

पद्माकृतिस्तालुमध्ये रक्तच्छ्वयथुरर्बुदम्‌।

कच्छपः कच्छपाकारश्चिरवृद्धिः कफादरुक्‌॥३९॥

कोलाभः श्लेष्ममेदोभ्यां पुप्पुटो नीरुजः स्थिरः।

पित्तेन पाकः पाकाख्यः पूयस्रावी महारुजः॥४०॥

वातपित्तज्वरायासैस्तालुशोषस्तदाह्वयः।

जिह्वाप्रबन्धजाः कण्ठे दारुणा मार्गरोधिनः॥४१॥

मांसाङ्कुराः शीघ्रचया रोहिणी शीघ्रकारिणी।

कण्ठास्यशोषकृद्वातात्‌ सा हनुश्रोत्ररुक्करी॥४२॥

पित्ताज्ज्वरोषातृण्मोहकण्ठधूमायनान्विता।

क्षिप्रजा क्षिप्रपाकाऽतिरागिणी स्पर्शनासहा॥४३॥

कफेन पिच्छिला पाण्डुः असृजा स्फोटकाचिता।

तप्ताङ्गारनिभा कर्णरुक्करी पित्तजाकृतिः॥४४॥

गम्भीरपाका निचयात्‌ सर्वलिङ्गसमन्विता।

दौषैः कफोल्बणैः शोफः कोलवद्‌ ग्रथितोन्नतः॥४५॥

शूककण्टकवत्कण्ठे शालूको मार्गरोधनः।

वृन्दो वृत्तोन्नतो दाहज्वरकृद्‌ गलपार्श्वगः॥४६॥

हनुसन्ध्याश्रितः कण्ठे कार्पासीफलसन्निभः।

पिच्छिलो मन्दरुक्‌ शोफः कठिनस्तुण्डिकेरिका॥४७॥

बाह्यान्तः श्वयथुर्घोरो गलमार्गार्गलोपमः।

गलौघो मूर्धगुरुतातन्द्रालालाज्वरप्रदः॥४८॥

वलयं नातिरुक्‌ शोफस्तद्वदेवायतोन्नतः।

मांसकीलो गले दोषैरेकोऽनेकोऽथवाऽल्परुक्‌॥४९॥

कृच्छ्रोच्छ्वासाभ्यवहृतिः पृथुमूलो गिलायुकः।

भूरिमांसाङ्कुरवृता तीव्रतृड्‌ज्वरमूर्द्धरुक्‌॥५०॥

शतघ्नी निचिता वर्तिः शतघ्नीवातिरुक्करी।

व्याप्तसर्वगलः शीघ्रजन्मपाको महारुजः॥५१॥

पूतिपूयनिभस्रावी श्वयथुर्गलविद्रधिः।

जिह्वावसाने कण्ठादावपाकं श्वयथुं मलाः॥५२॥

जनयन्ति स्थिरं रक्तं नीरुजं तद्गलार्बुदम्‌।

पवनश्लेष्ममेदोभिर्गलगण्डो भवेद्बहिः॥

वर्धमानः स कालेन मुष्कवल्लम्बतेऽतिरुक्‌॥५३॥

कृष्णोऽरुणो वा तोदाढ्यः स वातात्कृष्णराजिमान्‌।

वृद्धस्तालुगले शोषं कुर्याच्च विरसास्यताम्‌॥५४॥

स्थिरः सवर्णः कण्डूमान्‌ शीतस्पर्शो गुरुः कफात्‌।

वृद्धस्तालुगले लेपं कुर्याच्च मधुरास्यताम्‌॥५५॥

मेदसः श्लेष्मवद्धानिवृद्ध्योः सोऽनुविधीयते।

देहं वृद्धश्च कुरुते गले शब्दं स्वरेऽल्पताम्‌॥५६॥

श्लेष्मरुद्धाऽनिलगतिः शुष्ककण्ठो हतस्वरः।

ताम्यन्‌ प्रसक्तं श्वसिति येन स स्वरहाऽनिलात्‌॥५७॥

करोति वदनस्यान्तर्व्रणान्‌ सर्वसरोऽनिलः।

सञ्चारिणोऽरुणान्‌ रूक्षानोष्ठौ ताम्रौ चलत्वचौ॥५८॥

जिह्वा शीतासहा गुर्वी स्फुटिता कण्टकाचिता।

विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः॥५९॥

अधः प्रतिहतो वायुरर्शोगुल्मकफादिभिः।

यात्यूर्ध्वं वक्त्रदौर्गन्ध्यं कुर्वन्नूर्ध्वगुदस्तु सः॥६०॥

मुखस्य पित्तजे पाके दाहोषे तिक्तवक्त्रता।

क्षारोक्षितक्षतसमा व्रणाः तद्वच्च रक्तजे॥६१॥

कफजे मधुरास्यत्वं कण्डूमत्पिच्छिला व्रणाः।

अन्तः कपोलमाश्रित्य श्यावपाण्डु कफोऽर्बुदम्‌॥६२॥

कुर्यात्तद्‌ घट्टितं छिन्नं मृदितं च विवर्धते।

मुखपाको भवेत्सास्रैः सर्वैः सर्वाकृतिर्मलैः॥६३॥

पूत्यास्यता च तैरेव दन्तकाष्ठादिविद्विषः।

ओष्ठे गण्डे द्विजे मूले जिह्वायां तालुके गले॥६४॥

वक्त्रे सर्वत्र चेत्युक्ताः पञ्चसप्ततिरामयाः।

एकादशैको दश च त्रयोदश तथा च षट्‌॥६५॥

अष्टावष्टादशाष्टौ च क्रमात्‌ तेष्वनुपक्रमाः।

करालो मांसरक्तौष्ठावर्बुदानि जलाद्विना॥६६॥

कच्छपस्तालुपिटिका गलौघः सुषिरो महान्‌।

स्वरघ्नोर्ध्वगुदश्यावशतघ्नीवलयालसाः॥६७॥

नाड्योष्ठकोपौ निचयात्‌, रक्तात्सर्वैश्च रोहिणी।

दशने स्फुटिते दन्तभेदः, पक्वोपजिह्विका॥६८॥

गलगण्डः स्वरभ्रंशी कृच्छ्रोच्छ्वासोऽतिवत्सरः।

याप्यस्तु हर्षो भेदश्च शेषान्‌ शस्त्रौषधैर्जयेत्‌॥६९॥

 इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग-

हृदयसंहितायां षष्ठे उत्तरस्थाने मुखरोगविज्ञानीयो

नाम एकविंशोऽध्यायः॥२१॥

Last updated on September 7th, 2021 at 05:36 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English