Skip to content

46. Anna Paana Vidhi – Sootra – S

सुश्रुतसंहिता।

सूत्रस्थानम्‌।

षट्चत्वारिंशत्तमोऽध्यायः।

अथातोऽन्नपानविधिमध्यायंव्याख्यास्यामः ||१||

यथोवाचभगवान्धन्वन्तरिः ||२||

धन्वन्तरिमभिवाद्यसुश्रुतउवाच- प्रागभिहितः ‘प्राणिनांपुनर्मूलमाहारोबलवर्णौजसांच, सषट्सुरसेष्वायत्तः, रसाःपुनर्द्रव्याश्रयिणः,’ द्रव्यरसगुणवीर्यविपाकनिमित्तेचक्षयवृद्धीदोषाणांसाम्यंच, ब्रह्मादेरपिचलोकस्याहारःस्थित्युत्पत्तिविनाशहेतुः, आहारादेवाभिवृद्धिर्बलमारोग्यंवर्णेन्द्रियप्रसादश्च, तथाह्याहारवैषम्यादस्वास्थ्यं; तस्याशितपीतलीढखादितस्यनानाद्रव्यात्मकस्यानेकविधविकल्पस्यानेकविधप्रभावस्यपृथक्पृथग्द्रव्यरसगुणवीर्यविपाककर्माणीच्छामिज्ञातुं, नह्यनवबुद्धस्वभावाभिषजःस्वस्थानुवृत्तिंरोगनिग्रहणंचकर्तुंसमर्थाः; आहारायत्ताश्चसर्वप्राणिनोयस्मात्तस्मादन्नपानविधिमुपदिशतुमेभगवानित्युक्तःप्रोवाचभगवान्धन्वन्तरिः- अथखलुवत्ससुश्रुत! यथाप्रश्नमुच्यमानमुपधारयस्व- ||३||

तत्र, लोहितशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपुष्पाण्डकपुण्डरीकमहाशालिशीतभीरुकरोध्रपुष्पक- दीर्घशूककाञ्चनकमहिषमहाशूकहायनकदूषकमहादूषकप्रभृतयःशालयः ||४||

मधुरावीर्यतःशीतालघुपाकाबलावहाः |

पित्तघ्नाल्पानिलकफाःस्निग्धाबद्धाल्पवर्चसः ||५||

तेषांलोहितकःश्रेष्ठोदोषघ्नःशुक्रमूत्रलः |

चक्षुष्योवर्णबलकृत्स्वर्योहृद्यस्तृषापहः ||६||

व्रण्योज्वरहरश्चैवसर्वदोषविषापहः |

तस्मादल्पान्तरगुणाःक्रमशःशालयोऽवराः||७||

षष्टिककाङ्गुकमुकुन्दकपीतकप्रमोदककाकलकासनपुष्पकमहाषष्टिकचूर्णककुरवककेदारप्रभृतयःषष्टिकाः ||८||

रसेपाकेचमधुराःशमनावातपित्तयोः |

शालीनांचगुणैस्तुल्याबृंहणाःकफशुक्रलाः ||९||

षष्टिकःप्रवरस्तेषांकषायानुरसोलघुः |

मृदुःस्निग्धस्त्रिदोषघ्नःस्थैर्यकृद्बलवर्धनः ||१०||

विपाकेमधुरोग्राहीतुल्योलोहितशालिभिः |

शेषास्त्वल्पान्तरास्तस्मात्षष्टिकाःक्रमशोगुणैः ||११||

कृष्णव्रीहिशालामुखजतुमुखनन्दीमुखलावाक्षकत्वरितककुक्कुटाण्डकपारावतकपाटलप्रभृतयोव्रीहयः ||१२||

कषायमधुराःपाकेऽमधुरावीर्यतोऽहिमाः |

अल्पाभिष्यन्दिनस्तुल्याःषष्टिकैर्बद्धवर्चसः ||१३||

कृष्णव्रीहिर्वरस्तेषांकषायानुरसोलघुः |

तस्मादल्पान्तरगुणाःक्रमशोव्रीहयोऽपरे ||१४||

दग्धायामवनौजाताःशालयोलघुपाकिनः |

कषायाबद्धविण्मूत्रारूक्षाःश्लेष्मापकर्षणाः ||१५||

स्थलजाःकफपित्तघ्नाःकषायाःकटुकान्वयाः |

किञ्चित्सतिक्तमधुराःपवनानलवर्धनाः ||१६||

कैदारामधुरावृष्याबल्याःपित्तनिबर्हणाः |

ईषत्कषायाल्पमलागुरवःकफशुक्रलाः ||१७||

कैदाराइत्यादि| कैदाराअनूपजाइत्यर्थः|

वृष्याःशुक्रवैरेचनिकाः| शुक्रलाःशुक्रवृद्धिकराः||१७||

रोप्यातिरोप्यालघवःशीघ्रपाकागुणोत्तराः |

अदाहिनोदोषहराबल्यामूत्रविवर्धनाः ||१८||

शालयश्छिन्नरूढायेरूक्षास्तेबद्धवर्चसः |

तिक्ताःकषायाःपित्तघ्नालघुपाकाःकफापहाः ||१९||

विस्तरेणायमुद्दिष्टःशालिवर्गोहिताहितः |

इतिशालिवर्गः |

अथकुधान्यवर्गः |

तद्वत्कुधान्यमुद्गादिमाषादीनांचवक्ष्यते ||२०||

कोरदूषकश्यामाकनीवारशान्तनुवरकोद्दालकप्रियङ्गुमधूलिकानन्दीमुखी- कुरुविन्दगवेधुकसरबरुकतोद(य)पर्णीमुकुन्दकवेणुयवप्रभृतयःकुधान्यविशेषाः ||२१||

उष्णाःकषायमधुरारूक्षाःकटुविपाकिनः |

श्लेष्मघ्नाबद्धनिस्यन्दावातपित्तप्रकोपणाः ||२२||

कषायमधुरस्तेषांशीतःपित्तापहःस्मृतः |

कोद्रवश्चसनीवारःश्यामाकश्चसशान्तनुः ||२३||

कृष्णारक्ताश्चपीताश्चश्वेताश्चैवप्रियङ्गवः |

यथोत्तरंप्रधानाःस्यूरूक्षाःकफहराःस्मृताः ||२४||

मधूलीमधुराशीतास्निग्धानन्दीमुखीतथा |

विशोषीतत्रभूयिष्ठंवरुकःसमुकुन्दकः ||२५||

रूक्षावेणुयवाज्ञेयावीर्योष्णाकटुपाकिनः |

बद्धमूत्राःकफहराःकषायावातकोपनाः ||२६||

मुद्गवनमुद्गकलायमकुष्ठमसूरमङ्गल्यचणकसतीनत्रिपुटकहरेण्वाढकीप्रभृतयोवैदलाः ||२७||

कषायमधुराःशीताःकटुपाकामरुत्कराः |

बद्धमूत्रपुरीषाश्चपित्तश्लेष्महरास्तथा ||२८||

नात्यर्थंवातलास्तेषुमुद्गादृष्टिप्रसादनाः |

प्रधानाहरितास्तत्रवन्यामुद्गसमाःस्मृताः ||२९||

विपाकेमधुराःप्रोक्तामसूराबद्धवर्चसः |

मकुष्ठकाःकृमिकराःकलायाःप्रचुरानिलाः ||३०||

आढकीकफपित्तघ्नीनातिवातप्रकोपणी |

वातलाःशीतमधुराःसकषायाविरूक्षणाः ||३१||

कफशोणितपित्तघ्नाश्चणकाःपुंस्त्वनाशनाः |

तएवघृतसंयुक्तास्त्रिदोषशमनाःपरम् ||३२||

हरेणवःसतीनाश्चविज्ञेयाबद्धवर्चसः |

ऋतेमुद्गमसूराभ्यामन्येत्वाध्मानकारकाः ||३३||

माषोगुरुर्भिन्नपुरीषमूत्रःस्निग्धोष्णवृष्योमधुरोऽनिलघ्नः |

सन्तर्पणःस्तन्यकरोविशेषाद्बलप्रदःशुक्रकफावहश्च ||३४||

कषायभावान्नपुरीषभेदीनमूत्रलोनैवकफस्यकर्ता |

स्वादुर्विपाकेमधुरोऽलसान्द्रःसन्तर्पणःस्तन्यरुचिप्रदश्च ||३५||

माषैःसमानंफलमात्मगुप्तमुक्तंचकाकाण्डफलंतथैव |

आरण्यमाषागुणतःप्रदिष्टारूक्षाःकषायाअविदाहिनश्च ||३६||

उष्णःकुलत्थोरसतःकषायःकटुर्विपाकेकफमारुतघ्नः |

शुक्राश्मरीगुल्मनिषूदनश्चसाङ्ग्राहिकःपीनसकासहन्ता ||३७||

आनाहमेदोगुदकीलहिक्काश्वासापहःशोणितपित्तकृच्च |

कफस्यहन्तानयनामयघ्नोविशेषतोवन्यकुलत्थउक्तः ||३८||

ईषत्कषायोमधुरःसतिक्तःसाङ्ग्राहिकःपित्तकरस्तथोष्णः |

तिलोविपाकेमधुरोबलिष्ठःस्निग्धोव्रणेलेपनएवपथ्यः ||३९||

दन्त्योऽग्निमेधाजननोऽल्पमूत्रस्त्वच्योऽथकेश्योऽनिलहागुरुश्च |

तिलेषुसर्वेष्वसितःप्रधानोमध्यःसितोहीनतरास्तथाऽन्ये ||४०||

यवःकषायोमधुरोहिमश्चकटुर्विपाकेकफपित्तहारी |

व्रणेषुपथ्यस्तिलवच्चनित्यंप्रबद्धमूत्रोबहुवातवर्चाः ||४१||

स्थैर्याग्निमेधास्वरवर्णकृच्चसपिच्छिलःस्थूलविलेखनश्च |

मेदोमरुत्तृड्‌हरणोऽतिरूक्षःप्रसादनःशोणितपित्तयोश्च ||४२||

एभिर्गुणैर्हीनतरैस्तुकिञ्चिद्विद्याद्यवेभ्योऽतियवानशेषैः |

गोधूमउक्तोमधुरोगुरुश्चबल्यःस्थिरःशुक्ररुचिप्रदश्च ||४३||

स्निग्धोऽतिशीतोऽनिलपित्तहन्तासन्धानकृच्छ्लेष्मकरःसरश्च |

रूक्षःकषायोविषशोषशुक्रबलासदृष्टिक्षयकृद्विदाही ||४४||

कटुर्विपाकेमधुरस्तुशिम्बःप्रभिन्नविण्मारुतपित्तलश्च |

सितासिताःपीतकरक्तवर्णाभवन्तियेऽनेकविधास्तुशिम्बाः ||४५||

यथादितस्तेगुणतःप्रधानाज्ञेयाःकटूष्णारसपाकयोश्च |

सहाद्वयंमूलकजाश्चशिम्बाःकुशिम्बिवल्लीप्रभवास्तुशिम्बाः ||४६||

ज्ञेयाविपाकेमधुरारसेचबलप्रदाःपित्तनिबर्हणाश्च |४७|

विदाहवन्तश्चभृशंविरूक्षाविष्टभ्यजीर्यन्त्यनिलप्रदाश्च ||४७||

रुचिप्रदाश्चैवसुदुर्जराश्चसर्वेस्मृतावैदलिकास्तुशिम्बाः |

कटुर्विपाकेकटुकःकफघ्नोविदाहिभावादहितःकुसुम्भः ||४८||

उष्णाऽतसीस्वादुरसाऽनिलघ्नीपित्तोल्बणास्यात्कटुकाविपाके |

पाकेरसेचापिकटुःप्रदिष्टःसिद्धार्थकःशोणितपित्तकोपी||४९||

तीक्ष्णोष्णरूक्षःकफमारुतघ्नस्तथागुणश्चासितसर्षपोऽपि |

अनार्तवंव्याधिहतमपर्यागतमेवच |

अभूमिजंनवंचापिनधान्यंगुणवत्स्मृतम् ||५०||

नवंधान्यमभिष्यन्दिलघुसंवत्सरोषितम् |

विदाहिगुरुविष्टम्भिविरूढंदृष्टिदूषणम्||५१||

शाल्यादेःसर्षपान्तस्यविविधस्यास्यभागशः |

कालप्रमाणसंस्कारमात्राःसम्परिकीर्तिताः ||५२||

इतिकुधान्यवर्गः |

अथमांसवर्गः |

अतऊर्ध्वंमांसवर्गानुपदेक्ष्यामः; तद्यथा- जलेशया, आनूपा, ग्राम्याः, क्रव्यभुज, एकशफा, जाङ्गलाश्चेतिषण्मांसवर्गाभवन्ति | एतेषांवर्गाणामुत्तरोत्तराप्रधानतमाः | तेपुनर्द्विविधाजाङ्गलाआनूपाश्चेति | तत्रजाङ्गलवर्गोऽष्टविधः | तद्यथा- जङ्घाला, विष्किराः, प्रतुदा, गुहाशयाः, प्रसहाः, पर्णमृगा, बिलेशया, ग्राम्याश्चेति | तेषांजङ्घालविष्किरौप्रधानतमौ ||५३||

तावेणहरिणर्क्षकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो [२१] जङ्घालामृगाःकषायामधुरालघवोवातपित्तहरास्तीक्ष्णाहृद्याबस्तिशोधनाश्च ||५४||

कषायमधुरोहृद्यःपित्तासृक्कफरोगहा |

सङ्ग्राहीरोचनोबल्यस्तेषामेणोज्वरापहः ||५५||

मधुरोमधुरःपाकेदोषघ्नोऽनलदीपनः |

शीतलोबद्धविण्मूत्रसुगन्धिर्हरिणोलघुः ||५६||

एणःकृष्णस्तयोर्ज्ञेयोहरिणस्ताम्रउच्यते |

योनकृष्णोनताम्रश्चकुरङ्गःसोऽभिधीयते ||५७||

शीताऽसृक्पित्तशमनीविज्ञेयामृगमातृका |

सन्निपातक्षयश्वासकासहिक्कारुचिप्रणुत् ||५८||

लावतित्तिरिकपिञ्जलवर्तीरवर्तिकावर्तकनप्तृकावार्तीकचकोरकलविङ्कमयूरक्रकरोपचक्र- कुक्कुटसारङ्गशतपत्रकुतित्तिरिकुरुवाहकयवालकप्रभृतयस्त्र्याहलाविष्किराः ||५९||

लघवःशीतमधुराःकषायादोषनाशनाः |

सङ्ग्राहीदीपनश्चैवकषायमधुरोलघुः |

लावःकटुविपाकश्चसन्निपातेतुपूजितः ||६०||

ईषद्गुरूष्णमधुरोवृष्योमेधाग्निवर्धनः |

तित्तिरिःसर्वदोषघ्नोग्राहीवर्णप्रसादनः ||६१||

रक्तपित्तहरःशीतोलघुश्चापिकपिञ्जलः |

कफोत्थेषुचरोगेषुमन्दवातेचशस्यते ||६२||

हिक्काश्वासानिलहरोविशेषाद्गौरतित्तिरिः |

वातपित्तहरावृष्यामेधाग्निबलवर्धनाः ||६३||

लघवःक्रकराहृद्यास्तथाचैवोपचक्रकाः |

कषायःस्वादुलवणस्त्वच्यःकेश्योऽरुचौहितः ||६४||

मयूरःस्वरमेधाग्निदृक्श्रोत्रेन्द्रियदार्ढ्यकृत् |

स्निग्धोष्णोऽनिलहावृष्यःस्वेदस्वरबलावहः ||६५||

बृंहणःकुक्कुटोवन्यस्तद्वद्ग्राम्योगुरुस्तुसः |

वातरोगक्षयवमीविषमज्वरनाशनः ||६६||

कपोतपारावतभृङ्गराजपरभृतकोयष्टिककुलिङ्गगृहकुलिङ्गगोक्ष्वेडकडिण्डिमाणवकशतपत्रक- मातृनिन्दकभेदाशिशुकसारिकावल्गुलीगिरिशालट्वालट्टूषकसुगृहाखञ्जरीटहारीतदात्यूहप्रभृतयःप्रतुदाः ||६७||

कषायमधुरारूक्षाःफलाहारामरुत्कराः |

पित्तश्लेष्महराःशीताबद्धमूत्राल्पवर्चसः ||६८||

सर्वदोषकरस्तेषांभेदाशीमलदूषकः |

कषायस्वादुलवणोगुरुःकाणकपोतकः ||६९||

रक्तपित्तप्रशमनःकषायविशदोऽपिच |

विपाकेमधुरश्चापिगुरुःपारावतःस्मृतः ||७०||

कुलिङ्गोमधुरःस्निग्धःकफशुक्रविवर्धनः |

रक्तपित्तहरोवेश्मकुलिङ्गस्त्वतिशुक्रलः ||७१||

सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगेर्वारुकप्रभृतयोगुहाशयाः ||७२||

मधुरागुरवःस्निग्धाबल्यामारुतनाशनाः |

उष्णवीर्याहितानित्यंनेत्रगुह्यविकारिणाम् ||७३||

काककङ्ककुररचाषभासशशघात्युलूकचिल्लिश्येनगृध्रप्रभृतयःप्रसहाः ||७४||

एतेसिंहादिभिःसर्वेसमानावायसादयः |

रसवीर्यविपाकेषुविशेषाच्छोषिणेहिताः ||७५||

मद्गुमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयःपर्णमृगाः ||७६||

मधुरागुरवोवृष्याश्चक्षुष्याःशोषिणेहिताः |

सृष्टमूत्रपुरीषाश्चकासार्शःश्वासनाशनाः ||७७||

श्वाविच्छल्यकगोधाशशवृषदंशलोपाकलोमशकर्णकदलीमृगप्रियकाजगरसर्पमूषिकनकुलमहाबभ्रुप्रभृतयोबिलेशयाः ||७८||

वर्चोमूत्रंसंहतंकुर्युरेतेवीर्येचोष्णाःपूर्ववत्स्वादुपाकाः |

वातंहन्युःश्लेष्मपित्तेचकुर्युःस्निग्धाःकासश्वासकार्श्यापहाश्च ||७९||

कषायमधुरस्तेषांशशःपित्तकफापहः |

नातिशीतलवीर्यत्वाद्वातसाधारणोमतः ||८०||

गोधाविपाकेमधुराकषायकटुकास्मृता |

वातपित्तप्रशमनीबृंहणीबलवर्धनी ||८१||

शल्यकःस्वादुपित्तघ्नोलघुःशीतोविषापहः |

प्रियकोमारुतेपथ्योऽजगरस्त्वर्शसांहितः ||८२||

दुर्नामानिलदोषघ्नाःकृमिदूषीविषापहाः |

चक्षुष्यामधुराःपाकेसर्पामेधाग्निवर्धनाः ||८३||

दर्वीकरादीपकाश्चतेषूक्ताःकटुपाकिनः |

मधुराश्चातिचक्षुष्याःसृष्टविण्मूत्रमारुताः ||८४||

अश्वाश्वतरगोखरोष्ट्रबस्तोरभ्रमेदःपुच्छकप्रभृतयोग्राम्याः ||८५||

ग्राम्यावातहराःसर्वेबृंहणाःकफपित्तलाः |

मधुरारसपाकाभ्यांदीपनाबलवर्धनाः ||८६||

नातिशीतोगुरुःस्निग्धोमन्दपित्तकफःस्मृतः |

छगलस्त्वनभिष्यन्दीतेषांपीनसनाशनः ||८७||

बृंहणंमांसमौरभ्रंपित्तश्लेष्मावहंगुरु |

मेदःपुच्छोद्भवंवृष्यमौरभ्रसदृशंगुणैः ||८८||

श्वासकासप्रतिश्यायविषमज्वरनाशनम् |

श्रमात्यग्निहितंगव्यंपवित्रमनिलापहम् ||८९||

औरभ्रवत्सलवणंमांसमेकशफोद्भवम् |९०|

अल्पाभिष्यन्द्ययंवर्गोजाङ्गलःसमुदाहृतः ||९०||

दूरेजनान्तनिलयादूरेपानीयगोचराः |

येमृगाश्चविहङ्गाश्चतेऽल्पाभिष्यन्दिनोमताः ||९१||

अतीवासन्ननिलयाःसमीपोदकगोचराः |

येमृगाश्चविहङ्गाश्चमहाभिष्यन्दिनस्तुते ||९२||

आनूपवर्गस्तुपञ्चविधः |

तद्यथा- कूलचराः, प्लवाः, कोषस्थाः, पादिनो, मत्स्याश्चेति ||९३||

तत्रगजगवयमहिषरुरुचमरसृमररोहितवराहखड्गिगोकर्णकालपुच्छकोद्रन्यङ्क्वरण्यगवयप्रभृतयःकूलचराःपशवः ||९४||

वातपित्तहरावृष्यामधुरारसपाकयोः |

शीतलाबलिनःस्निग्धामूत्रलाःकफवर्धनः ||९५||

विरूक्षणोलेखनश्चवीर्योष्णःपित्तदूषणः |

स्वाद्वम्ललवणस्तेषांगजःश्लेष्मानिलापहः ||९६||

गवयस्यतुमांसंहिस्निग्धंमधुरकासजित् |

विपाकेमधुरंचापिव्यवायस्यतुवर्धनम् ||९७||

स्निग्धोष्णमधुरोवृष्योमहिषस्तर्पणोगुरुः |

निद्रापुंस्त्वबलस्तन्यवर्धनोमांसदार्ढ्यकृत् ||९८||

रुरोर्मांसंसमधुरंकषायानुरसंस्मृतम् |

वातपित्तोपशमनंगुरुशुक्रविवर्धनम् ||९९||

तथाचमरमांसंतुस्निग्धंमधुरकासजित् |

विपाकेमधुरंचापिवातपित्तप्रणाशनम् ||१००||

सृमरस्यतुमांसंचकषायानुरसंस्मृतम् |

वातपित्तोपशमनंगुरुशुक्रविवर्धनम् ||१०१||

स्वेदनंबृंहणंवृष्यंशीतलंतर्पणंगुरु |

श्रमानिलहरंस्निग्धंवाराहंबलवर्धनम् ||१०२||

कफघ्नंखड्गिपिशितंकषायमनिलापहम् |

पित्र्यंपवित्रमायुष्यंबद्धमूत्रंविरूक्षणम् ||१०३||

गोकर्णमांसंमधुरंस्निग्धंमृदुकफावहम् |

विपाकेमधुरंचापिरक्तपित्तविनाशनम्||१०४||

हंससारसक्रौञ्चचक्रवाककुररकादम्बकारण्डवजीवञ्जीवकबकबलाकापुण्डरीकप्लवशरारीमुख- नन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपुष्करशायिकाकोनालकाम्बुकुक्कुटिकामेघरावश्वेतवारलप्रभृतयप्लवाःसङ्घातचारिणः ||१०५||

रक्तपित्तहराःशीताःस्निग्धावृष्यामरुज्जितः |

सृष्टमूत्रपुरीषाश्चमधुरारसपाकयोः ||१०६||

गुरूष्णमधुरःस्निग्धःस्वरवर्णबलप्रदः |

बृंहणःशुक्रलस्तेषांहंसोवातविकारनुत् ||१०७||

शङ्खशङ्खनकशुक्तिशम्बूकभल्लूकप्रभृतयःकोशस्थाः ||१०८||

कूर्मकुम्भीरकर्कटककृष्णकर्कटकशिशुमारप्रभृतयःपादिनः ||१०९||

शङ्खकूर्मादयःस्वादुरसपाकामरुन्नुदः |

शीताःस्निग्धाहिताःपित्तेवर्चस्याःश्लेष्मवर्धनाः ||११०||

कृष्णकर्कटकस्तेषांबल्यःकोष्णोऽनिलापहः |

शुक्लःसन्धानकृत्सृष्टविण्मूत्रोऽनिलपित्तहा ||१११||

तेषांमध्येकस्यचिद्गुणमाह- कृष्णेत्यादि||१११||

मत्स्यास्तुद्विविधानादेयाःसामुद्राश्च ||११२||

तत्रनादेयाः- रोहितपाठीनपाटलाराजीववर्मिगोमत्स्यकृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्रप्रभृतयः||११३||

नादेयामधुरामत्स्यागुरवोमारुतापहाः |

रक्तपित्तकराश्चोष्णावृष्याःस्निग्धाल्पवर्चसः ||११४||

कषायानुरसस्तेषांशष्पशैवालभोजनः |

रोहितोमारुतहरोनात्यर्थंपित्तकोपनः ||११५||

पाठीनःश्लेष्मलोवृष्योनिद्रालुःपिशिताशनः |

दूषयेद्रक्तपित्तंतुकुष्ठरोगंकरोत्यसौ |

मुरलोबृंहणोवृष्यःस्तन्यश्लेष्मकरस्तथा ||११६||

सरस्तडागसम्भूताःस्निग्धाःस्वादुरसाःस्मृताः |

महाह्रदेषुबलिनः, स्वल्पेऽम्भस्यबलाःस्मृताः ||११७||

तिमितिमिङ्गिलकुलिशपाकमत्स्यनिरुलनन्दिवार(रु)लकमकरगर्गरचन्द्रकमहामीनराजीवप्रभृतयःसामुद्राः ||११८||

सामुद्रागुरवःस्निग्धामधुरानातिपित्तलाः |

उष्णावातहरावृष्यावर्चस्याःश्लेष्मवर्धनाः ||११९||

बलावहाविशेषेणमांसाशित्वात्समुद्रजाः |

समुद्रजेभ्योनादेयाबृंहणत्वाद्गुणोत्तराः ||१२०||

तेषामप्यनिलघ्नत्वाच्चौण्ट्यकौप्यौगुणोत्तरौ |

स्निग्धत्वात्स्वादुपाकत्वात्तयोर्वाप्यागुणाधिकाः ||१२१||

नादेयागुरवोमध्येयस्मात्पुच्छास्यचारिणः |

सरस्तडागजानांतुविशेषेणशिरोलघु ||१२२||

अदूरगोचरायस्मात्तस्मादुत्सोदपानजाः |

किञ्चिन्मुक्त्वाशिरोदेशमत्यर्थंगुरवस्तुते ||१२३||

अधस्ताद्गुरवोज्ञेयामत्स्याःसागरसम्भवाः |

उरोविचरणात्तेषांपूर्वमङ्गंलघुस्मृतम् ||१२४||

इत्यानूपोमहाष्यन्दीमांसवर्गउदीरितः||१२५||

तत्रशुष्कपूतिव्याधिविषसर्पहतदिग्धविद्धजीर्णकृशबालानामसात्म्यचारिणांचमांसान्यभक्ष्याणि, यस्माद्विगतव्यापन्नापहतपरिणताल्पासम्पूर्णवीर्यत्वाद्दोषकराणिभवन्ति; एभ्योऽन्येषामुपादेयंमांसमिति ||१२६||

अरोचकंप्रतिश्यायंगुरुशुष्कंप्रकीर्तितम् |

विषव्याधिहतंमृत्युंबालंछर्दिंचकोपयेत् ||१२७||

कासश्वासकरंवृद्धंत्रिदोषंव्याधिदूषितम् |

क्लिन्नमुत्क्लेशजननंकृशंवातप्रकोपणम् ||१२८||

स्त्रियश्चतुष्पात्सु, पुमांसोविहङ्गेषु, महाशरीरेष्वल्पशरीराः, अल्पशरीरेषुमहाशरीराः, प्रधानतमाः; एवमेकजातीयानांमहाशरीरेभ्यःकृशशरीराःप्रधानतमाः ||१२९||

स्थानादिकृतंमांसस्यगुरुलाघवमुपदेक्ष्यामः |

तद्यथा- रक्तादिषुशुक्रान्तेषुधातुषूत्तरोत्तरागुरुतराः, तथासक्थिस्कन्धक्रोडशिरःपादकरकटीपृष्ठचर्मकालेयकयकृदन्त्राणि ||१३०||

शिरःस्कन्धंकटीपृष्ठंसक्थिनीचात्मपक्षयोः |

गुरुपूर्वंविजानीयाद्धातवस्तुयथोत्तरम् ||१३१||

सर्वस्यप्राणिनोदेहेमध्योगुरुरुदाहृतः |

पूर्वभागोगुरुःपुंसामधोभागस्तुयोषिताम् ||१३२||

उरोग्रीवंविहङ्गानांविशेषेणगुरुस्मृतम् |

पक्षोत्क्षेपात्समोदृष्टोमध्यभागस्तुपक्षिणाम् ||१३३||

अतीवरूक्षंमांसंतुविहङ्गानांफलाशिनाम् |

बृंहणंमांसमत्यर्थंखगानांपिशिताशिनाम् ||१३४||

मत्स्याशिनांपित्तकरंवातघ्नंधान्यचारिनाम्|

जलजानूपजाग्राम्याक्रच्यादैकशफास्तथा ||१३५||

प्रसहाबिलवासाश्चयेचजङ्घालसञ्ज्ञिताः |

प्रतुदाविष्किराश्चैवलघवःस्युर्यथोत्तरम् |

अल्पाभिष्यन्दिनश्चैवयथापूर्वमतोऽन्यथा ||१३६||

प्रामाणाधिकास्तुस्वजातावल्पसारागुरवश्च |

सर्वप्राणिनांसर्वशरीरेभ्यःप्रधानतमाभवन्तियकृत्प्रदेशवर्तिनस्तानाददीत; प्रधानालाभेमध्यमवयस्कंसद्यस्कमक्लिष्टमुपादेयंमांसमिति ||१३७||

भवतिचात्र-

चरःशरीरावयवाःस्वभावोधातवःक्रिया |

लिङ्गंप्रमाणंसंस्कारोमात्राचास्मिन्परीक्ष्यते||१३८||

इतिमांसवर्गः |

अथफलवर्गः |

अतऊर्ध्वंफलान्युपदेक्ष्यामः|

तद्यथा- दाडिमामलकबदरकोलकर्कन्धुसौवीरसिञ्चितिकाफलकपित्थमातुलुङ्गाम्राम्रातककरमर्दप्रियालनारङ्ग- जम्बीरलकुचभव्यपारावतवेत्रफलप्राचीनामलकतिन्तिडीकनीपकोशाम्राम्लीकाप्रभृतीनि||१३९||

अम्लानिरसतःपाकेगुरूण्युष्णानिवीर्यतः |

पित्तलान्यनिलघ्नानिकफोत्क्लेशकराणिच ||१४०||

कषायानुरसंतेषांदाडिमंनातिपित्तलम् |

दीपनीयंरुचिकरंहृद्यंवर्चोविबन्धनम् ||१४१||

द्विविधंतत्तुविज्ञेयंमधुरंचाम्लमेवच |

त्रिदोषघ्नंतुमधुरमम्लंवातकफापहम् ||१४२||

अम्लंसमधुरंतिक्तंकषायंकटुकंसरम् |

चक्षुष्यंसर्वदोषघ्नंवृष्यमामलकीफलम् ||१४३||

हन्तिवातंतदम्लत्वात्पित्तंमाधुर्यशैत्यतः |

कफंरूक्षकषायत्वात्फलेभ्योऽभ्यधिकंचतत् ||१४४||

कर्कन्धुकोलबदरमामंपित्तकफावहम् |

पक्वंपित्तानिलहरंस्निग्धंसमधुरंसरम् ||१४५||

पुरातनंतृट्शमनंश्रमघ्नंदीपनंलघु |

सौवीरंबदरंस्निग्धंमधुरंवातपित्तजित् ||१४६||

कषायंस्वादुसङ्ग्राहिशीतंसिञ्चितिकाफलम् |

आमंकपित्थमस्वर्यंकफघ्नंग्राहिवातलम् ||१४७||

कफानिलहरंपक्वंमधुराम्लरसंगुरु |

श्वासकासारुचिहरंतृष्णाघ्नंकण्ठशोधनम् ||१४८||

लघ्वम्लंदीपनंहृद्यंमातुलुङ्गमुदाहृतम् |

त्वक्तिक्तादुर्जरातस्यवातक्रिमिकफापहा ||१४९||

स्वादुशीतंगुरुस्निग्धंमांसंमारुतपित्तजित् |

मेध्यंशूलानिलच्छर्दिकफारोचकनाशनम् ||१५०||

दीपनंलघुसङ्ग्राहिगुल्मार्शोघ्नंतुकेसरम् |

शूलाजीर्णविबन्धेषुमन्देऽग्नौकफमारुते ||१५१||

अरुचौचविशेषेणरसस्तस्योपदिश्यते |

पित्तानिलकरंबालंपित्तलंबद्धकेसरम् ||१५२||

हृद्यंवर्णकरंरुच्यंरक्तमांसबलप्रदम् |

कषायानुरसंस्वादुवातघ्नंबृंहणंगुरु ||१५३||

पित्ताविरोधिसम्पक्वमाम्रंशुक्रविवर्धनम् |

बृंहणंमधुरंबल्यंगुरुविष्टभ्यजीर्यति ||१५४||

आम्रातकफलंवृष्यंसस्नेहंश्लेष्मवर्धनम् |

त्रिदोषविष्टम्भकरंलकुचंशुक्रनाशनम् ||१५५||

अम्लंतृषापहंरुच्यंपित्तकृत्करमर्दकम् |

वातपित्तहरंवृष्यंप्रियालंगुरुशीतलम् ||१५६||

हृद्यंस्वादुकषायाम्लंभव्यमास्यविशोधनम् |

पित्तश्लेष्महरंग्राहिगुरुविष्टम्भिशीतलम् ||१५७||

पारावतंसमधुरंरुच्यमत्यग्निवातनुत् |

गरदोषहरंनीपंप्राचीनामलकंतथा ||१५८||

वातापहंतिन्तिडीकमामंपित्तबलासकृत् |

ग्राह्युष्णंदीपनंरुच्यंसम्पक्वंकफवातनुत् ||१५९||

तस्मादल्पान्तरगुणंकोशाम्रफलमुच्यते |

अम्लीकायाःफलंपक्वंतद्वद्भेदितुकेवलम् ||१६०||

अम्लंसमधुरंहृद्यंविशदंभक्तरोचनम् |

वातघ्नंदुर्जरंप्रोक्तंनारङ्गस्यफलंगुरु ||१६१||

तृष्णाशूलकफोत्क्लेशच्छर्दिश्वासनिवारणम् |

वातश्लेष्मविबन्धघ्नंजम्बीरंगुरुपित्तकृत् |

ऐरावतंदन्तशठमम्लंशोणितपित्तकृत् ||१६२||

क्षीरवृक्षफलजाम्बवराजादनतोदनशीतफलतिन्दुकबकुलधन्वनाश्मन्तकाश्वकर्णफल्गु- परूषकगाङ्गेरुकीपुष्करवर्तिबिल्वबिम्बीप्रभृतीनि ||१६३||

फलान्येतानिशीतानिकफपित्तहराणिच |

सङ्ग्राहकाणिरूक्षाणिकषायमधुराणिच ||१६४||

क्षीरवृक्षफलंतेषांगुरुविष्टम्भिशीतलम् |

कषायंमधुरंसाम्लंनातिमारुतकोपनम् ||१६५||

अत्यर्थंवातलंग्राहिजाम्बवंकफपित्तजित् |

स्निग्धंस्वादुकषायंचराजादनफलंगुरु ||१६६||

कषायंमधुरंरूक्षंतोदनंकफवातजित् |

अम्लोष्णंलघुसङ्ग्राहिस्निग्धंपित्ताग्निवर्धनम् ||१६७||

आमंकषायंसङ्ग्राहितिन्दुकंवातकोपनम् |

विपाकेगुरुसम्पक्वंमधुरंकफपित्तजित् ||१६८||

मधुरंचकषायंचस्निग्धंसङ्ग्राहिबाकुलम् |

स्थिरीकरंचदन्तानांविशदंफलमुच्यते ||१६९||

सकषायंहिमंस्वादुधान्वनंकफवातजित् |

तद्वद्गाङ्गेरुकंविद्यादश्मन्तकफलानिच ||१७०||

विष्टम्भिमधुरंस्निग्धंफल्गुजंतर्पणंगुरु |

अत्यम्लमीषन्मधुरंकषायानुरसंलघु ||१७१||

वातघ्नंपित्तजनमामंविद्यात्परुषकम् |

तदेवपक्वंमधुरंवातपित्तनिबर्हणम् ||१७२||

विपाकेमधुरंशीतंरक्तपित्तप्रसादनम् |

पौष्करंस्वादुविष्टम्भिबल्यंकफकरंफलम्||१७३||

कफानिलहरंतीक्ष्णंस्निग्धंसङ्ग्राहिदीपनम् |

कटुतिक्तकषायोष्णंबालंबिल्वमुदाहृतम् ||१७४||

विद्यात्तदेवसम्पक्वंमधुरानुरसंगुरु |

विदाहिविष्टम्भकरंदोषकृत्पूतिमारुतम् ||१७५||

बिम्बीफलंसाश्वकर्णंस्तन्यकृत्कफपित्तजित् |

तृड्दाहज्वरपित्तासृक्कासश्वासक्षयापहम् ||१७६||

तालनालिकेरपनसमोचप्रभृतीनि ||१७७||

स्वादुपाकरसान्याहुर्वातपित्तहराणिच |

बलप्रदानिस्निग्धानिबृंहणानिहिमानिच ||१७८||

फलंस्वादुरसंतेषांतालजंगुरुपित्तजित् |

तद्बीजंस्वादुपाकंतुमूत्रलंवातपित्तजित् ||१७९||

नालिकेरंगुरुस्निग्धंपित्तघ्नंस्वादुशीतलम् |

बलमांसप्रदंहृद्यंबृंहणंबस्तिशोधनम् ||१८०||

पनसंसकषायंतुस्निग्धंस्वादुरसंगुरु |

मौचंस्वादुरसंप्रोक्तंकषायंनातिशीतलम् |

रक्तपित्तहरंवृष्यंरुच्यंश्लेष्मकरंगुरु ||१८१||

द्राक्षाकाश्मर्यमधूकपुष्पखर्जूरप्रभृतीनि ||१८२||

रक्तपित्तहराण्याहुर्गुरूणिमधुराणिच |

तेषांद्राक्षासरास्वर्यामधुरास्निग्धशीतला ||१८३||

रक्तपित्तज्वरश्वासतृष्णादाहक्षयापहा |

हृद्यंमूत्रविबन्धघ्नंपित्तासृग्वातनाशनम्||१८४||

केश्यंरसायनंमेध्यंकाश्मर्यंफलमुच्यते |

क्षतक्षयापहंहृद्यंशीतलंतर्पणंगुरु ||१८५||

रसेपाकेचमधुरंखार्जूरंरक्तपित्तनुत् |

बृंहणीयमहृद्यंचमधूककुसुमंगुरु |

वातपित्तोपशमनंफलंतस्योपदिश्यते ||१८६||

वातामाक्षोडाभिषुकनिचुलपिचुनिकोचकोरुमाणप्रभृतीनि||१८७||

पित्तश्लेष्महराण्याहुःस्निग्धोष्णानिगुरूणिच |

बृंहणान्यनिलघ्नानिबल्यानिमधुराणिच ||१८८||

कषायंकफपित्तघ्नंकिञ्चित्तिक्तंरुचिप्रदम् |

हृद्यंसुगन्धिविशदंलवलीफलमुच्यते ||१८९||

वसिरंशीतपाक्यंचसारुष्करनिबन्धनम् |

विष्टम्भिदुर्जरंरूक्षंशीतलंवातकोपनम् ||१९०||

विपाकेमधुरंचापिरक्तपित्तप्रसादनन् |

ऐरावतंदन्तशठमम्लंशोणितपित्तकृत् ||१९१||

शीतंकषायंमधुरंटङ्कंमारुतकृद्गुरु |

स्निग्धोष्णंतिक्तमधुरंवातश्लेष्मघ्नमैङ्गुदम् ||१९२||

शमीफलंगुरुस्वादुरूक्षोष्णंकेशनाशनम् |

गुरुश्लेष्मातकफलंकफकृन्मधुरंहिमम् ||१९३||

करीराक्षिकपीलूनितृणशून्यफलानिच |

स्वादुतिक्तकटूष्णानिकफवातहराणिच ||१९४||

तिक्तंपिन्त्तकरंतेषांसरंकटुविपाकिच |

तीक्ष्णोष्णंकटुकंपीलुसस्नेहंकफवातजित् ||१९५||

आरुष्करंतौवरकंकषायंकटुपाकिच |

उष्णंकृमिज्वरानाहमेहोदावर्तनाशनम् |

कुष्ठगुल्मोदरार्शोघ्नंकटुपाकितथैवच ||१९६||

करञ्जकिंशुकारिष्टफलंजन्तुप्रमेहनुत् |

अङ्कोलस्यफलंविस्रंगुरुश्लेष्महरंहिमम् ||१९७||

रूक्षोष्णंकटुकंपाकेलघुवातकफापहम् |

तिक्तमीषद्विषहितंविडङ्गंकृमिनाशनम् ||१९८||

व्रण्यमुष्णंसरंमेध्यंदोषघ्नंशोफकुष्ठनुत् |

कषायंदीपनंचाम्लंचक्षुष्यंचाभयाफलम् ||१९९||

भेदनंलघुरूक्षोष्णंवैस्वर्यक्रिमिनाशनम् |

चक्षुष्यंस्वादुपाक्याक्षंकषायंकफपित्तजित् ||२००||

कफपित्तहरंरूक्षंवक्त्रक्लेदमलापहम् |

कषायमीषन्मधुरंकिञ्चित्पूगफलंसरम् ||२०१||

जातीकोशोऽथकर्पूरंजातीकटुकयोःफलम् |

कक्को(ङ्को)लकंलवङ्गंचतिक्तंकटुकफापहम् ||२०२||

लघुतृष्णापहंवक्त्रक्लेददौर्गन्ध्यनाशनम् |

सतिक्तःसुरभिःशीतःकर्पूरोलघुलेखनः ||२०३||

तृष्णायांमुखशोषेचवैरस्येचापिपूजितः |

लताकस्तूरिकातद्वच्छीताबस्तिविशोधनी ||२०४||

प्रियालमज्जामधुरोवृष्यःपित्तानिलापहः |

बैभीतकोमदकरःकफमारुतनाशनः ||२०५||

कषायमधुरोमज्जाकोलानांपित्तनाशनः |

तृष्णाच्छर्द्यनिलघ्नश्चतद्वदामलकस्यच ||२०६||

बीजपूरकशम्याकमज्जाकोशाम्रसम्भवः |

स्वादुपाकोऽग्निबलदःस्निग्धःपित्तानिलापहः ||२०७||

यस्ययस्यफलस्येहवीर्यंभवतियादृशम् |

तस्यतस्यैववीर्येणमज्जानमपिनिर्दिशेत् ||२०८||

फलेषुपरिपक्वंयद्गुणवत्तदुदाहृतम् |

बिल्वादन्यत्रविज्ञेयमामंतद्धिगुणोत्तरम् |

ग्राह्युष्णंदीपनंतद्धिकषायकटुतिक्तकम् ||२०९||

व्याधितंकृमिजुष्टंचपाकातीतमकालजम् |

वर्जनीयंफलंसर्वमपर्यागतमेवच ||२१०||

इतिफलवर्गः |

अथशाकवर्गः |

शाकान्यतऊर्ध्वंवक्ष्यामः|

तत्रपुष्पफलालाबुकालिन्दकप्रभृतीनि ||२११||

पित्तघ्नान्यनिलंकुर्युस्तथामन्दकफानिच |

सृष्टमूत्रपुरीषाणिस्वादुपाकरसानिच ||२१२||

पित्तघ्नंतेषुकूष्माण्डंबालंमध्यंकफावहम् |

शुक्लंलघूष्णंसक्षारंदीपनंबस्तिशोधनम् ||२१३||

सर्वदोषहरंहृद्यंपथ्यंचेतोविकारिणाम् |

दृष्टिशुक्रक्षयकरंकालिन्दंकफवातकृत् ||२१४||

अलाबुर्भिन्नविट्कातुरूक्षागुर्व्यतिशीतला |

तिक्तालाबुरहृद्यातुवामिनीवातपित्तजित् ||२१५||

त्रपुसैर्वारुकर्कारुकशीर्णवृन्तप्रभृतीनि ||२१६||

स्वादुतिक्तरसान्याहुःकफवातकराणिच |

सृष्टमूत्रपुरीषाणिरक्तपित्तहराणिच ||२१७||

बालंसनीलंत्रपुसंतेषांपित्तहरंस्मृतम् |

तत्पाण्डुकफकृज्जीर्णमम्लंवातकफापहम् ||२१८||

एर्वारुकंसकर्कारुसम्पक्वंकफवातकृत् |

सक्षारंमधुरंरुच्यंदीपनंनातिपित्तलम् ||२१९||

सक्षारंमधुरंचैवशीर्णवृन्तंकफापहम् |

भेदनंदीपनंहृद्यमानाहाष्ठीलनुल्लघु ||२२०||

पिप्पलीमरिचशृङ्गवेरार्द्रकहिङ्गुजीरककुस्तुम्बुरुजम्बीरसुमुखसुरसार्जकभूस्तृणसुगन्धक- कासमर्दककालमालकुठेरकक्षवकखरपुष्पशिग्रुमधुशिग्रुफणिज्झकसर्षपराजिकाकुलाहलावगुत्थगण्डीरतिलपर्णिका- वर्षाभूचित्रकमूलकलशुनकलायपलाण्डुप्रभृतीनि ||२२१||

कटून्युष्णानिरुच्यानिवातश्लेष्महराणिच |

कृतान्नेषूपयुज्यन्तेसंस्कारार्थमनेकधा ||२२२||

तेषांगुर्वीस्वादुशीतापिप्पल्यार्द्राकफावहा |

शुष्काकफानिलघ्नीसावृष्यापित्ताविरोधिनी ||२२३||

स्वादुपाक्यार्द्रमरिचंगुरुश्लेष्मप्रसेकिच |

कटूष्णंलघुतच्छुष्कमवृष्यंकफवातजित् ||२२४||

नात्युष्णंनातिशीतंचवीर्यतोमरिचंसितम् |

गुणवन्मरिचेभ्यश्चचक्षुष्यंचविशेषतः ||२२५||

नागरंकफवातघ्नंविपाकेमधुरंकटु |

वृष्योष्णंरोचनंहृद्यंसस्नेहंलघुदीपनम् ||२२६||

कफानिलहरंस्वर्यंविबन्धानाहशूलनुत् |

कटूष्णंरोचनंहृद्यंवृष्यंचैवार्द्रकंस्मृतम् ||२२७||

लघूष्णंपाचनंहिङ्गुदीपनंकफवातजित् |

कटुस्निग्धंसरंतीक्ष्णंशूलाजीर्णविबन्धनुत् ||२२८||

तीक्ष्णोष्णंकटुकंपाकेरुच्यंपित्ताग्निवर्धनम् |

कटुश्लेष्मानिलहरंगन्धाढ्यंजीरकद्वयम् ||२२९||

कारवीकरवीतद्वद्विज्ञेयासोपकुञ्चिका |

भक्ष्यव्यञ्जनभोज्येषुविविधेष्ववचारिता ||२३०||

आर्द्राकुस्तुम्बरीकुर्यात्स्वादुसौगन्ध्यहृद्यताम् |

साशुष्कामधुरापाकेस्निग्धातृड्दाहनाशनी ||२३१||

दोषघ्नीकटुकाकिञ्चित्तिक्तास्रोतोविशोधनी |

जम्बीरःपाचनस्तीक्ष्णःकृमिवातकफापहः||२३२||

सुराभिर्दीपनोरुच्योमुखवैशद्यकारकः |

कफानिलविषश्वासकासदौर्गन्ध्यनाशनः ||२३३||

पित्तकृत्पार्श्वशूलघ्नःसुरसःसमुदाहृतः |

तद्वत्तुसुमुखोज्ञेयोविशेषाद्गरनाशनः ||२३४||

कफघ्नालघवोरूक्षास्तीक्ष्णोष्णाःपित्तवर्धनाः |

कटुपाकरसाश्चैवसुरसार्जकभूस्तृणाः ||२३५||

मधुरःकफवातघ्नःपाचनःकण्ठशोधनः |

विशेषतःपित्तहरःसतिक्तःकासमर्दकः ||२३६||

कटुःसक्षारमधुरःशिग्रुस्तिक्तोऽथपिच्छिलः|

मधुशिग्रुःसरस्तिक्तःशोफघ्नोदीपनःकटुः ||२३७||

विदाहिबद्धविण्मूत्रंरूक्षंतीक्ष्णोष्णमेवच |

त्रिदोषंसार्षपंशाकंगाण्डीरंवेगनामच ||२३८||

चित्रकस्तिलपर्णीचकफशोफहरेलघू |

वर्षाभूःकफवातघ्नीहिताशोफोदरार्शसाम् ||२३९||

कटुतिक्तरसाहृद्यारोचनीवह्निदीपनी |

सर्वदोषहरालघ्वीकण्ठ्यामूलकपोतिका ||२४०||

महत्तद्गुरुविष्टम्भितीक्ष्णमामंत्रिदोषकृत् |

तदेवस्नेहसिद्धंतुपित्तनुत्कफवातजित् ||२४१||

त्रिदोषशमनंशुष्कंविषदोषहरंलघु |

विष्टम्भिवातलंशाकंशुष्कमन्यत्रमूलकात् ||२४२||

पुष्पंचपत्रंचफलंतथैवयथोत्तरंतेगुरवःप्रदिष्टाः |

तेषांतुपुष्पंकफपित्तहन्तृफलंनिहन्यात्कफमारुतौतु ||२४३||

स्निग्धोष्णतीक्ष्णःकटुपिच्छिलश्चगुरुःसरःस्वादुरसश्चबल्यः |

वृष्यश्चमेधास्वरवर्णचक्षुर्भग्नास्थिसन्धानकरोरसोनः ||२४४||

हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकासशोफान्|

दुर्नामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्चहन्ति ||२४५||

नात्युष्णवीर्योऽनिलहाकटुश्चतीक्ष्णोगुरुर्नातिकफावहश्च |

बलावहःपित्तकरोऽथकिञ्चित्पलाण्डुरग्निंचविवर्धयेत्तु ||२४६||

स्निग्धोरुचिष्यःस्थिरधातुकारीबल्योऽथमेधाकफपुष्टिदश्च |

स्वादुर्गुरुःशोणितपित्तशस्तःसपिच्छिलःक्षीरपलाण्डुरुक्तः ||२४७||

कलायशाकंपित्तघ्नंकफघ्नंवातलंगुरु |

कषायानुरसंचैवविपाकेमधुरंचतत् ||२४८||

चुच्चूयूथिकातरुणीजीवन्तीबिम्बीतिकानदी(न्दी)भल्लातकच्छगलान्त्री- वृक्षादनीफञ्जीशाल्मलीशेलुवनस्पतिप्रसवशणकर्बुदारकोविदारप्रभृतीनि ||२४९||

कषायस्वादुतिक्तानिरक्तपित्तहराणिच |

कफघ्नान्यनिलंकुर्युःसङ्ग्राहीणिलघूनिच ||२५०||

लघुःपाकेचजन्तुघ्नःपिच्छिलोव्रणिनांहितः |

कषायमधुरोग्राहीचुच्चूस्तेषांत्रिदोषहा ||२५१||

चक्षुष्यासर्वदोषघ्नीजीवन्तीसमुदाहृता |

वृक्षादनीवातहरा, फञ्जीत्वल्पबलामता ||२५२||

क्षीरवृक्षोत्पलादीनांकषायाःपल्लवाःस्मृताः |

शीताःसङ्ग्राहिणःशस्तारक्तपित्तातिसारिणाम् ||२५३||

पुनर्नवावरुणतर्कार्युरुबूकवत्सादनीबिल्वशाकप्रभृतीनि ||२५४||

उष्णानिस्वादुतिक्तानिवातप्रशमनानिच |

तेषुपौनर्नवंशाकंविशेषाच्छोफनाशनम् ||२५५||

तण्डुलीयकोपोदकाऽश्वबलाचिल्लीपालङ्क्यावास्तूकप्रभृतीनि ||२५६||

सृष्टमूत्रपुरीषाणिसक्षारमधुराणिच |

मन्दवातकफान्याहूरक्तपित्तहराणिच ||२५७||

मधुरोरसपाकाभ्यांरक्तपित्तमदापहः |

तेषांशीततमोरूक्षस्तण्डुलीयोविषापहः ||२५८||

स्वादुपाकरसावृष्यावातपित्तमदापहा |

उपोदकासरास्निग्धाबल्याश्लेष्मकरीहिमा ||२५९||

कटुर्विपाकेकृमिहामेधाग्निबलवर्धनः |

सक्षारःसर्वदोषघ्नोवास्तूकोरोचनःसरः ||२६०||

चिल्लीवास्तूकवज्ज्ञेयापालङ्क्यातण्डुलीयवत् |

वातकृद्बद्धविण्मूत्रारूक्षापित्तकफेहिता |

शाकमाश्वबलंरूक्षंबद्धविण्मूत्रमारुतम् ||२६१||

मण्डूकपर्णीसप्तलासुनिषण्णकसुवर्चलापिप्पलीगुडूचीगोजिह्वा-काकमाचीप्रपुन्नाडावल्गुजसतीनबृहतीकण्टकारिकाफल- पटोलवार्ताककारवेल्लककटुकिकाकेबु(म्बु)कोरुबूकपर्पटककिराततिक्त- कर्कोटकारिष्टकोशातकीवेत्रकरीराटरूषकार्कपुष्पीप्रभृतीनि ||२६२||

रक्तपित्तहराण्याहुर्हृद्यानिसुलघूनिच |

कुष्ठमेहज्वरश्वासकासारुचिहराणिच ||२६३||

कषायातुहितापित्तेस्वादुपाकरसाहिमा |

लघ्वीमण्डूकपर्णीतुतद्वद्गोजिह्विकामता ||२६४||

अविदाहीत्रिदोषघ्नःसङ्ग्राहीसुनिषण्णकः |

अवल्गुजःकटुःपाकेतिक्तःपित्तकफापहः ||२६५||

ईषत्तिक्तंत्रिदोषघ्नंशाकंकटुसतीनजम् |

नात्युष्णशीतंकुष्ठघ्नंकाकमाच्यास्तुतद्विधम् ||२६६||

कण्डूकुष्ठकृमिघ्नानिकफवातहराणिच |

फलानिबृहतीनांतुकटुतिक्तलघूनिच ||२६७||

कफपित्तहरंव्रण्यमुष्णंतिक्तमवातलम् |

पटोलंकटुकंपाकेवृष्यंरोचनदीपनम् ||२६८||

कफवातहरंतिक्तंरोचनंकटुकंलघु |

वार्ताकंदीपनंप्रोक्तंजीर्णंसक्षारपित्तलम् |

तद्वत्कर्कोटकंविद्यात्कारवेल्लकमेवच ||२६९||

आटरूषकवेत्राग्रगुडूचीनिम्बपर्पटाः |

किराततिक्तसहितास्तिक्ताःपित्तकफापहाः ||२७०||

कफापहंशाकमुक्तंवरुणप्रपुनाड(ट)योः |

रूक्षंलघुचशीतंचवातपित्तप्रकोपणम् ||२७१||

दीपनंकालशाकंतुगरदोषहरंकटु|

कौसुम्भंमधुरंरूक्षमुष्णंश्लेष्महरंलघु ||२७२||

वातलंनालिकाशाकंपित्तघ्नंमधुरंचतत् |

ग्रहण्यर्शोविकारघ्नीसाम्लावातकफेहिता |

उष्णाकषायमधुराचाङ्गेरीचाग्निदीपनी ||२७३||

लोणिकाजातुकत्रिपर्णिकापत्तूरजीवकसुवर्चलाडुडुरककुतुम्बककुठिञ्जरकुन्तलिकाकुरण्टिकाप्रभृतयः||२७४||

स्वादुपाकरसाःशीताःकफघ्नानातिपित्तलाः |

लवणानुरसारूक्षाःसक्षारावातलाःसराः ||२७५||

स्वादुतिक्ताकुन्तलिकाकषायासकुरण्टिका |२७६|

सङ्ग्राहिशीतलंचापिलघुदोषापहंतथा |राजक्षवकशाकंतुशटीशाकंचतद्विधम् ||२७६||

स्वादुपाकरसंशाकंदुर्जरंहरिमन्थजम् |

भेदनंमधुरंरूक्षंकालायमतिवातलम् ||२७७||

स्रंसनंकटुकंपाकेलघुवातकफापहम् |

शोफघ्नमुष्णवीर्यंचपत्रंपूतिकरञ्जजम् ||२७८||

ताम्बूलपत्रंतीक्ष्णोष्णंकटुपित्तप्रकोपणम् |

सुगन्धिविशदंतिक्तंस्वर्यंवातकफापहम् ||२७९||

स्रंसनंकटुकंपाकेकषायंवह्निदीपनम् |

वक्त्रकण्डूमलक्लेददौर्गन्ध्यादिविशोधनम्||२८०||

अथपुष्पवर्गः |

कोविदारशणशाल्मलीपुष्पाणिमधुराणिमधुरविपाकानिरक्तपित्तहराणिच; वृषागस्त्ययोःपुष्पाणितिक्तानिकटुविपाकानिक्षयकासापहानिच ||२८१||

आगस्त्यंनातिशीतोष्णंनक्तान्धानांप्रशस्यते ||२८२||

करीरकुसुमानिकटुविपाकानिवातहराणिसृष्टमूत्रपुरीषाणिच ||२८३||

रक्तवृक्षस्यनिम्बस्यमुष्ककार्कासनस्यच |

कफपित्तहरंपुष्पंकुष्ठघ्नंकुटजस्यच ||२८४||

सतिक्तंमधुरंशीतंपद्मंपित्तकफापहम् |

मधुरंपिच्छिलंस्निग्धंकुमुदंह्लादिशीतलम् |

तस्मादल्पान्तरगुणेविद्यात्कुवलयोत्पले ||२८५||

सिन्धुवारंविजानीयाद्धिमंपित्तविनाशनम् |

मालतीमल्लिकेतिक्तेसौरभ्यात्पित्तनाशने ||२८६||

सुगन्धिविशदंहृद्यंबाकुलंपाटलानिच |

श्लेष्मपित्तविषघ्नंतुनागंतद्वच्चकुङ्कुमम् ||२८७||

चम्पकंरक्तपित्तघ्नंशीतोष्णंकफनाशनम् |

किंशुकंकफपित्तघ्नंतद्वदेवकुरण्टकम् ||२८८||

यथावृक्षंविजानीयात्पुष्पंवृक्षोचितंतथा |

मधुशिग्रुकरीराणिकटूनिश्लेष्महराणिच ||२८९||

क्षवककुलेवरवंशकरीरप्रभृतीनिकफकराणिसृष्टमूत्रपुरीषाणिच ||२९०||

क्षवकंकृमिलंतेषुस्वादुपाकंसपिच्छलम् |

विस्यन्दिवातलंनातिपित्तश्लेष्मकरंचतत् ||२९१||

वेणोःकरीराःकफलामधुरारसपाकतः |

विदाहिनोवातकराःसकषायाविरूक्षणाः ||२९२||

उद्भिदानिपलालेक्षुकरीषवेणुक्षितिजानि | तत्रपलालजातंमधुरंमधुरविपाकंरूक्षंदोषप्रशमनंच | इक्षुजंमधुरंकषायानुरसंकटुपाकंशीतलंच | तद्वदेवोष्णंकारीषंकषायंवातकोपनंच, (वेणुजातं [९४] कषायंवातकोपनंच,) भूमिजंगुरुनातिवातलंभूमितश्चास्यानुरसः ||२९३||

पिण्याकतिलकल्कस्थूणिकाशुष्कशाकानिसर्वदोषप्रकोपणानि ||२९४||

विष्टम्भिनःस्मृताःसर्वेवटकावातकोपनाः |

सिण्डाकीवातलासार्द्रा [९७] रुचिष्याऽनलदीपनी ||२९५||

विड्भेदिगुरुरूक्षंचप्रायोविष्टम्भिदुर्जरम्|

सकषायंचसर्वंहिस्वादुशाकमुदाहृतम् |

पुष्पंपत्रंफलंनालंकन्दाश्चगुरवःक्रमात् ||२९६||

कर्कशंपरिजीर्णंचकृमिजुष्टमदेशजम् |

वर्जयेत्पत्रशाकंतद्यदकालविरोहिच ||२९७||

इतिशाकवर्गः |

अथकन्दवर्गः |

कन्दानातऊर्ध्वंवक्ष्यामः- विदारीकन्दशतावरीबिसमृणालशृङ्गाटककशेरुकपिण्डालुकमध्वालुक- हस्त्यालुककाष्ठालुकशङ्खालुकरक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि ||२९८||

रक्तपित्तहराण्याहुःशीतानिमधुराणिच |

गुरूणिबहुशुक्राणिस्तन्यवृद्धिकराणिच ||२९९||

मधुरोबृंहणोवृष्यःशीतःस्वर्योऽतिमूत्रलः |

विदारीकन्दोबल्यश्चपित्तवातहरश्चसः ||३००||

वातपित्तहरीवृष्यास्वादुतिक्ताशतावरी |

महतीचैवहृद्याचमेधाग्निबलवर्धिनी ||३०१||

ग्रहण्यर्शोविकारघ्नीवृष्याशीतारसायनी |

कफपित्तहरास्तिक्तास्तस्याएवाङ्कुराःस्मृताः ||३०२||

अविदाहिबिसंप्रोक्तंरक्तपित्तप्रसादनम् |

विष्टम्भिदुर्जरंरूक्षंविरसंमारुतावहम् ||३०३||

गुरूविष्टम्भिशीतौचशृङ्गाटककशेरुकौ |

पिण्डालुकंकफकरंगुरुवातप्रकोपणम् ||३०४||

सुरेन्द्रकन्दःश्लेष्मघ्नोविपाकेकटुपित्तकृत् |

वेणोःकरीरागुरवःकफमारुतकोपनाः ||३०५||

स्थूलसूरणमाणकप्रभृतयःकन्दाईषत्कषायाःकटुकारूक्षाविष्टम्भिनोगुरवःकफवातलाःपित्तहराश्च ||३०६||

मान(ण)कंस्वादुशीतंचगुरुचापिप्रकीर्तितम् |

स्थूलकन्दस्तुनात्युष्णःसूरणोगुदकीलहा ||३०७||

कुमुदोत्पलपद्मानांकन्दामारुतकोपनाः |

कषायाःपित्तशमनाविपाकेमधुराहिमाः ||३०८||

वाराहकन्दःश्लेष्मघ्नःकटुकोरसपाकतः |

मेहकुष्ठकृमिहरोबल्योवृष्योरसायनः ||३०९||

तालनारिकेलखर्जूरप्रभृतीनांमस्तकमज्जानः ||३१०||

स्वादुपाकरसानाहूरक्तपित्तहरांस्तथा |

शुक्रलाननिलघ्नांश्चकफवृद्धिकरानपि ||३११||

बालंह्यनार्तवंजीर्णंव्याधितंक्रिमिभक्षितम् |

कन्दंविवर्जयेत्सर्वंयोवासम्यङ्नरोहति ||३१२||

अथलवणवर्गः |

अथलवणानि- सैन्धवसामुद्रविडसौवर्चलरोमकौद्भिदप्रभृतीनियथोत्तरमुष्णानिवातहराणिकफपित्तकराणिकटुपाकीनियथापूर्वंस्निग्धानिस्वादूनिसृष्टमूत्रपुरीषाणिचेति ||३१३||

चक्षुष्यंसैन्धवंहृद्यंरुच्यंलघ्वग्निदीपनम् |

स्निग्धंसमधुरंवृष्यंशीतंदोषघ्नमुत्तमम् ||३१४||

सामुद्रंमधुरंपाकेनात्युष्णमविदाहिच |

भेदनस्निग्धमीषच्चशूलघ्नंनातिपित्तलम् ||३१५||

सक्षारंदीपनंसूक्ष्मंशूलहृद्रोगनाशनम्|

रोचनंतीक्ष्णमुष्णंचविडंवातानुलोमनम् ||३१६||

लघुसौवर्चलंपाकेवीर्योष्णंविशदंकटु |

गुल्मशूलविबन्धघ्नंहृद्यंसुरभिरोचनम् ||३१७||

रोमकंतीक्ष्णमत्युष्णंव्यवायिकटुपाकिच |

वातघ्नंलघुविस्यन्दिसूक्ष्मंविड्भेदिमूत्रलम् ||३१८||

लघुतीक्ष्णोष्णमुत्क्लेदिसूक्ष्मंवातानुलोमनम् |

सतिक्तंकटुसक्षारंविद्याल्लवणमौद्भिदम् ||३१९||

कफवातक्रिमिघ्नंचलेखनंपित्तकोपनम् |

दीपनंपाचनंभेदिलवणंगुटिकाह्वयम् ||३२०||

ऊषसूतंवालुकैलंशैलमूलाकरोद्भवम्|

लवणंकटुकंछेदिविहितंकटुचोच्यते ||३२१||

यवक्षारस्वर्जिकाक्षारोषक्षारपाकिमटङ्कणक्षारप्रभृतयः |

गुल्मार्शोग्रहणीदोषशर्कराश्मरिनाशनाः|

क्षारास्तुपाचनाःसर्वेरक्तपित्तकराःस्मृताःII३२२ II

ज्ञेयौवह्निसमौक्षारौस्वर्जिकायावशूकजौ |

शुक्रश्लेष्मविबन्धार्शोगुल्मप्लीहविनाशनौ ||३२३||

उष्णोऽनिलघ्नःप्रक्लेदीचोषक्षारोबलापहः |

मेदोघ्नःपाकिमःक्षारस्तेषांबस्तिविशोधनः ||३२४||

विरूक्षणोऽनिलकरःश्लेष्मघ्नःपित्तदूषणः |

अग्निदीप्तिकरस्तीक्ष्णष्टङ्कणःक्षारउच्यते ||३२५||

सुवर्णंस्वादुहृद्यंचबृंहणीयंरसायनम् |

दोषत्रयापहंशीतंचक्षुष्यंविषसूदनम् ||३२६||

रूप्यमम्लंसरंशीतंसस्नेहंपित्तवातनुत् |

ताम्रंकषायंमधुरंलेखनंशीतलंसरम् ||३२७||

सतिक्तंलेखनंकांस्यंचक्षुष्यंकफवातजित् |

वातकृच्छीतलंलोहंतृष्णापित्तकफापहम् ||३२८||

कटुक्रिमिघ्नंलवणंत्रपुसीसंचलेखनम् |

मुक्ताविद्रुमवज्रेन्द्रवैदूर्यस्फटिकादयः ||३२९||

चक्षुष्यामणयःशीतालेखनाविषसूदनाः |

पवित्राधारणीयाश्चपाप्मालक्ष्मीमलापहाः ||३३०||

इतिलवणादिवर्गः |

धान्येषुमांसेषुफलेषुचैवशाकेषुचानुक्तमिहाप्रमेयात् |

आस्वादतोभूतगुणैश्चमत्वातदादिशेद्द्रव्यमनल्पबुद्धिः ||३३१||

षष्टिकायवगोधूमालोहितायेचशालयः |

मुद्गाढकीमसूराश्चधान्येषुप्रवराःस्मृताः ||३३२||

लावतित्तिरिसारङ्गकुरङ्गैणकपिञ्जलाः |

मयूरवर्मिकूर्माश्चश्रेष्ठामांसगणेष्विह ||३३३||

दाडिमामलकंद्राक्षाखर्जूरंसपरूषकम् |

राजादनंमातुलुङ्गंफलवर्गेप्रशस्यते ||३३४||

सतीनोवास्तुकश्चुच्चूचिल्लीमूलकपोतिकाः |

मण्डूकपर्णीजीवन्तीशाकवर्गेप्रशस्यते ||३३५||

गव्यंक्षीरंघृतंश्रेष्ठं, सैन्धवंलवणेषुच |

धात्रीदाडिममम्लेषु, पिप्पलीनागरंकटौ ||३३६||

तिक्तेपटोलवार्ताकं, मधुरेघृतमुच्यते |

क्षौद्रं, पूगफलंश्रेष्ठंकषायेसपरूषकम् ||३३७||

शर्करेक्षुविकारेषु, पानेमध्वासवौतथा |

परिसंवत्सरंधान्यं, मांसंवयसिमध्यमे ||३३८||

अपर्युषितमन्नंतुसंस्कृतंमात्रयाशुभम् |

फलंपर्यागतं, शाकमशुष्कंतरुणंनवम् ||३३९||

अथकृतान्नवर्गः |

अतःपरंप्रवक्ष्यामिकृतान्नगुणविस्तरम् |

लाजमण्डोविशुद्धानांपथ्यःपाचनदीपनः ||३४०||

वातानुलोमनोहृद्यःपिप्पलीनागरायुतः |

स्वेदाग्निजननीलघ्वीदीपनीबस्तिशोधनी||३४१||

क्षुत्तृट्श्रमग्लानिहरीपेयावातानुलोमनी |

विलेपीतर्पणीहृद्याग्राहिणीबलवर्धनी ||३४२||

पथ्यास्यादुरसालघ्वीदीपनीक्षुत्तृषापहा |

हृद्यासन्तर्पणीवृष्याबृंहणीबलवर्धनी ||३४३||

शाकमांसफलैर्युक्ताविलेप्यम्लाचदुर्जरा |

सिक्थैर्विरहितोमण्डःपेयासिक्थसमन्विता ||३४४||

विलेपीबहुसिक्थास्याद्यवागूर्विरलद्रवा |

विष्टम्भीपायसोबल्योमेदःकफकरोगुरुः ||३४५||

कफपित्तकरीबल्याकृशराऽनिलनाशनी |

धौतस्तुविमलःशुद्धोमनोज्ञःसुरभिःसमः ||३४६||

स्विन्नःसुप्रस्रुतस्तूष्णोविशदस्त्वोदनोलघुः |

अधौतोऽप्रस्रुतोऽस्विन्नःशीतश्चाप्योदनोगुरुः ||३४७||

लघुःसुगन्धिःकफहाविज्ञेयोभृष्टतण्डुलः |

स्नेहैर्मांसैःफलैःकन्दैर्विदलाम्लैश्चसंयुताः ||३४८||

गुरवोबृंहणाबल्यायेचक्षीरोपसाधिताः |३४९|

सुस्विन्नोनिस्तुषोभृष्टईषत्सूपोलघुर्हितः ||३४९||

स्विन्नंनिष्पीडितंशाकंहितंस्यात्स्नेहसंस्कृतम् |

अस्विन्नंस्नेहरहितमपीडितमतोऽन्यथा ||३५०||

मांसंस्वभावतोवृष्यंस्नेहनंबलवर्धनम्|

स्नेहगोरसधान्याम्लफलाम्लकटुकैःसह ||३५१||

सिद्धंमांसंहितंबल्यंरोचनंबृंहणंगुरु |

तदेवगोरसादानंसुरभिद्रव्यसंस्कृतम् ||३५२||

विद्यात्पित्तकफोद्रेकीबलमांसाग्निवर्धनम् |

परिशुष्कंस्थिरंस्निग्धंहर्षणंप्रीणनंगुरु ||३५३||

रोचनंबलमेधाग्निमांसौजःशुक्रवर्धनम् |

तदेवोल्लुप्तपिष्टत्वादुल्लुप्तमितिपाचकाः ||३५४||

परिशुष्कगुणैर्युक्तंवह्नौपक्वमतोलघु |

तदेवशूलिकाप्रोतमङ्गारपरिपाचितम् ||३५५||

ज्ञेयंगुरुतरंकिञ्चित्प्रदिग्धंगुरुपाकतः |

उल्लुप्तंभर्जितंपिष्टंप्रतप्तंकन्दुपाचितम् ||३५६||

परिशुष्कंप्रदिग्धंचशूल्यंयच्चान्यदीदृशम् |

मांसंयत्तैलसिद्धंतद्वीर्योष्णंपित्तकृद्गुरु ||३५७||

लघ्वग्निदीपनंहृद्यंरुच्यंदृष्टिप्रसादनम् |

अनुष्णवीर्यंपित्तघ्नंमनोज्ञंघृतसाधितम् ||३५८||

प्रीणनःप्राणजननःश्वासकासक्षयापहः |

वातपित्तश्रमहरोहृद्योमांसरसःस्मृतः ||३५९||

स्मृत्योजःस्वरहीनानांज्वरक्षीणक्षतोरसाम् |

भग्नविश्लिष्टसन्धीनांकृशानामल्परेतसाम् ||३६०||

आप्यायनःसंहननःशुक्रदोबलवर्धनः |

सदाडिमयुतोवृष्यःसंस्कृतोदोषनाशनः ||३६१||

प्रीणनःसर्वभूतानांविशेषान्मुखशोषिणाम् |

क्षुत्तृष्णापहरःश्रेष्ठःसौरावःस्वादुशीतलः ||३६२||

यन्मांसमुद्धृतरसंनतत्पुष्टिबलावहम् |

विष्टम्भिदुर्जरंरूक्षंविरसंमारुतावहम् ||३६३||

दीप्ताग्नीनांसदापथ्यःखानिष्कस्तुपरंगुरुः |

मांसंनिरस्थिसुस्विन्नंपुनर्दृषदिपेषितम् ||३६४||

पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम् |

ऐकध्यंपाचयेत्सम्यग्वेसवारइतिस्मृतः ||३६५||

वेसवारोगुरुःस्निग्धोबल्योवातरुजापहः |

कफघ्नोदीपनोहृद्यःशुद्धानांव्रणिनामपि ||३६६||

ज्ञेयःपथ्यतमश्चैवमुद्गयूषःकृताकृतः |

सतुदाडिममृद्वीकायुक्तःस्याद्रागषाडवः ||३६७||

रुचिष्योलघुपाकश्चदोषाणांचाविरोधकृत् |

मसूरमुद्गगोधूमकुलत्थलवणैःकृतः ||३६८||

कफपित्ताविरोधीस्याद्वातव्याधौचशस्यते |

मृद्वीकादाडिमैर्युक्तःसचाप्युक्तोऽनिलार्दिते ||३६९||

रोचनोदीपनोहृद्योलघुपाक्युपदिश्यते |

पटोलनिम्बयूषौतुकफमेदोविशोषिणौ ||३७०||

पित्तघ्नौदीपनौहृद्यौकृमिकुष्ठज्वरापहौ |

श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ||३७१||

हन्तिमूलकयूषस्तुकफमेदोगलग्रहान् |

कुलत्थयूषोऽनिलहाश्वासपीनसनाशनः||३७२||

तूणीप्रतूणीकासाश्मगुल्ममेदःकफावहः |

दाडिमामलकैर्यूषोहृद्यःसंशमनोलघुः ||३७३||

प्राणाग्निजननोमूर्च्छामेदोघ्नोवातपित्तजित् |

मुद्गामलकयूषस्तुग्राहीपित्तकफेहितः ||३७४||

यवकोलकुलत्थानांयूषःकण्ठ्योऽनिलापहः |

सर्वधान्यकृतस्तद्वद्बृंहणःप्राणवर्धनः ||३७५||

खडकाम्बलिकौहृद्यौतथावातकफेहितौ |

बल्यःकफानिलौहन्तिदाडिमाम्लोऽग्निदीपनः||३७६||

दध्यम्लःकफकृद्बल्यःस्निग्धोवातहरोगुरुः |

तक्राम्लःपित्तकृत्प्रोक्तोविषरक्तप्रदूषणः ||३७७||

खडाःखडयवाग्वश्चषा(खा)डवाःपानकानिच |

एवमादीनिचान्यानिक्रियन्तेवैद्यवाक्यतः ||३७८||

अस्नेहलवणंसर्वमकृतंकटुकैर्विना |

विज्ञेयंलवणस्नेहकटुकैःसंयुतंकृतम् ||३७९||

अथगोरसधान्याम्लफलाम्लैरम्लितंचयत् |

यथोत्तरंलघुहितंसंस्कृतासंस्कृतंरसम् ||३८०||

दधिमस्त्वम्लसिद्धस्तुयूषःकाम्बलिकःस्मृतः |

तिलपिण्याकविकृतिःशुष्कशाकंविरूढकम् ||३८१||

सिण्डाकीचगुरूणिस्युःकफपित्तकराणिच |

तद्वच्चवटकान्याहुर्विदाहीनिगुरूणिच ||३८२||

लघवोबृंहणावृष्याहृद्यारोचनदीपनाः |

तृष्णामूर्च्छाभ्रमच्छर्दिश्रमघ्नारागषाडवाः ||३८३||

रसालाबृंहणीबल्यास्निग्धावृष्याचरोचनी |

स्नेहनंगुडसंयुक्तंहृद्यंदध्यनिलापहम् ||३८४||

सक्तवःसर्पिषाऽभ्यक्ताःशीतवारिपरिप्लुताः |

नातिद्रवानातिसान्द्रामन्थइत्युपदिश्यते ||३८५||

मन्थःसद्योबलकरःपिपासाश्रमनाशनः |

साम्लस्नेहगुडोमूत्रकृच्छ्रोदावर्तनाशनः ||३८६||

शर्करेक्षुरसद्राक्षायुक्तःपित्तविकारनुत् |

द्राक्षामधूदकयुतःकफरोगनिबर्हणः ||३८७||

वर्गत्रयेणोपहितोमलदोषानुलोमनः |

गौडमम्लमनम्लंवापानकंगुरुमूत्रलम् ||३८८||

तदेवखण्डमृद्वीकाशर्करासहितंपुनः |

साम्लंसतीक्ष्णंसहिमंपानकंस्यान्निरत्ययम् ||३८९||

मार्द्वीकंतुश्रमहरंमूर्च्छादाहतृषापहम् |

परूषकाणांकोलानांहृद्यंविष्टम्भिपानकम् ||३९०||

द्रव्यसंयोगसंस्कारंज्ञात्वामात्रांचसर्वतः |

पानकानांयथायोगंगुरुलाघवमादिशेत् ||३९१||

इतिकृतान्नवर्गः |

अथभक्ष्यवर्गः |

वक्ष्याम्यतःपरंभक्ष्यान्रसवीर्यविपाकतः |

भक्ष्याःक्षीरकृताबल्यावृष्याहृद्याःसुगन्धिनः ||३९२||

अदाहिनःपुष्टिकरादीपनाःपित्तनाशनाः |

तेषांप्राणकराहृद्याघृतपूराःकफावहाः ||३९३||

वातपित्तहरावृष्यागुरवोरक्तमांसलाः |

बृंहणागौडिकाभक्ष्यागुरवोऽनिलनाशनाः ||३९४||

अदाहिनःपित्तहराःशुक्रलाःकफवर्धनाः |

मधुशीर्षकसंयावाःपूपायेतेविशेषतः ||३९५||

गुरवोबृंहणाश्चैवमोदकास्तुसुदुर्जराः |

रोचनोदीपनःस्वर्यःपित्तघ्नःपवनापहः ||३९६||

गुरुर्मृष्टतरमश्चैवसट्टकःप्राणवर्धनः |

हृद्यःसुगन्धिर्मधुरःस्निग्धःकफकरोगुरुः ||३९७||

वातापहस्तृप्तिकरोबल्योविष्यन्दउच्यते |

बृंहणावातपित्तघ्नाभक्ष्याबल्यास्तुसामिताः ||३९८||

हृद्याःपथ्यतमास्तेषांलघवःफेनकादयः |

मुद्गादिवेसवाराणांपूर्णाविष्टम्भिनोमताः ||३९९||

वेसवारैःसपिशितैःसम्पूर्णागुरुबृंहणाः |

पाललाःश्लेष्मजननाः, शष्कुल्यःकफपित्तलाः ||४००||

वीर्योष्णाःपैष्टिकाभक्ष्याःकफपित्तप्रकोपणाः |

विदाहिनोनातिबलागुरवश्चविशेषतः ||४०१||

वैदलालघवोभक्ष्याःकषायाःसृष्टमारुताः |

विष्टम्भिनःपित्तसमाःश्लेष्मघ्नाभिन्नवर्चसः ||४०२||

बल्यावृष्यास्तुगुरवोविज्ञेयामाषसाधिताः |

कूर्चिकाविकृताभक्ष्यागुरवोनातिपित्तलाः ||४०३||

विरूढककृताभक्ष्यागुरवोऽनिलपित्तलाः |

विदाहोत्क्लेशजननारूक्षादृष्टिप्रदूषणाः ||४०४||

हृद्याःसुगन्धिनोभक्ष्यालघवोघृतपाचिताः |

वातपित्तहराबल्यावर्णदृष्टिप्रसादनाः ||४०५||

विदाहिनस्तैलकृतागुरवःकटुपाकिनः |

उष्णामारुतदृष्टिघ्नाःपित्तलास्त्वक्प्रदूषणाः ||४०६||

फलमांसेक्षुविकृतितिलमाषोपसंस्कृताः |

भक्ष्याबल्याश्चगुरवोबृंहणाहृदयप्रियाः ||४०७||

कपालाङ्गारपक्वास्तुलघवोवातकोपनाः |

सुपक्वास्तनवश्चैवभूयिष्ठंलघवोमताः ||४०८||

सकिलाटादयोभक्ष्यागुरवःकफवर्धनाः |

कुल्माषावातलारूक्षागुरवोभिन्नवर्चसः ||४०९||

उदावर्तहरोवाट्यःकासपीनसमेहनुत् |

धानोलुम्बास्तुलघवःकफमेदोविशोषणाः ||४१०||

शक्तवोबृंहणावृष्यास्तृष्णापित्तकफापहाः |

पीताःसद्योबलकराभेदिनःपवनापहाः ||४११||

गुर्वीपिण्डीखराऽत्यर्थंलघ्वीसैवविपर्ययात् |

शक्तूनामाशुजीर्येतमृदुत्वादवलेहिका ||४१२||

लाजाश्छर्द्यतिसारघ्नादीपनाःकफनाशनाः |

बल्याःकषायमधुरालघवस्तृण्मलापहाः ||४१३||

तृट्छर्दिदाहघर्मार्तिनुदस्तत्सक्तवोमताः |

रक्तपित्तहराश्चैवदाहज्वरविनाशनाः ||४१४||

पृथुकागुरवःस्निग्धाबृंहणाःकफवर्धनाः |

बल्याःसक्षीरभावात्तुवातघ्नाभिन्नवर्चसः ||४१५||

सन्धानकृत्पिष्टमामंतण्डुलंकृमिमेहनुत् |

सुदुर्जरःस्वादुरसोबृंहणस्तण्डुलोनवः ||४१६||

सन्धानकृन्मेहहरःपुराणस्तण्डुलःस्मृतः |

द्रव्यसंयोगसंस्कारविकारान्समवेक्ष्यच ||४१७||

यथाकारणमासाद्यभोक्तॄणांछन्दतोऽपिवा |

अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान्विनिर्दिशेत् ||४१८||

इतिभक्ष्यवर्गः |

अतःसर्वानुपानान्युपदेक्ष्यामः |

अम्लेनकेचिद्विहतामनुष्यामाधुर्ययोगेप्रणयीभवन्ति |

तथाम्लयोगेमधुरेणतृप्तास्तेषांयथेष्टंप्रवदन्तिपथ्यम् ||४१९||

शीतोष्णतोयासवमद्ययूषफलाम्लधान्याम्लपयोरसानाम् |

यस्यानुपानंतुहितंभवेद्यत्तस्मैप्रदेयंत्विहमात्रयातत् ||४२०||

व्याधिंचकालंचविभाव्यधीरैर्द्रव्याणिभोज्यानिचतानितानि |

सर्वानुपानेषुवरंवदन्तिमैध्यंयदम्भःशुचिभाजनस्थम् ||४२१||

लोकस्यजन्मप्रभृतिप्रशस्तंतोयात्मकाःसर्वरसाश्चदृष्टाः |

सङ्क्षेपएषोऽभिहितोऽनुपानेष्वतःपरंविस्तरतोऽभिधास्ये ||४२२||

उष्णोदकानुपानंतुस्नेहानामथशस्यते |

ऋतेभल्लातकस्नेहात्स्नेहात्तौवरकात्तथा ||४२३||

अनुपानंवदन्त्येकेतैलेयूषाम्लकाञ्जिकम् |

शीतोदकंमाक्षिकस्यपिष्टान्नस्यचसर्वशः ||४२४||

दधिपायसमद्यार्तिविषजुष्टेतथैवच |

केचित्पिष्टमयस्याहुरनुपानंसुखोदकम् ||४२५||

पयोमांसरसोवाऽपिशालिमुद्गादिभोजिनाम् |

युद्धाध्वातपसन्तापविषमद्यरुजासुच ||४२६||

माषादेरनुपानंतुधान्याम्लंदधिमस्तुवा |

मद्यंमद्योचितानांतुसर्वमांसेषुपूजितम् ||४२७||

अमद्यपानामुदकंफलाम्लंवाप्रशस्यते |

क्षीरंघर्माध्वभाष्यस्त्रीक्लान्तानाममृतोपमम् ||४२८||

सुराकृशानांस्थूलानामनुपानंमधूदकम् |

निरामयानांचित्रंतुभुक्तमध्येप्रकीर्तितम् ||४२९||

स्निग्धोष्णंमारुतेपथ्यं, कफेरूक्षोष्णमिष्यते |

अनुपानंहितंचापिपित्तेमधुरशीतलम् ||४३०||

हितंशोणितपित्तिभ्यःक्षीरमिक्षुरसस्तथा |

अर्कशेलुशिरीषाणामासवास्तुविषार्तिषु ||४३१||

अतःपरंतुवर्गाणामनुपानंपृथक्पृथक् |

प्रवक्ष्याम्यनुपूर्वेणसर्वेषामेवमेशृणु ||४३२||

तत्रपूर्वशस्यजातानांबदराम्लं, वैदलानांधान्याम्लं, जङ्घालानांधन्वजानांचपिप्पल्यासवः, विष्किराणांकोलबदरासवः, प्रतुदानांक्षीरवृक्षासवः, गुहाशयानांखर्जूरनालिकेरासवः, प्रसहानामश्वगन्धासवः, पर्णमृगाणांकृष्णगन्धासवः, बिलेशयानांफलासवः, एकशफानांत्रिफलासवः, अनेकशफानांखदिरासवः, कूलचराणांशृङ्गाटककशेरुकासवः, कोशवासिनांपादिनांचसएव, प्लवानामिक्षुरसासवः, नादेयानांमत्स्यानांमृणालासवः, सामुद्राणांमातुलुङ्गासवः, अम्लानांफलानांपद्मोत्पलकन्दासवः, कषायाणांदाडिमवेत्रासवः, मधुराणांत्रिकटुकयुक्तःखण्डासवः, तालफलादीनांधान्याम्लं, कटुकानांदूर्वानलवेत्रासवः, पिप्पल्यादीनांश्वदंष्ट्रावसुकासवः, कूष्माण्डादीनांदार्वीकरीरासवः, चुच्चुप्रभृतीनांलोध्रासवः, जीवन्त्यादीनांत्रिफलासवः, कुसुम्भशाकस्यसएव, मण्डूकपर्ण्यादीनांमहापञ्चमूलासवः, तालमस्तकादीनामम्लफलासवः, सैन्धवादीनांसुरासवआरनालंच, तोयंवासर्वत्रेति ||४३३||

भवन्तिचात्र-

सर्वेषामनुपानानांमाहेन्द्रंतोयमुत्तमम् |

सात्म्यंवायस्ययत्तोयंतत्तस्मैहितमुच्यते ||४३४||

उष्णंवातेकफेतोयंपित्तेरक्तेचशीतलम् |

दोषवद्गुरुवाभुक्तमतिमात्रमथापिवा ||४३५||

यथोक्तेनानुपानेनसुखमन्नंप्रजीर्यति |

रोचनंबृंहणंवृष्यंदोषसङ्घातभेदनम् ||४३६||

तर्पणंमार्दवकरंश्रमक्लमहरंसुखम् |

दीपनंदोषशमनंपिपासाच्छेदनंपरम् ||४३७||

बल्यंवर्णकरंसम्यगनुपानंसदोच्यते |

तदादौकर्शयेत्पीतंस्थापयेन्मध्यसेवितम् ||४३८||

पश्चात्पीतंबृंहयतितस्माद्वीक्ष्यप्रयोजयेत् |

स्थिरतांगतमल्किन्नमन्नमद्रवपायिनाम् ||४३९||

भवत्याबाधजननमनुपानमतःपिबेत् |

नपिबेच्छ्वासकासार्तोरोगेचाप्यूर्ध्वजत्रुगे ||४४०||

क्षतोरस्कःप्रसेकीचयस्यचोपहतःस्वरः |

पीत्वाऽध्वभाष्याध्ययनगेयस्वप्नान्नशीलयेत् ||४४१||

प्रदूष्यामाशयंतद्धितस्यकण्ठोरसिस्थितम् |

स्यन्दाग्निसादच्छर्द्यादीनामयाञ्जनयेद्बहून् ||४४२||

गुरुलाघवचिन्तेयंस्वभावंनातिवर्तते |

तथासंस्कारमात्रान्नकालांश्चाप्युत्तरोत्तरम् ||४४३||

मन्दकर्मानलारोग्याःसुकुमाराःसुखोचिताः |

जन्तवोयेतुतेषांहिचिन्तेयंपरिकीर्त्यते ||४४४||

बलिनःखरभक्ष्यायेयेचदीप्ताग्नयोनराः |

कर्मनित्याश्चयेतेषांनावश्यंपरिकीर्त्यते ||४४५||

इत्यनुपानवर्गः |

अथाहारविधिंवत्स! विस्तरेणाखिलंशृणु |

आप्तास्थितमसङ्कीर्णंशुचिकार्यंमहानसम् ||४४६||

तत्राप्तैर्गुणसम्पन्नंभक्ष्यमन्नंसुसंस्कृतम् |

शुचौदेशेसुसङ्गुप्तंसमुपस्थापयेद्भिषक् ||४४७||

विषघ्नैरगदैःस्पृष्टंप्रोक्षितंव्यजनोदकैः |

सिद्धैर्मन्त्रैर्हतविषंसिद्धमन्नंनिवेदयेत् ||४४८||

वक्ष्याम्यतःपरंकृत्स्नामाहारस्योपकल्पनाम् |

घृतंकार्ष्णायसेदेयं, पेयादेयातुराजते ||४४९||

फलानिसर्वभक्ष्यांश्चप्रदद्याद्वैदलेषुतु |

परिशुष्कप्रदिग्धानिसौवर्णेषुप्रकल्पयेत् ||४५०||

प्रद्रवाणिरसांश्चैवंराजतेषूपहारयेत् |

कट्वराणिखडांश्चैवसर्वाञ्छैलेषुदापयेत् ||४५१||

दद्यात्ताम्रमयेपात्रेसुशीतंसुशृतंपयः |

पानीयं, पानकंमद्यंमृन्मयेषुप्रदापयेत् ||४५२||

काचस्फटिकपात्रेषुशीतलेषुशुभेषुच |

दद्याद्वैदूर्यचित्रेषुरागषाडवसट्टकान् ||४५३||

पुरस्ताद्विमलेपात्रेसुविस्तीर्णेमनोरमे |

सूदःसूपौदनंदद्यात्प्रदेहांश्चसुसंस्कृतान् ||४५४||

फलानिसर्वभक्ष्यांश्चपरिशुष्काणियानिच |

तानिदक्षिणपार्श्वेतुभुञ्जानस्योपकल्पयेत् ||४५५||

प्रद्रवाणिरसांश्चैवपानीयंपानकंपयः |

खडान्यूषांश्चपेयांश्चसव्येपार्श्वेप्रदापयेत् ||४५६||

सर्वान्गुडविकारांश्चरागषाडवसट्टकान् |

पुरस्तात्स्थापयेत्प्राज्ञोद्वयोरपिचमध्यतः ||४५७||

एवंविज्ञायमतिमान्भोजनस्योपकल्पनाम् |

भोक्तारंविजनेरम्येनिःसम्पातेशुभेशुचौ ||४५८||

सुगन्धपुष्परचितेसमेदेशेचभोजयेत् |

विशिष्टमिष्टसंस्कारैःपथ्यैरिष्टैरसादिभिः ||४५९||

मनोज्ञंशुचिनात्युष्णंप्रत्यग्रमशनंहितम् |

पूर्वंमधुरमश्नीयान्मध्येऽम्ललवणौरसौ ||४६०||

पश्चाच्छेषान्रसान्वैद्योभोजनेष्ववचारयेत् |

आदौफलानिभुञ्जीतदाडिमादीनिबुद्धिमान् ||४६१||

ततःपेयांस्ततोभोज्यान्भक्ष्यांश्चित्रांस्ततःपरम् |

घनंपूर्वंसमश्नीयात्, केचिदाहुर्विपर्ययम् ||४६२||

आदावन्तेचमध्येचभोजनस्यतुशस्यते |

निरत्ययंदोषहरंफलेष्वामलकंनृणाम् ||४६३||

मृणालबिसशालूककन्देक्षुप्रभृतीनिच |

पूर्वंयोज्यानिभिषजानतुभुक्तेकदाचन ||४६४||

सुखमुच्चैःसमासीनःसमदेहोऽन्नतत्परः |

कालेसात्म्यंलघुस्निग्धमुष्णंक्षिप्रंद्रवोत्तरम् ||४६५||

बुभुक्षितोऽन्नमश्नीयान्मात्रावद्विदितागमः |

कालेप्रीणयतेभुक्तंसात्म्यमन्नंनबाधते ||४६६||

लघुशीघ्रंव्रजेत्पाकंस्निग्धोष्णंबलवह्निदम् |

क्षिप्रंभुक्तंसमंपाकंयात्यदोषंद्रवोत्तरम् ||४६७||

सुखंजीर्यतिमात्रावद्धातुसाम्यंकरोतिच |

अतीवायतयामास्तुक्षपायेष्वृतुषुस्मृताः ||४६८||

तेषुतत्प्रत्यनीकाढ्यंभुञ्जीतप्रातरेवतु |

येषुचापिभवेयुश्चदिवसाभृशमायताः ||४६९||

तेषुतत्कालविहितमपराह्णेप्रशस्यते |

रजन्योदिवसाश्चैवयेषुचापिसमाःस्मृताः ||४७०||

कृत्वासममहोरात्रंतेषुभुञ्जीतभोजनम् |

नाप्राप्तातीतकालंवाहीनाधिकमथापिवा ||४७१||

अप्राप्तकालंभुञ्जानःशरीरेह्यलघौनरः |

तांस्तान्व्याधीनवाप्नोतिमरणंवानियच्छति ||४७२||

अतीतकालंभुञ्जानोवायुनोपहतेऽनले |

कृच्छ्राद्विपच्यतेभुक्तंद्वितीयंचनकाङ्क्षति ||४७३||

हीनमात्रमसन्तोषंकरोतिचबलक्षयम् |

आलस्यगौरवाटोपसादांश्चकुरुतेऽधिकम् ||४७४||

तस्मात्सुसंस्कृतंयुक्त्यादोषैरेतैर्विवर्जितम् |

यथोक्तगुणसम्पन्नमुपसेवेतभोजनम् ||४७५||

विभज्यदोषकालादीन्कालयोरुभयोरपि |

अचोक्षंदुष्टमुत्सृष्टंपाषाणतृणलोष्टवत् ||४७६||

द्विष्टंव्युषितमस्वादुपूतिचान्नंविवर्जयेत् |

चिरसिद्धंस्थिरंशीतमन्नमुष्णीकृतंपुनः ||४७७||

अशान्तमुपदग्धंचतथास्वादुनलक्ष्यते |

यद्यत्स्वादुतरंतत्तद्विदध्यादुत्तरोत्तरम् ||४७८||

प्रक्षालयेदद्भिरास्यंभुञ्जानस्यमुहुर्मुहुः |

विशुद्धेरसनेतस्यरोचतेऽन्नमपूर्ववत् ||४७९||

स्वादुनातस्यरसनंप्रथमेनातितर्पितम् |

नतथास्वादयेदन्यत्तस्मात्प्रक्षाल्यमन्तरा ||४८०||

सौमनस्यंबलंपुष्टिमुत्साहंहर्षणंसुखम् |

स्वादुसञ्जनयत्यन्नमस्वादुचविपर्ययम् ||४८१||

भुक्त्वाऽपियत्प्रार्थयतेभूयस्तत्स्वादुभोजनम् |

अशितश्चोदकंयुक्त्याभुञ्जानश्चान्तरापिबेत् ||४८२||

दन्तान्तरगतंचान्नंशोधनेनाहरेच्छनैः |

कुर्यादनिर्हृतंतद्धिमुखस्यानिष्टगन्धताम् ||४८३||

जीर्णेऽन्नेवर्धतेवायुर्विदग्धेपित्तमेवतु |

भुक्तमात्रेकफश्चापि, तस्माद्भुक्तेरितंकफम् ||४८४||

धूमेनापोह्यहृद्यैर्वाकषायकटुतिक्तकैः |

पूगकङ्कोलकर्पूरलवङ्गसुमनःफलैः ||४८५||

फलैःकटुकषायैर्वामुखवैशद्यकारकैः |

ताम्बूलपत्रसहितैःसुगन्धैर्वाविचक्षणः ||४८६||

भुक्त्वाराजवदासीतयावदन्नक्लमोगतः |

ततःपादशतंगत्वावामपार्श्वेनसंविशेत् ||४८७||

शब्दान्रूपान्रसान्गन्धान्स्पर्शांश्चमनसःप्रियान् |

भुक्तवानुपसेवेततेनान्नंसाधुतिष्ठति ||४८८||

शब्दरूपरसागन्धाःस्पर्शाश्चापिजुगुप्सिताः |

अशुच्यन्नंतथाभुक्तमतिहास्यंचवामयेत् ||४८९||

शयनंचासनंवाऽपिनेच्छेद्वाऽपिद्रवोत्तरम् |

नाग्न्यातपौनप्लवनंनयानंनापिवाहनम् ||४९०||

नचैकरससेवायांप्रसज्येतकदाचन |

शाकावरान्नभूयिष्ठमम्लंचनसमाचरेत् ||४९१||

एकैकशःसमस्तान्वानाध्यश्नीयाद्रसान्सदा |

प्राग्भुक्तेत्वविविक्तेऽग्नौद्विरन्नंनसमाचरेत् ||४९२||

पूर्वभुक्तेविदग्धेऽन्नेभुञ्जानोहन्तिपावकम् |

मात्रागुरुंपरिहरेदाहारंद्रव्यतश्चयः ||४९३||

पिष्टान्नंनैवभुञ्जीतमात्रयावाबुभुक्षितः |

द्विगुणंचपिबेत्तोयंसुखंसम्यक्प्रजीर्यति |

पेयलेह्याद्यभक्ष्याणांगुरुविद्याद्यथोत्तरम् ||४९४||

गुरूणामर्धसौहित्यंलघूनांतृप्तिरिष्यते |

द्रवोत्तरोद्रवश्चापिनमात्रागुरुरिष्यते ||४९५||

द्रवाढ्यमपिशुष्कंतुसम्यगेवोपपद्यते |

विशुष्कमन्नमभ्यस्तंनपाकंसाधुगच्छति ||४९६||

पिण्डीकृतमसङ्क्लिन्नंविदाहमुपगच्छति |

स्रोतस्यन्नवहेपित्तंपक्तौवायस्यतिष्ठति ||४९७||

विदाहिभुक्तमन्यद्वातस्याप्यन्नंविदह्यते |

शुष्कंविरुद्धंविष्टम्भिवह्निव्यापदमावहेत् ||४९८||

आमंविदग्धंविष्टब्धंकफपित्तानिलैस्त्रिभिः |

अजीर्णंकेचिदिच्छन्तिचतुर्थंरसशेषतः ||४९९||

अत्यम्बुपानाद्विषमाशनाद्वासन्धारणात्स्वप्नविपर्ययाच्च |

कालेऽपिसात्म्यंलघुचापिभुक्तमन्नंनपाकंभजतेनरस्य ||५००||

ईर्ष्याभयक्रोधपरिक्षतेनलुब्धेनशुग्दैन्यनिपीडितेन |

प्रद्वेषयुक्तेनचसेव्यमानमन्नंनसम्यक्परिणाममेति ||५०१||

माधुर्यमन्नंगतमामसञ्ज्ञंविदग्धसञ्ज्ञंगतमम्लभावम् |

किञ्चिद्विपक्वं, भृशतोदशूलंविष्टब्धमानद्धविरुद्धवातम् ||५०२||

उद्गारशुद्धावपिभक्तकाङ्क्षानजायतेहृद्गुरुताचयस्य |

रसावशेषेणतुसप्रसेकंचतुर्थमेतत्प्रवदन्त्यजीर्णम् ||५०३||

मूर्च्छाप्रलापोवमथुःप्रसेकःसदनंभ्रमः |

उपद्रवाभवन्त्येतेमरणंचाप्यजीर्णतः ||५०४||

तत्रामेलङ्घनंकार्यं, विदग्धेवमनंहितम् |

विष्टब्धेस्वेदनंपथ्यं, रसशेषेशयीतच ||५०५||

वामयेदाशुतंतस्मादुष्णेनलवणाम्बुना |

कार्यंवाऽनशनंतावद्यावन्नप्रकृतिंभजेत् ||५०६||

लघुकायमतश्चैनंलङ्घनैःसमुपाचरेत् |

यावन्नप्रकृतिस्थःस्याद्दोषतःप्राणतस्तथा ||५०७||

हिताहितोपसंयुक्तमन्नंसमशनंस्मृतम् |

बहुस्तोकमकालेवातज्ज्ञेयंविषमाशनम् ||५०८||

अजीर्णेभुज्यतेयत्तुतदध्यशनमुच्यते |

त्रयमेतन्निहन्त्याशुबहून्व्याधीन्करोतिवा ||५०९||

अन्नंविदग्धंहिनरस्यशीघ्रंशीताम्बुनावैपरिपाकमेति |

तद्ध्यस्यशैत्येननिहन्तिपित्तमाक्लेदिभावाच्चनयत्यधस्तात् ||५१०||

विदह्यतेयस्यतुभुक्तमात्रेदह्येतहृत्कोष्ठगलंचयस्य |

द्राक्षाभयांमाक्षिकसम्प्रयुक्तांलीढ्वाऽभयांवाससुखंलभेत ||५११||

भवेदजीर्णंप्रतियस्यशङ्कास्निग्धस्यजन्तोर्बलिनोऽन्नकाले |

प्रातःसशुण्ठीमभयामशङ्कोभुञ्जीतसम्प्राश्यहितंहितार्थी ||५१२||

स्वल्पंयदादोषविबद्धमामंलीनंनतेजःपथमावृणोति |

भवत्यजीर्णेऽपितदाबुभुक्षायामन्दबुद्धिंविषवन्निहन्ति ||५१३||

अतउर्ध्वंप्रवक्ष्यामिगुणानांकर्मविस्तरम् |

कर्मभिस्त्वनुमीयन्तेनानाद्रव्याश्रयागुणाः ||५१४||

ह्लादनःस्तम्भनःशीतोमूर्च्छातृट्स्वेददाहजित् |

उष्णस्तद्विपरीतःस्यात्पाचनश्चविशेषतः ||५१५||

स्नेहमार्दवकृत्स्निग्धोबलवर्णकरस्तथा |

रूक्षस्तद्विपरीतःस्याद्विशेषात्स्तम्भनःखरः ||५१६||

पिच्छिलोजीवनोबल्यःसन्धानःश्लेष्मलोगुरुः |

विशदोविपरीतोऽस्मात्क्लेदाचूषणरोपणः ||५१७||

दाहपाककरस्तीक्ष्णःस्रावणो, मृदुरन्यथा |

सादोपलेपबलकृद्गुरुस्तर्पणबृंहणः ||५१८||

लघुस्तद्विपरीतःस्याल्लेखनोरोपणस्तथा |

दशाद्याःकर्मतःप्रोक्तास्तेषांकर्मविशेषणैः ||५१९||

दशैवान्यान्प्रवक्ष्यामिद्रवादींस्तान्निबोधमे |

द्रवःप्रक्लेदनः, सान्द्रःस्थूलःस्याद्बन्धकारकः ||५२०||

श्लक्ष्णःपिच्छिलवज्ज्ञेयःकर्कशोविशदोयथा |

सुखानुबन्धीसूक्ष्मश्चसुगन्धोरोचनोमृदुः ||५२१||

दुर्गन्धोविपरीतोऽस्माद्धृल्लासारुचिकारकः |

सरोऽनुलोमनःप्रोक्तो, मन्दोयात्राकरःस्मृतः ||५२२||

व्यवायीचाखिलंदेहंव्याप्यपाकायकल्पते |

विकासीविकसन्नेवंधातुबन्धान्विमोक्षयेत् ||५२३||

आशुकारीतथाऽऽशुत्वाद्धावत्यम्भसितैलवत् |

सूक्ष्मस्तुसौक्ष्म्यात्सूक्ष्मेषुस्रोतःस्वनुसरःस्मृतः ||५२४||

गुणाविंशतिरित्येवंयथावत्परिकीर्तिताः |

सम्प्रवक्ष्याम्यतश्चोर्ध्वमाहारगतिनिश्चयम् ||५२५||

पञ्चभूतात्मकेदेहेह्याहारःपाञ्चभौतिकः |

विपक्वःपञ्चधासम्यग्गुणान्स्वानभिवर्धयेत् ||५२६||

अविदग्धःकफं, पित्तंविदग्धः, पवनंपुनः |

सम्यग्विपक्वोनिःसारआहारःपरिबृंहयेत् ||५२७||

विण्मूत्रमाहारमलःसारःप्रागीरितोरसः |

सतुव्यानेनविक्षिप्तःसर्वान्धातून्प्रतर्पयेत् ||५२८||

कफःपित्तंमलःखेषुस्वेदःस्यान्नखरोमच |

नेत्रविट्त्वक्षुचस्नेहोधातूनांक्रमशोमलाः ||५२९||

दिवाविबुद्धेहृदयेजाग्रतःपुण्डरीकवत् |

अन्नमक्लिन्नधातुत्वादजीर्णेऽपिहितंनिशि ||५३०||

हृदिसम्मीलितेरात्रौप्रसुप्तस्यविशेषतः |

क्लिन्नविस्रस्तधातुत्वादजीर्णेनहितंदिवा ||५३१||

इमंविधिंयोऽनुमतंमहामुनेर्नृपर्षिमुख्यस्यपठेद्धियत्नतः |

सभूमिपालायविधातुमौषधंमहात्मनांचार्हतिसूरिसत्तमः ||५३२||

इतिभगवताश्रीधन्वन्तरिणोपदिष्टायांतच्छिष्येणमहर्षिणासुश्रुतेनविरचितायांसुश्रुतसंहितायांसूत्रस्थानेषट्चत्वारिंशत्तमोऽध्यायः ||४६||

इतिभगवताश्रीधन्वन्तरिणोपदिष्टायांतच्छिष्येणमहर्षिणासुश्रुतेनविरचितायांसुश्रुतसंहितायांप्रथमंसूत्रस्थानंसमाप्तम् |

Last updated on May 25th, 2021 at 04:12 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English