Skip to content

26. Aatreyabhadrakaapyeeya – Sootra – C”

चरकसंहिता

सूत्रस्थानम्‌।

षडि्ं‌वशोध्याय:।

       अथात आत्रेयभद्रकाप्यीयमध्यायं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       आत्रेयो भद्रकाप्यश्च शाकुन्तेयस्तथैव च।

       पूर्णाक्षश्चैव मौद्गल्यो हिरण्याक्षश्च कौशिक: ॥३॥

       य: कुमारशिरा नाम भरद्वाज: स चानघ:।

       श्रीमान्‌ वार्योविदश्चैव राजा मतिमतां वर: ॥४॥

       निमिश्च राजा वैदेहो बडिशश्च महामति:।

       काङ्कायनश्च बाह्लीको बाह्लीकभिषजां वर:॥५॥

       एते श्रुतवयोवृद्धा जितात्मानो महर्षय:।

       वने चैत्ररथे रम्ये समीयुर्विजिहीर्षव:॥६॥

       तेषां तत्रोपविष्टानामियमर्थवती कथा।

       बभूवार्थविदां सम्यग्रसाहारविनिश्चये ॥७॥

       एक एव रस इत्युवाच भद्रकाप्य:, यं पञ्चानामिन्द्रियार्थानामन्यतमं जिह्वावैषयिकं भावमाचक्षते कुशला:, स पुनरुदकादनन्य इति। द्वौ रसाविति शाकुन्तेयो ब्राह्मण:, छेदनीय उपशमनीयश्चेति। त्रयो रसा इति पूर्णाक्षो मौद्गल्य:, छेदनीयोपशमनीयसाधारणा इति। चत्वारो रसा इति हिरण्याक्ष: कौशिक:, स्वादुर्हितश्च स्वादुरहितश्चास्वादुर्हितश्चास्वादुरहितश्चेति। पञ्च रसा इति कुमारशिरा भरद्वाज:, भौमौदकाग्नेयवायव्यान्तरिक्षा:। षड्रसा इति वार्योविदो राजर्षि:, गुरुलघुशीतोष्णस्निग्धरूक्षा:। सप्त रसा इति निमिर्वैदेह:, मधुराम्ललवणकटुतिक्तकषायक्षारा:। अष्टौ रसा इति बडिशो धामार्गव:, मधुराम्ललवणकटुतिक्तकषायक्षाराव्यक्ता:। अपरिसंख्येया रसा इति काङ्कायनो बाह्लीकभिषग्, आश्रयगुणकर्मसंस्वादविशेषाणामपरिसंख्येयत्वात्‌ ॥८॥

      षडेव रसा इत्युवाच भगवानात्रेय: पुनर्वसु:, मधुराम्ललवणकटुतिक्तकषाया:। तेषां षण्णां रसानां योनिरुदकं, छेदनोपशमने द्वे कर्मणी, तयोर्मिश्रीभावात्‌ साधारणत्वं, स्वाद्वस्वादुता भक्ति:, हिताहितौ प्रभावौ, पञ्चमहाभूतविकारास्त्वाश्रया: प्रकृतिविकृतिविचारदेशकालवशा:, तेष्वाश्रयेषु द्रव्यसंज्ञकेषु गुणा गुरुलघुशीतोष्णस्निग्धरूक्षाद्या:; क्षरणात्‌ क्षार:, नासौ रस:, द्रव्यं तदनेकरससमुत्पन्नमनेकरसं कटुकलवणभूयिष्ठमनेकेन्द्रियार्थसमन्वितं करणाभिनिर्वृत्तम्‌; अव्यक्तीभावस्तु खलु रसानां प्रकृतौ भवत्यनुरसेऽनुरससमन्विते वा द्रव्ये; अपरिसंख्येयत्वं पुनस्तेषामाश्रयादीनां भावानां विशेषापरिसंख्येयत्वान्न युक्तम्‌, एकैकोऽपि ह्येषामाश्रयादीनां भावानां विशेषानाश्रयते विशेषापरिसंख्येयत्वात्‌, न च तस्मादन्यत्वमुपपद्यते; परस्परसंसृष्टभूयिष्ठत्वान्न चैषामभिनिर्वृत्तेर्गुणप्रकृतीनामपरिसंख्येयत्वं भवति; तस्मान्न संसृष्टानां रसानां कर्मोपदिशन्ति बुद्धिमन्त:। तच्चैव कारणमपेक्षमाणा: षण्णां रसानां परस्परेणासंसृष्टानां लक्षणपृथक्त्वमुपदेक्ष्याम: ॥९॥

       अग्रे तु तावद्‌द्रव्यभेदमभिप्रेत्य किंचिदभिधास्याम:। सर्वं द्रव्यं पाञ्चभौतिकमस्मिन्नर्थे; तच्चेतनावदचेतनं च, तस्य गुणा: शब्दादयो गुर्वादयश्च द्रवान्ता:, कर्म पञ्चविधमुक्तं वमनादि॥१०॥

       तत्र द्रव्याणि गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानि, तान्युपचयसङ्घातगौरवस्थैर्यकराणि; द्रवस्निग्धशीतमन्दमृदुपिच्छिलरसगुणबहुलान्याप्यानि, तान्युपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकराणि; उष्णतीक्ष्णसूक्ष्मलघुरूक्ष- विशदरूपगुणबहुलान्याग्नेयानि, तानि दाहपाकप्रभाप्रकाशवर्णकराणि; लघुशीतरूक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानि, तानि रौक्ष्यग्लानिविचारवैशद्यलाघवकराणि; मृदुलघुसूक्ष्मश्लक्ष्णशब्दगुणबहुलान्याकाशात्मकानि, तानि मार्दवसौषिर्यलाघवकराणि ॥११॥

       अनेनोपदेशेन नानौषधिभूतं जगति किंचिद्‌द्रव्यमुपलभ्यते तां तां युक्तिमर्थं च तं तमभिप्रेत्य॥१२॥

       न तु केवलं गुणप्रभावादेव द्रव्याणि कार्मुकाणि भवन्ति; द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावाद्‌द्रव्यगुणप्रभावाच्च तस्मिंस्तस्मिन्‌ काले तत्तदधिकरणमासाद्य तां तां च युक्तिमर्थं च तं तमभिप्रेत्य यत्‌ कुर्वन्ति, तत्‌ कर्म; येन कुर्वन्ति तद्वीर्यं; यत्र कुर्वन्ति, तदधिकरणं; यदा कुर्वन्ति, स काल:; यथा कुर्वन्ति, स उपाय:; यत्‌ साधयन्ति, तत्‌ फलम्‌॥१३॥

       भेदश्चैषां त्रिषष्टिविधविकल्पो द्रव्यदेशकालप्रभावाद्भवति, तमुपदेक्ष्याम: ॥१४॥

       स्वादुरम्लादिभिर्योगं शेषैरम्लादय: पृथक्‌।

       यान्ति पञ्चदशैतानि द्रव्याणि द्विरसानि तु॥१५॥

       पृथगम्लादियुक्तस्य योग: शेषै: पृथग्भवेत्‌।

       मधुरस्य तथाऽम्लस्य लवणस्य कटोस्तथा॥१६॥

       त्रिरसानि यथासंख्यं द्रव्याण्युक्तानि विंशति:।

       वक्ष्यन्ते तु चतुष्केण द्रव्याणि दश पञ्च च॥१७॥

       स्वाद्वम्लौ सहितौ योगं लवणाद्यै: पृथग्गतौ।

       योगं शेषै: पृथग्यातश्चतुष्करसंख्यया॥१८॥

       सहितौ स्वादुलवणौ तद्वत्‌ कट्वादिभि: पृथक्‌।

       युक्तौ शेषै: पृथग्योगं यात: स्वादूषणौ तथा ॥१९॥

       कट्वाद्यैरम्ललवणौ संयुक्तौ सहितौ पृथक्‌।

       यात: शेषै: पृथग्योगं शेषैरम्लकटू तथा॥२०॥

       युज्येते तु कषायेण सतिक्तौ लवणोषणौ।

       षट्‌ तु पञ्चरसान्याहुरेकैकस्यापवर्जनात्‌ ॥२१॥

       षट्‌ चैवैकरसानि स्युरेकं षड्रसमेव तु।

       इति त्रिषष्टिर्द्रव्याणां निर्दिष्टा रससंख्यया॥२२॥

       त्रिषष्टि: स्यात्त्वसंख्येया रसानुरसकल्पनात्‌।

       रसास्तरतमाभ्यां तां संख्यामतिपतन्ति हि॥२३॥

       संयोगा: सप्तपञ्चाशत्‌ कल्पना तु त्रिषष्टिधा।

       रसानां तत्र योग्यत्वात्‌ कल्पिता रसचिन्तकै:॥२४॥

       क्वचिदेको रस: कल्प्य: संयुक्ताश्च रसा: क्वचित्‌।

       दोषौषधादीन्‌ संचिन्त्य भिषजा सिद्धिमिच्छता॥२५॥

       द्रव्याणि द्विरसादीनि संयुक्ताश्चं रसान्‌ बुधा:।

       रसानेकैकशो वाऽपि कल्पयन्ति गदान्‌ प्रति ॥२६॥

       य: स्याद्रसविकल्पज्ञ: स्याच्च दोषविकल्पवित्‌।

       न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिषु॥२७॥

       व्यक्त: शुष्कस्य चादौ च रसो द्रव्यस्य लक्ष्यते।

       विपर्ययेणानुरसो रसो नास्तीह सप्तम:॥२८॥

       परापरत्वे युक्तिश्च संख्या संयोग एव च।

       विभागश्च पृथक्त्वं च परिमाणमथापि च॥२९॥

       सस्कारोऽभ्यास इत्येते गुणा ज्ञेया: परादय:।

       सिद्ध्युपायाश्चिकित्साया लक्षणैस्तान्‌ प्रचक्ष्महे ॥३०॥

       देशकालवयोमानपाकवीर्यरसादिषु।

       परापरत्वे, युक्तिश्च योजना या तु युज्यते ॥३१॥

       संख्या स्याद्गणितं, योग: सह संयोग उच्यते।

       द्रव्याणां द्वन्द्वसर्वैककर्मजोऽनित्य एव च ॥३२॥

       विभागस्तु विभक्ति: स्याद्वियोगो भागशो ग्रह:।

       पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता॥३३॥

       परिमाणं पुनर्मानं, संस्कार: करणं मतम्‌।

       भावाभ्यसनमभ्यास: शीलनं सततक्रिया॥३४॥

       इति स्वलक्षणैरुक्ता गुणा: सर्वे परादय:।

       चिकित्सा यैरविदितैर्न यथावत्‌ प्रवर्तते॥३५॥

       गुणा गुणाश्रया नोक्तास्तस्माद्रसगुणान्‌ भिषक्‌।

       विद्याद्‌द्रव्यगुणान्‌ कर्तुरभिप्राया: पृथग्विधा:॥३६॥

       अतश्च प्रकृतं बुद्धवा देशकालान्तराणि च ।

       तन्त्रकर्तुरभिप्रायानुपायाश्चांर्थमादिशेत्‌ ॥३७॥

       षड्‌विभक्ती: प्रवक्ष्यामि रसानामत उत्तरम्‌।

       षट्‌ पञ्चभूतप्रभवा: संख्याताश्चयथा रसा: ॥३८॥

       सौम्या: खल्वापोऽन्तरिक्षप्रभवा: प्रकृतिशीता लघ्व्यश्चाव्यक्तरसाश्च, तास्त्वन्तरिक्षाद्‌भ्रश्यमाना भ्रष्टाश्चपञ्चमहाभूतगुणसमन्विता जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति, तासु मूर्तिषु षडभिमूर्च्छन्ति रसा:॥३९॥

       तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो रस:, पृथिव्यग्निभूयिष्ठत्वादम्ल:, सलिलाग्निभूयिष्ठत्वाल्लवण:, वाय्वग्निभूयिष्ठत्वात्‌ कटुक:, वाय्वाकाशातिरिक्तत्वात्तिक्त: पवनपृथिवीव्यतिरेकात्‌ कषाय इति। एवमेषां रसानां षट्‌त्वमुपपन्नं न्यूनातिरेकविशेषान्महाभूतानां भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषा:; षडृतुकत्वाच्च कालस्योपपन्नो महाभूतानां न्यूनातिरेकविशेष: ॥४०॥

       तत्राग्निमारुतात्मका रसा: प्रायेणोर्ध्वभाज:, लाघवादुत्प्लवनत्वाच्च वायोरूर्ध्वज्वलनत्वाच्च वह्नेः, सलिलपृथिव्यात्मकास्तु प्रायेणाधोभाज:, पृथिव्यागुरुत्वान्निम्नगत्वाच्चोदकस्य, व्यामिश्रात्मका: पुनरुभयतोभाज:॥४१॥

       तेषां षण्णां रसानामेकैकस्य यथाद्रव्यं गुणकर्माण्यनुव्याख्यास्याम:॥४२॥

       तत्र, मधुरो रस: शरीरसात्म्याद्रसरुधिरमांसमेदोस्थिमज्जौज:शुक्राभिवर्धन आयुष्य: षडिन्द्रियप्रसादनो बलवर्णकर: पित्तविषमारुतघ्नस्तृष्णादाहप्रशमनस्त्वच्य: केश्य: कण्ठ्यो बल्य: प्रीणनो जीवनस्तर्पणो बृंहण: स्थैर्यकर: क्षीणक्षतसन्धानकरो घ्राणमुखकण्ठौष्ठजिह्वाप्रह्लादनो दाहमूर्च्छाप्रशमन: षट्‌पदपिपीलिकानामिष्टतम: स्निग्ध: शीतो गुरुश्च । स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमान: स्थौल्यं मार्दवमालस्यमतिस्वप्नं गौरवमनन्नाभिलाषमग्निर्दौर्बल्यमास्यकण्ठयोर्मांसाभिवृद्धिं श्वासकास- प्रतिश्यायालसकशीतज्वरानाहास्यमाधुर्यवमथुसंज्ञास्वरप्रणाशगलगण्डगण्डमालाश्लीपदगलशोफबस्तिधमनीगलोपलेपाक्ष्यामयाभिष्यन्दानित्येवंप्रभृतीन्‌ कफजान्‌ विकारानुपजनयति (१);

       अम्लो रसो भक्तं रोचयति, अग्निं दीपयति, देहं बृंहयति ऊर्जयति, मनो बोधयति, इन्द्रियाणि दृढीकरोति, बलं वर्धयति, वातमनुलोमयति, हृदयं तर्पयति, आस्यमास्रावयति, भुक्तमपकर्षयति क्लेदयति जरयति, प्रीणयति, लघुरुष्ण: स्निग्धश्च । स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो दन्तान्‌ हर्षयति, तर्षयति, संमीलयत्यक्षिणी, संवेजयति लोमानि, कफं विलापयति, पित्तमभिवर्धयति, रक्तं दूषयति, मांसं विदहति, कायं शिथिलीकरोति, क्षीणक्षतकृशदुर्बलानां श्वयथुमापादयति, अपि च क्षताभिहतदष्टदग्धभग्नशूनप्रच्युतावमूत्रितपरिसर्पितमर्दितच्छिन्नभिन्नविश्लिष्टोद्विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात्‌, परिदहति कण्ठमुरो हृदयं च (२);

       लवणो रस: पाचन: क्लेदनो दीपनयावनश्छेदनो भेदनस्तीक्ष्ण: सरो विकास्यध:स्रंस्यवकाशकरो वातहर: स्तम्भबन्धसङ्घातविधमन: सर्वरसप्रत्यनीकभूत:, आस्यमास्रावयति, कफं विष्यन्दयति, मार्गान्‌ विशोधयति, सर्वशरीरावयवान्‌ मृदूकरोति, रोचयत्याहारम्‌, आहारयोगी, नात्यर्थं गुरु: स्निग्ध उष्णश्च । स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमान: पित्तं कोपयति, रक्तं वर्धयति, तर्षयति, मूर्च्छयति, तापयति, दारयति, कुष्णाति मांसानि, प्रगालयति कुष्ठानि, विषं वर्धयति, शोफान्‌ स्फोटयति, दन्तांच्यावयति, पुंस्त्वमुपहन्ति, इन्द्रियाण्युपरुणद्धि, वलिपलितखालित्यमापादयति, अपि च लोहितपित्ताम्लपित्तवीसर्पवातरक्तविचर्चिकेन्द्रलुप्तप्रभृतीन्विकारानुपजनयति (३);

       कटुको रसो वक्त्रं शोधयति, अग्निं  दीपयति, भुक्तं शोषयति, घ्राणमास्रावयति, चक्षुर्विरेचयति, स्फुटीकरोतीन्द्रियाणि, अलसकश्वयथूपचयोदर्दाभिष्यन्दस्नेहस्वेदक्लेदमलानुपहन्ति, रोचयत्यशनं, कण्डूर्विनाशयति, व्रणानवसादयति, क्रिमीन्‌ हिनस्ति, मांसं विलिखति, शोणितसड्‌घातं भिनत्ति, बन्धांश्छिनत्ति, मार्गान्‌ विवृणोति, श्लेष्माणं शमयति, लघुरुष्णो रूक्षश्च । स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो विपाकप्रभावात्‌ पुंस्त्वमुपहन्ति, रसवीर्यप्रभावान्मोहयन्ति, ग्लापयति, सादयति, कर्शयति, मूर्च्छयति, नमयति, तमयति, भ्रमयति, कण्ठं परिदहति, शरीरतापमुपजनयति, बलं क्षिणोति, तृष्णां जनयति; अपि च वाय्वग्निगुणबाहुल्याद्‌भ्रमदवथुकम्पतोदभेदैश्चरणभुजपार्श्वपृष्ठप्रभृतिषु मारुतजान्‌ विकारानुपजनयति (४);

       तिक्तो रस: स्वयमरोचिष्णुरप्यरोचकघ्नो विषघ्न: क्रिमिघ्नो मूर्च्छादाहकण्डूकुष्ठतृष्णाप्रशमनस्त्वङ्‌मांसयो: स्थिरीकरणो ज्वरघ्नो दीपन: पाचन: स्तन्यशोधनो लेखन: क्लेदमेदोवसामज्जलसीकापूयस्वेदमूत्रपुरीषपित्तश्लेष्मोपशोषणो रूक्ष: शीतो लघुश्च । स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो रौक्ष्यात्खरविशदस्वभावाच्च रसरुधिरमांसमेदोस्थिमज्जशुक्राण्युच्छोषयति, स्रोतसां खरत्वमुपपादयति, बलमादत्ते, कर्शयति, ग्लपयति, मोहयति, भ्रमयति, वदनमुपशोषयति, अपरांश्च वातविकारानुपजनयति (५);

       कषायो रस: संशमन: संग्राही सन्धानकर: पीडनो रोपण: शोषण: स्तम्भन: श्लेष्मरक्तपित्तप्रशमन: शरीरक्लेदस्योपयोक्ता रूक्ष: शीतोऽलघुश्च । स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमान आस्यं शोषयति, हृदयं पीडयति, उदरमाध्मापयति, वाचं निगृह्णाति,

स्रोतांस्यवबध्नाति, श्यावत्वमापादयति, पुंस्त्वमुपहन्ति, विष्टभ्य जरां गच्छति, वातमूत्रपुरीषरेतांस्यवगृह्णाति, कर्शयति, ग्लपयति, तर्षयति, स्तम्भयति, खरविशदरूक्षत्वात्‌ पक्षवधग्रहापतानकार्दितप्रभृतींश्च वातविकारानुपजनयति॥४३॥

       इत्येवमेते षड्रसा: पृथक्त्वेनैकत्वेन वा मात्रश: सम्यगुपयुज्यमाना उपकाराय भवन्त्यध्यात्मलोकस्य, अपकारकरा: पुनरतोऽन्यथा भवन्त्युपयुज्यमाना:; तान्‌ विद्वानुपकारार्थमेव मात्रश: सम्यगुपयोजयेदिति॥४४॥

भवन्ति चात्र –

       शीतं वीर्येण यद्‌द्रव्यं मधुरं रसपाकयो:।

       तयोरम्लं यदुष्णं च यद्‌द्रव्यं कटुकं तयो: ॥४५॥

       तेषां रसोपदेशेन निर्देश्यो गुणसंग्रह:।

       वीर्यतोऽविपरीतानां पाकतश्चोपदेक्ष्यते॥४६॥

       यथा पयो यथा सर्पिर्यथा वा चव्यचित्रकौ।

       एवमादीनि चान्यानि निर्दिशेद्रसतो भिषक्‌॥४७॥

       मधुरं किंचिदुष्णं स्यात्‌ कषायं तिक्तमेव च।

       यथा महत्पञ्चमूलं यथाऽब्जानूपमामिषम्‌ ॥४८॥

       लवणं सैन्धवं नोष्णमम्लमामलकं तथा।

       अर्कागुरुगुडूचीनां तिक्तानामुष्णमुच्यते॥४९॥

       किंचिदम्लं हि संग्राहि किंचिदम्लं भिनत्ति च।

       यथा कपित्थं संग्राहि भेदि चामलकं तथा॥५०॥

       पिप्पली नागरं वृष्यं कटु चावृष्यमुच्यते।

       कषाय: स्तम्भन: शीत: सोऽभयायामतोऽन्यथा॥५१॥

       तस्माद्रसोपदेशेन न सर्वं द्रव्यमादिशेत्‌।

       दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्ये गुणान्तरम्‌॥५२॥

       रौक्ष्यात्‌ कषायो रूक्षाणामुत्तमो मध्यम: कटु:।

       तिक्तोऽवरस्तथोष्णानामुष्णत्वाल्लवण: पर:॥५३॥

       मध्योऽम्ल: कटुकश्चान्त्य: स्निग्धानां मधुर: पर:।

       मध्योऽम्लो लवणश्चान्त्यो रस: स्नेहान्निरुच्यते ॥५४॥

       मध्योत्कृष्टावरा: शैत्यात्‌ कषायस्वादुतिक्तका:।

       स्वादुर्गुरुत्वादधिक: कषायाल्लवणोऽवर: ॥५५॥

       अम्लात्‌ कटुस्ततस्तिक्तो लघुत्वादुत्तमोत्तम:।

       केचिल्लघूनामवरमिच्छन्ति लवणं रसम्‌॥५६॥

       गौरवे लाघवे चैवं सोऽवरस्तूभयोरपि।

       परं चातो विपाकानां लक्षणं संप्रवक्ष्यते॥५७॥

       कटुतिक्तकषायाणां विपाक: प्रायश: कटु:।

       अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा॥५८॥

       मधुरो लवणाम्लौ च स्निग्धभावात्‌ त्रयो रसा:।

       वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मता:॥५९॥

       कटुतिक्तकषायास्तु रूक्षभावात्‌ त्रयो रसा:।

       दु:खाय मोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम्‌॥६०॥

       शुक्रहा बद्धविण्मूत्रो विपाको वातल: कटु:।

       मधुर: सृष्टविण्मूत्रो विपाक: कफशुक्रल:॥६१॥

       पित्तकृत्‌ सृष्टविण्मूत्र: पाकोऽम्ल: शुक्रनाशन:।

       तेषां गुरु: स्यान्मधुर: कटुकाम्लावतोऽन्यथा ॥६२॥                               

       विपाकलक्षणस्याल्पमध्यभूयिष्ठतां प्रति।

       द्रव्याणां गुणवैशेष्यात्तत्र तत्रोपलक्षयेत्‌॥६३॥

       मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम्‌।

       वीर्यमष्टविधं केचित्‌, केचिदि्‌ द्वविधमास्थिता:॥६४॥

       शीतोष्णमिति, वीर्यं तु क्रियते येन या क्रिया।

       नावीर्यं कुरुते किंचित्‌ सर्वा वीर्यकृता क्रिया॥६५॥

       रसो निपाते द्रव्याणां, विपाक: कर्मनिष्ठया।

       वीर्यं यावदधीवासान्निपाताच्चोपलभ्यते॥६६॥

       रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते।

       विशेष: कर्मणां चैव प्रभावस्तस्य स स्मृत: ॥६७॥

       कटुक: कटुक: पाके वीर्योष्णश्चित्रको मत:।

       तद्वद्दन्ती प्रभावात्तु विरेचयति मानवम्‌ ॥६८॥

       विषं विषघ्नमुक्तं यत्‌ प्रभावस्तत्र कारणम्‌।

       ऊर्ध्वानुलोमिकं यच्च तत्‌ प्रभावप्रभावितम्‌ ॥६९॥

       मणीनां धारणीयानां कर्म यद्विविधात्मकम्‌।

       तत्‌ प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ॥७०॥

       सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृत:।

       किंचिद्रसेन कुरुते कर्म वीर्येण चापरम्‌ ॥७१॥

       द्रव्यं गुणेन पाकेन प्रभावेण च किंचन।

       रसं विपाकस्तौ वीर्यं प्रभावस्तानपोहति ॥७२॥

       बलसाम्ये रसादीनामिति नैसर्गिकं बलम्‌।

       षण्णां रसानां विज्ञानमुपदेक्ष्याम्यत: परम्‌ ॥७३॥

       स्नेहनप्रीणनाह्लादमार्दवैरुपलभ्यते।

       मुखस्थो मधुरश्चास्यं व्याप्नुवँल्लिम्पतीव च ॥७४॥

       दन्तहर्षान्मुखास्रावात्‌ स्वेदनान्मुखबोधनात्‌।

       विदाहाच्चास्यकण्ठस्य प्राश्यैवाम्लं रसं वदेत्‌ ॥७५॥

       प्रलीयन्‌ क्लेदविष्यन्दमार्दवं कुरुते मुखे।

       य: शीघ्रं लवणो ज्ञेय: स विदाहान्मुखस्य च ॥७६॥

       संवेजयेद्यो रसानां निपाते तुदतीव च।

       विदहन्मुखनासाक्षि संस्रावी स कटु: स्मृत: ॥७७॥

       प्रतिहन्ति निपाते यो रसनं स्वदते न च।

       स तिक्तो मुखवैशद्यशोषप्रह्लादकारक:॥७८॥

       वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रस:।

       बध्नातीव च य: कण्ठं कषाय: स विकास्यपि ॥७९॥

       एवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच– भगवन्‌ ! श्रुतमेतदवितथमर्थसंपद्युक्तं भगवतो यथावद्‌द्रव्यगुणकर्माधिकारे वच:, परं त्वाहारविकाराणां वैरोधिकानां लक्षणमनतिसंक्षेपेणोपदिश्यमानं शुश्रूषामह इति ॥८०

       तमुवाच भगवानात्रेय:– देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते; परस्परगुणविरुद्धानि कानिचित्‌, कानिचित्‌ संयोगात्‌, संस्कारादपराणि, देशकालमात्रादिभिश्चापराणि, तथा स्वभावादपराणि ॥८१॥

       तत्र यान्याहारमधिकृत्य भूयिष्ठमुपयुज्यन्ते तेषामेकदेशं वैरोधिकमधिकृत्योपदेक्ष्याम: – न मत्स्यान्‌ पयसा सहाभ्यवहरेत्‌, उभयं ह्येतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय च ॥८२॥

       तन्निशम्यात्रेयवचनमनु भद्रकाप्योऽग्निवेशमुवाच–सर्वानेव मत्स्यान्‌ पयसा सहाभ्यवहरेदन्यत्रैकस्माच्चिलिचिमात्‌, स पुन: शकली लोहितनयन: सर्वतो लोहितराजी रोहिताकार: प्रायो भूमौ चरति, तं चेत्‌ पयसा सहाभ्यवहरेन्नि:संशयं शेणितजानां विबन्धजानां च व्याधीनामन्यतममथवा मरणं प्राप्नुयादिति ॥८३॥

       नेति भगवानात्रेय:– सर्वानेव मत्स्यान्न पयसा सहाभ्यवहरेद्विशेषतस्तु चिलिचिमं, स हि महाभिष्यन्दित्वात्‌

स्थूललक्षणतरानेतान्‌ व्याधीनुपजनयत्यामविषमुदीरयति च। ग्राम्यानूपौदकपिशितानि च मधुतिलगुडपयोमाषमूलकबिसैर्विरूढधान्यैर्वा नैकध्यमद्यात्‌, तन्मूलं हि बाधिर्यान्ध्यवेपथुजाड्यकलमूकतामैण्मिण्यमथवा मरणमाप्नोति। न पौष्करं रोहिणीकं शाकं कपोतान्‌ वा सर्षपतैलभ्रष्टान्मधुपयोभ्यां सहाभ्यवहरेत्‌, तन्मूलं हि शोणिताभिष्यन्दधमनीप्रवि(ति)चयापस्मारशङ्खकगलगण्डरोहिणीनामन्यतमं प्राप्नोत्यथवा मरणमिति। न मूलकलशुनकृष्णगन्धार्जकसुमुखसुरसादीनि भक्षयित्वा पय: सेव्यं, कुष्ठाबाधभयात्‌। न जातुकशाकं न च निकुचं पक्वं मधुपयोभ्यां सहोपयोज्यम्‌, एतद्धि मरणायाथवा बलवर्णतेजोवीर्योपरोधायालघुव्याधये षाण्ढ्याय चेति। तदेव निकुचं पक्वं न माषसूपगुडसर्पिर्भि: सहोपयोज्यं वैरोधिकत्वात्‌। तथाऽऽम्राम्रातकमातुलुङ्गनिकुचकरमर्दमोचदन्तशठबदरकोशाम्र- भव्यजाम्बवकपित्थतिन्तिडीकपारावताक्षोडपनसनारिकेरदाडिमामलकान्येवंप्रकाराणि चान्यानि द्रव्याणि सर्वं चाम्लं द्रवमद्रवं च पयसा सह विरुद्धम्‌। तथा कङ्गुवनकमकुष्ठककुलत्थमाषनिष्पावा: पयसा सह विरुद्धा:। पद्मोत्तरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं विरुद्धं वातं चातिकोपयति। हारिद्रक: सर्षपतैलभृष्टो विरुद्ध: पित्तं चातिकोपयति। पायसो मन्थानुपानो विरुद्ध: श्लेष्माणं चातिकोपयति। उपोदिका तिलकल्कसिद्धा हेतुरतीसारस्य। बलाका वारुण्या सह कुल्माषैरपि विरुद्धा, सैव शूकरवसापरिभृष्टा सद्यो व्यापादयति। मयूरमांसमेरण्डसीसकावसक्तमेरण्डाग्निप्लुष्टमेरण्डतैलयुक्तं सद्यो व्यापादयति। हारिद्रकमांसं हारिद्रसीसकावसक्तं हारिद्राग्निप्लुष्टं सद्यो व्यापादयति; तदेव भस्मपांशुपरिध्वस्तं सक्षौद्रं सद्यो मरणाय। मत्स्यनिस्तालनसिद्धा: पिप्पल्यस्तथा काकमाची मधु च मरणाय। मधु चोष्णमुष्णार्तस्य च मधु मरणाय। मधुसर्पिषी समघृते, मधु वारि चान्तरिक्षं समधृतं, मधु पुष्करबीजं, मधु पीत्वोष्णोदकं, भल्लातकोष्णोदकं, तक्रसिद्ध: कम्पिल्लक:, पर्युषिता काकमाची, अङ्गारशूल्यो भासश्चेति विरुद्धानि। इत्येतद्यथाप्रश्नमभिनिर्दिष्टं भवतीति॥८४॥

भवन्ति चात्र श्लोका:–

       यत्‌ किञ्चिद्दोषमास्राव्य न निर्हरति कायत:।

       आहारजातं तत्‌ सर्वमहितायोपपद्यते ॥८५॥

       यच्चापि देशकालाग्निमात्रासात्म्यानिलादिभि:।

       संस्कारतो वीर्यतश्च कोष्ठावस्थाक्रमैरपि ॥८६॥

       परिहारोपचाराभ्यां पाकात्‌ संयोगतोऽपि च ।

       विरुद्धं तच्च न हितं हृत्संपद्विधिभिश्च यत्‌ ॥८७॥

       विरुद्धं देशतस्तावद्रूक्षतीक्ष्णादि धन्वनि।

       आनूपे स्निग्धशीतादि भेषजं यन्निषेव्यते ॥८८॥

       कालतोऽपि विरुद्धं यच्छीतरूक्षादिसेवनम्‌।

       शीते काले, तथोष्णे च कटुकोष्णादिसेवनम्‌ ॥८९॥

       विरुद्धमनले तद्वदन्नपानं चतुर्विधे।

       मधुसर्पि: समघृतं मात्रया तद्विरुध्यते ॥९०॥

       कटुकोष्णादिसात्म्यस्य स्वादुशीतादिसेवनम्‌।

       यत्तत्‌ सात्म्यविरुद्धं तु विरुद्धं त्वनिलादिभि: ॥९१॥

       या समानगुणाभ्यासविरुद्धान्नौषधक्रिया।

       संस्कारतो विरुद्धं तद्यद्भोज्यं विषवद्भवेत्‌ ॥९२॥

       एरण्डसीसकासक्तं शिखिमांसं यथैव हि।

       विरुद्धं वीर्यतो ज्ञेयं वीर्यत: शीतलात्मकम्‌ ॥९३॥

       तत्‌ संयोज्योष्णवीर्येण द्रव्येण सह सेव्यते।

       क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यमभेदनम्‌ ॥९४॥

       मृदुकोष्ठस्य गुरु च भेदनीयं तथा बहु।

       एतत्‌ कोष्ठविरुद्धं तु, विरुद्धं स्यादवस्थया ॥९५॥

       श्रमव्यवायव्यायामसक्तस्यानिलकोपनम्‌।

       निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम्‌ ॥९६॥

       यच्चानुत्सृज्य विण्मूत्रं भुङ्के यश्चाबुभुक्षित:।

       तच्च क्रमविरुद्धं स्याद्यच्चातिक्षुद्वशानुग: ॥९७॥

       परिहारविरुद्धं तु वराहादीन्निषेव्य यत्‌।

       सेवेतोष्णं घृतादीश्चं पीत्वा शीतं निषेवते ॥९८॥

       विरुद्धं पाकतश्चापि दुष्टदुर्दारुसाधितम्‌।

       अपक्वतण्डुलात्यर्थपक्वदग्धं च यद्भवेत्‌।

       संयोगतो विरुद्धं तद्यथाऽम्लं पयसा सह ॥९९॥

       अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते।

       संपद्विरुद्धं तद्विद्यादसंजातरसं तु यत्‌ ॥१००॥

       अतिक्रान्तरसं वाऽपि विपन्नरसमेव वा।

       ज्ञेयं विधिविरुद्धं तु भुज्यते निभृते न यत्‌।

       तदेवंविधमन्नं स्याद्विरुद्धमुपयोजितम्‌ ॥१०१॥

       षाण्ढ्यान्ध्यवीसर्पदकोदराणां

       विस्फोटकोन्मादभगन्दराणाम्‌।

       मूर्च्छामदाध्मानगलग्रहाणां

       पाण्ड्‌वामयस्यामविषस्य चैव ॥१०२॥

       किलासकुष्ठग्रहणीगदानां

       शोथाम्लपित्तज्वरपीनसानाम्‌।

       सन्तानदोषस्य तथैव मृत्योर्विरुद्धमन्नं प्रवदन्ति हेतुम्‌ ॥१०३॥

       एषां खल्वपरेषां च वैरोधिकनिमित्तानां व्याधीनामिमे भावा: प्रतिकारा भवन्ति। तद्यथा–वमनं विरेचनं च, तद्विरोधिनां च द्रव्याणां संशमनार्थमुपयोग:, तथाविधैा द्रव्यै: पूर्वमभिसंस्कार: शरीरस्येति ॥१०४॥

       भवतश्चात्र–

       विरुद्धाशनजान्‌ रोगान्‌ प्रतिहन्ति विरेचनम्‌।

       वमनं शमनं चैव पूर्वं वा हितसेवनम्‌ ॥१०५॥

       सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च।

       स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत्‌ ॥१०६॥

       तत्र श्लोका:–

       मतिरासीन्महर्षीणां या या रसविनिश्चये।

       द्रव्याणि गुणकर्मभ्यां द्रव्यसंख्या रसाश्रया ॥१०७॥

       कारणं रससंख्याया रसानुरसलक्षणम्‌।

       परादीनां गुणानां च लक्षणानि पृथक्पृथक्‌ ॥१०८॥

       पञ्चात्मकानां षट्‌त्वं च रसानां येन हेतुना।

       ऊर्ध्वानुलोमभाजश्च यद्गुणातिशयाद्रसा: ॥१०९॥

       षण्णां रसानां षट्‌त्वे च सविभक्ता विभक्तय:।  

       उद्देशश्चापवादश्च द्रव्याणां गुणकर्मणि ॥११०॥

       प्रवरावरमध्यत्वं रसानां गौरवादिषु।

       पाकप्रभावयोर्लिङ्गं वीर्यसंख्याविनिश्चय: ॥१११॥

       षण्णामास्वाद्यमानानां रसानां यत्‌ स्वलक्षणम्‌।

       यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत्‌ ॥११२॥

       वैरोधिकनिमित्तानां व्याधीनामौषधं च यत्‌।

       आत्रेयभद्रकाप्यीये तत्‌ सर्वमवदन्मुनि: ॥११३॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने अन्नपानचतुष्के आत्रेयभद्रकाप्यीयो नाम षड्‌विंशतितमोऽध्याय: ॥२६॥

Last updated on June 3rd, 2021 at 05:57 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English