Skip to content

03. Aaragvadheeya – Sootra – C

चरक संहिता

सूत्रस्थान ।

तृतीयोऽध्यायः ।

अथात आरग्वधीयमध्यायं व्याख्यास्यामः ॥१॥

 इति ह स्माह भगवानात्रेयः ॥२॥

आरग्वधः सैडगजः करञ्जो

वासा गुडूची मदनं हरिद्रे ।

श्र्याह्वः सुराह्वः खदिरो धवश्च

निम्बो विडङ्गं करवीरकत्वक्‌ ॥३॥

ग्रन्थिश्च भौर्जो लशुनः शिरीषः

सलोमशो गुग्गुलुकृष्णगन्धे ।

फणिज्झको वत्सकसप्तपर्णो

पीलूनि कुष्ठं सुमनः प्रवालाः ॥४॥

वचाहरेणुस्त्रिवृता निकुम्भो

भल्लातकं गैरिकमञ्जनं च ।

मनःशिलाले गृहधूम एला

काशीसलोध्रार्जुनमुस्तसर्जाः ॥५॥

इत्यर्धरूपैर्विहिताः षडेते

गोपित्तपीताः पुनरेव पिष्टाः

सिध्दाः परं सर्षपतैलयुक्ता-

श्चूर्णप्रदेहा भिषजा प्रयोज्याः ॥६॥

कुष्ठानि कृच्छ्राणि नवं किलासं

सुरेशलुप्तं किटिभं सदद्रु ।

भगन्दरार्शांस्यपचीं सपामां

हन्युः प्रयुक्तास्त्वचिरान्नराणाम्‌ ॥७॥

कुष्ठं हरिद्रे सुरसं पटोलं

निम्बाश्वगन्धे सुरदारुशिग्रू ।

ससर्षपं तुम्बुरुधान्यवन्यं

चण्डां च चूर्णानि समानि कुर्यात्‌ ॥८॥

तैस्तक्रपिष्टैः प्रथमं शरीरं

तैलाक्तमुद्वर्तयितुं यतेत ।

तेनास्यकण्डूः पिडकाः सकोठाः

कुष्ठानि शोफाश्च शमं व्रजन्ति ॥९॥

कुष्ठामृतासङ्गकटङ्कटेरी-

कासीसकम्पिल्लकमुस्तलोध्राः ।

सौगन्धिकं सर्जरसो विडङ्गं

मनःशिलाले करवीरकत्वक्‌ ॥१०॥

तैलाक्तगात्रस्य कृतानि चूर्णा-

न्येतानि दद्यादवचूर्णनार्थम्‌ ।

दद्रूः सकण्डूः किटिभानि पामा

विचर्चिका चैव तथैति शान्तिम्‌ ॥११॥

मनःशिलाले मरिचानि तैल-

मार्क पयः कुष्ठहरः प्रदेहः ।

तुत्थं विडङ्गं मरिचानि कुष्ठं

लोध्रं च तद्वत्‌ समनःशिलं स्यात्‌ ॥१२॥

रसाञ्जनं सप्रपुनाडबीजं

युक्तं कपित्थस्य रसेन लेपः ।

करञ्जबीजैडगजं सकुष्ठं

गोमूत्रपिष्टं च परः प्रदेहः ॥१३॥

उभे हरिद्रे कुटजस्य बीजं

करञ्जबीजं सुमनः प्रवालान्‌ ।

त्वचं समध्यां हयमारकस्य

लेपं तिलक्षारयुतं विदध्यात्‌ ॥१४॥

मनःशिला त्वक्‌ कुटजात्‌ सकुष्ठात्‌

सलोमशः सैडगजः करञ्जः ।

ग्रन्थिश्च भौर्जः करवीरमूलं

चूर्णानि साध्यानि तुषोदकेन ॥१५॥

पलाशनिर्दाहरसेन चापि

कर्षोद्धृतान्याढकसंमितेन ।

दर्वीप्रलेपं प्रवदन्ति लेप-

मेतं पर कुष्ठनिसूदनाय ॥१६॥

पर्णानि पिष्ट्वा चतुरङ्गुलस्य

तक्रेण पर्णान्यथ काकमाच्याः ।

तैलाक्तगात्रस्य नरस्य कुष्ठा-

न्युद्वर्तयेदश्वहनच्छदैश्च ॥१७॥

कोलं कुलत्थाः सुरदारुरास्ना-

माषातसीतैलफलानि कुष्ठम्‌ ।

वचा शताह्वा यवचूर्णमम्ल-

मुष्णानि वातामयिनां प्रदेहः ॥१८॥

आनूपमत्स्यामिषवेसवारै-

रुष्णैः प्रदेहः पवनापहः स्यात्‌ ।

स्नेहैश्च तुर्भिर्दशमूलमिश्रै-

र्गन्धौषधैश्चानिलहः प्रदेहः ॥१९॥

तक्रेण युक्तं यवचूर्णमुष्णं

सक्षारमर्तिं जठरे निहन्यात्‌ ।

कुष्ठं शताह्वां सवचां यवानां

चूर्णं सतैलाम्लमुशन्ति वाते ॥२०॥

उभे शताह्वे मधुकं मधूकं

बलां प्रियालं च कशेरुकं च ।

घृतं विदारीं च सितोपलां च

कुर्यात्‌ प्रदेहं पवने सरक्ते ॥२१॥

 रास्ना गुडूची मधुकं बले द्वे

सजीवकं सर्षभकं पयश्च ।

घृतं च सिद्धं मधुशेषयुक्तं

रक्तानिलार्तिं प्रणुदेत्‌ प्रदेहः॥२२॥

वाते सरक्ते सघृतं प्रदेहो

गोधूमचूर्णं छगलीपयश्च ।

नतोत्पलं चन्दनकुष्ठयुक्तं

शिरोरुजायां सघृतं प्रदेहः ॥२३॥

प्रपौण्डरीकं सुरदारु कुष्ठं

यष्ट्याह्वमेला कमलोत्पले च ।

शिरोरुजायां सघृतः प्रदेहो

लोहैरकापद्मकचोरकैश्च ॥२४॥

रास्ना हरिद्रे नलदं शताह्वे

द्वे देवदारुणि सितोपला च ।

जीवन्तिमूलं सघृतं सतैल-

मालेपनं पार्श्वरुजासू कोष्णम्‌ ॥२५॥

शैवालपद्मोत्पलवेत्रतुङ्ग-

प्रपौण्डरीकाण्यमृणाललोध्रम्‌ ।

प्रियङ्गुकालेयकचन्दनानि

निर्वापणः स्यात्‌ सघृतः प्रदेह ॥२६॥

सितालतावेतसपद्मकानि

यष्ट्याह्वमैन्द्री नलिनानि दूर्वा ।

यवासमूलं कुशकाशयोश्च

निर्वापणः स्याज्जलमेरका च ॥२७॥

शैलेयमेलागुरुणी सकुष्ठे

चण्डा नतं त्वक्‌ सुरदारु रास्ना ।

शीतं निहन्यादचिरात्‌ प्रदेहो

विषं शिरीषस्तु ससिन्धुवारः ॥२८॥

शिरीषलामज्जकहेमलोध्रै-

स्त्वग्दोषसंस्वेदहरः प्रघर्षः ।

पत्राम्बुलोध्राभयचन्दनानि

शरीरदौर्गन्ध्यहरः प्रदेहः ॥२९॥

तत्र श्लोकः-

इहात्रिजः सिद्धतमानुवाच

द्वात्रिंशत सिद्धमहर्षिपूज्यः ।

चूर्णप्रदेहान्‌ विविधामयघ्ना-

नारग्वधीये जगतो हितार्थम्‌ ॥३०॥

इत्यगिन्वेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आरग्वधीयो नाम तृतीयोऽध्यायः ॥३॥

Last updated on May 27th, 2021 at 08:48 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English