Skip to content

16. Sarvaakshiroga Pratishedha – Uttara – AH”

अष्टाङ्गहृदये (उत्तरस्थानम्‌)

सर्वाक्षिरोगप्रतिषेधं षोडशोऽध्यायः।

अथातः सर्वक्षिरोगप्रतिषेधं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

प्राग्रूप एव स्यन्देषु तीक्ष्णं गण्डूषनावनम्‌।

कारयेदुपवासं च कोपादन्यत्र वातजात्‌॥१॥

दाहोपदेहरागाश्रुशोफशान्त्यै बिडालकम्‌।

कुर्यात्सर्वत्र पत्रैलामरिचस्वर्णगैरिकैः॥२॥

सरसाञ्जनयष्ट्याह्वनतचन्दनसैन्धवैः।

सैन्धवं नागरं तार्क्ष्यं भृष्टं मण्डेन सर्पिषः॥३॥

वातजे घृतभृष्टं वा योज्यं शबरदेशजम्‌।

मांसीपद्मककालीययष्ट्याह्वैः पित्तरक्तयोः॥४॥

मनोह्वाफलिनीक्षौद्रैः कफे, सर्वैस्तु सर्वजे।

सितमरिचभागमेकं चतुर्मनोह्वं द्विरष्टशाबरकम्‌।

सञ्चूर्ण्य वस्त्रबद्धं प्रकुपितमात्रेऽवगुण्ठनं नेत्रे॥५॥

आरण्याश्छगणरसे पटावबद्धाः

सुस्विन्ना नखवितुषीकृताः कुलत्थाः।

तच्चूर्णं सकृदवचूर्णनान्निशीथे

नेत्राणां विधमति सद्य एव कोपम्‌॥६॥

घोषाभयातुत्थकयष्टिरोध्रै-

र्मूती सुसूक्ष्मैः श्लथवस्त्रबद्धैः।

ताम्रस्थधान्याम्लनिमग्नमूर्ति-

रर्तिं जयत्यक्षिणि नैकरूपाम्‌॥७॥

षोडशभिः सलिलपलैः

पलं तथैकं कटङ्कटेर्याः सिद्धम्‌।

सेकोऽष्टभागशिष्टः

क्षौद्रयुतः सर्वदोषकुपिते नेत्रे॥८॥

वातपित्तकफसन्निपातजां

नेत्रयोर्बहुविधामपि व्यथाम्‌।

शीघ्रमेव जयति प्रयोजितः

शिग्रुपल्लवरसः समाक्षिकः॥९॥

तरुणमुरुबूकपत्रं

मूलं च विभिद्य सिद्धमाजे क्षीरे।

वाताभिष्यन्दरुजं

सद्यो विनिहन्ति सक्तुपिण्डिका चोष्णा॥१०॥

आश्च्योतनं मारुतजे क्वाथो बिल्वादिभिर्हितः।

कोष्णः सहैरण्डजटाबृहतीमधुशिग्रुभिः॥११॥

ह्रीबेरवक्रशार्ङ्गेष्टोदुम्बरत्वक्षु साधितम्‌।

साम्भसा पयसाऽऽजेन शूलाश्च्योतनमुत्तमम्‌॥१२॥

मञ्जिष्ठारजनीलाक्षाद्राक्षर्द्धिमधुकोत्पलैः।

क्वाथः सशर्करः शीतः सेचनं रक्तपित्तजित्‌॥१३॥

कसेरुयष्ट्याह्वरजस्तान्तवे शिथिलं स्थितम्‌।

अप्सु दिव्यासु निहितं हितं स्यन्देऽस्रपित्तजे॥१४॥

पुण्ड्रयष्टीनिशामूती प्लुता स्तन्ये सशर्करे।

छागदुग्धेऽथवा दाहरुग्रागाश्रुनिवर्तनी॥१५॥

श्वेतरोध्रं समधुकं घृतभृष्टं सुचूर्णितम्‌।

वस्त्रस्थं स्तन्यमृदितं पित्तरक्ताभिघातजित्‌॥१६॥

नागरत्रिफलानिम्बवासारोध्ररसः कफे।

कोष्णमाश्च्योतनं मिश्रैर्भेषजैः सान्निपातिके॥१७॥

सर्पिः पुराणं पवने, पित्ते शर्करयाऽन्वितम्‌।

व्योषसिद्धं कफे पीत्वा यवक्षारावचूर्णितम्‌॥१८॥

स्रावयेद्रुधिरं भूयस्ततः स्निग्धं विरेचयेत्‌।

आनूपवेसवारेण शिरोवदनलेपनम्‌॥१९॥

उष्णेन शूले, दाहे तु पयः सर्पिर्युतैर्हिमैः।

तिमिरप्रतिषेधं च वीक्ष्ययुञ्ज्याद्यथायथम्‌॥२०॥

अयमेव विधिः सर्वो मन्थादिष्वपि शस्यते।

अशान्तौ सर्वथा मन्थे भ्रुवोरुपरि दाहयेत्‌॥२१॥

रूप्यं रूक्षेण गोदघ्ना लिम्पेन्नीलत्वमागते।

शुष्के तु मस्तुना वर्तिर्वाताक्ष्यामयनाशिनी॥२२॥

सुमनः कोरकाः शङ्खस्त्रिफला मधुकं बला।

पित्तरक्तापहा वर्तिः पिष्टा दिव्येन वारिणा॥२३॥

सैन्धवं त्रिफला व्योषं शङ्खनाभिः समुद्रजः।

फेन ऐलेयकं सर्जो वर्तिः श्लेष्माक्षिरोगनुत्‌॥२४॥

प्रपौण्डरीकं यष्ट्याह्वं दार्वी चाष्टपलं पचेत्‌।

जलद्रोणे रसे पूते पुनः पक्वे घने क्षिपेत्‌॥२५॥

पुष्पाञ्जनाद्दशपलं कर्षं च मरिचात्ततः।

कृतश्चूर्णोऽथवा वर्तिः सर्वाभिष्यन्दसम्भवान्‌॥२६॥

हन्ति रागरुजाघर्षान्‌ सद्यो दृष्टिं प्रसादयेत्‌।

अयं पाशुपतो योगो रहस्यं भिषजां परम्‌॥२७॥

शुष्काक्षिपाके हविषः पानमक्ष्णोश्च तर्पणम्‌।

घृतेन जीवनीयेन नस्यं तैलेन वाऽणुना॥२८॥

परिषेको हितश्चात्र पयः कोष्णं ससैन्धवम्‌।

सर्पिर्युक्तं स्तन्यपिष्टमञ्जनं च महौषधम्‌॥२९॥

वसा वाऽऽनूपसत्त्वोत्था कञ्चित्सैन्धवनागरा।

घृताक्तान्‌ दर्पणे घृष्टान्‌ केशान्‌ मल्लकसम्पुटे॥३०॥

दग्ध्वाऽऽज्यपिष्टा लोहस्था सा मषी श्रेष्ठमञ्जनम्‌।

सशोफे वाऽल्पशोफे च स्निग्धस्य व्यधयेत्सिराम्‌॥३१॥

रेकः स्निग्धे पुनर्द्राक्षापथ्याक्वाथत्रिवृद्घृतैः।

श्वेतरोध्रं घृते भृष्टं चूर्णितं तान्तवस्थितम्‌॥३२॥

उष्णाम्बुना विमृदितं सेकः शूलहरः परम्‌।

दार्वीप्रपौण्डरीकस्य क्वाथो वाऽऽश्च्योतने हितः॥३३॥

सन्धावांश्च प्रयुञ्जीत घर्षरागाश्रुरुग्घरान्‌॥३३.१.२॥

ताम्रं लोहे मूत्रघृष्टं प्रयुक्तं

नेत्रे सर्पिर्धूपितं वेदनाघ्नम्।

ताम्रे घृष्टो गव्यदध्नः सरो वा

युक्तः कृष्णासैन्धवाभ्यां वरिष्ठः॥३४.१.२॥

शङ्खं ताम्रे स्तन्यघृष्टं घृताक्तैः

शम्याः पत्रैर्धूपितं तद्यवैश्च।

नेत्रे युक्तं हन्ति सन्धावसंज्ञं

क्षिप्रं घर्षं वेदनां चातितीव्राम्‌॥३५.१.२॥

उदुम्बरफलं लोहे घृष्टं स्तन्येन धूपितम्‌॥३६॥

साज्यैः शमीच्छदैर्दाहशूलरागाश्रुहर्षजित्‌।

शिग्रुपल्लवनिर्यासः सुघृष्टस्ताम्रसम्पुटे॥३७॥

घृतेन धूपितो हन्ति शोफघर्षाश्रुवेदनाः।

तिलाम्भसा मृत्कपालं कांस्ये घृष्टं सुधूपितम्‌॥३८॥

निम्बपत्रैर्घृताभ्यक्तैर्घर्षशूलाश्रुरागजित्‌।

सन्धावेनाञ्जिते नेत्रे विगतौषधवेदने॥३९॥

स्तन्येनाश्च्योतनं कार्यं त्रिः परं नाञ्जयेच्च तैः।

तालीसपत्रचपलानतलोहरजोञ्जनैः॥४०॥

जातीमुकुलकासीससैन्धवैर्मूत्रपेषितैः।

ताम्रमालिप्य सप्ताहं धारयेत्पेषयेत्ततः॥४१॥

मूत्रेणैवानु गुटिकाः कार्याश्छायाविशोषिताः।

ताः स्तन्यघृष्टा घर्षाश्रुशोफकण्डूविनाशनाः॥४२॥

व्याघ्रीत्वङ्‌मधुकं ताम्ररजोऽजाक्षीरकल्कितम्‌।

शम्यामलकपत्राज्यधूपितं शोफरुक्प्रणुत्‌॥४३॥

अम्लोषिते प्रयुञ्जीत पित्ताभिष्यन्दसाधनम्‌।

उत्क्लिष्टाः कफपित्तास्रनिचयोत्थाः कुकूणकः॥४४॥

पक्ष्मोपरोधः शुष्काक्षिपाकः पूयालसो बिसः।

पोथक्यम्लोषितोऽल्पाख्यः स्यन्दमन्था विनाऽनिलात्‌॥४५॥

एतेऽष्टादश पिल्लाख्या दीर्घकालानुबन्धिनः।

चिकित्सा पृथगेतेषां स्वंस्वमुक्ता अथ वक्ष्यते॥४६॥

पिल्लीभूतेषु सामान्यात्‌ अथ पिल्लाख्यरोगिणः।

स्निग्धस्य छर्दितवतः सिराव्यधहृतासृजः॥४७॥

विरिक्तस्य च वर्त्मानु निर्लिखेदाविशुद्धितः।

तुत्थकस्य पलं श्वेतमरिचानि च विंशतिः॥४८॥

त्रिंशता काञ्जिकपलैः पिष्ट्वा ताम्रे निधापयेत्‌।

पिल्लानपिल्लान्‌ कुरुते बहुवर्षोत्थितानपि॥४९॥

तत्सेकेनोपदेहाश्रुकण्डूशोफांश्च नाशयेत्‌।

करञ्जबीजं सुरसं सुमनः कोरकाणि च॥५०॥

संक्षुद्य साधयेत्क्वाथे पूते तत्र रसक्रिया।

अञ्जनं पिल्लभैषज्यं पक्ष्मणां च प्ररोहणम्‌॥५१॥

रसाञ्जनं सर्जरसो रीतिपुष्पं मनःशिला।

समुद्रफेनो लवणं गैरिकं मरिचानि च॥५२॥

अञ्जनं मधुना पिष्टं क्लेदकण्डूघ्नमुत्तमम्‌।

अभयारसपिष्टं वा तगरं पिल्लनाशनम्‌॥५३॥

भावितं बस्तमूत्रेण सस्नेहं देवदारु च।

सैन्धवत्रिफलाकृष्णाकटुकाशङ्खनाभयः॥५४॥

सताम्ररजसो वर्तिः पिल्लशुक्रकनाशिनी।

पुष्पकासीसचूर्णो वा सुरसारसभावितः॥५५॥

ताम्रे दशाहं तत्‌ पैल्ल्यपक्ष्मशातजिदञ्जनम्‌॥५५.१.२॥

अलं च सौवीरकमञ्जनं च

ताभ्यां समं ताम्ररजः सुसूक्ष्मम्‌।

पिल्लेषु रोमाणि निषेवितोऽसौ

चूर्णः करोत्येकशलाकयाऽपि॥५६.१.२॥

लाक्षानिर्गुण्डीभृङ्गदार्वीरसेन

श्रेष्ठं कार्पासं भावितं सप्तकृत्वः।

दीपः प्रज्वाल्यः सर्पिषा तत्समुत्था

श्रेष्ठापिल्लानां रोपणार्थे मषी सा॥५७.१.२॥

वर्त्मावलेखं बहुशस्तद्वच्छोणितमोक्षणम्‌॥५८॥

पुनः पुनर्विरेकं च नित्यमायोतनाञ्जनम्‌।

नावनं धूमपानं च पिल्लरोगातुरो भजेत्‌॥५९॥

पूयालसे त्वशान्तेऽन्ते दाहः सूक्ष्मशलाकया।

चतुर्णवतिरित्यक्ष्णो हेतुलक्षणसाधनैः॥६०॥

परस्परमसङ्कीर्णाः कार्‌त्स्न्येन गदिता गदाः।

सर्वदा च निषेवेत स्वस्थोऽपि नयनप्रियः॥६१॥

पुराणयवगोधूमशालिषष्टिककोद्रवान्‌।

मुद्गादीन्‌ कफपित्तघ्नान्‌ भूरिसर्पिः परिप्लुतान्‌॥६२॥

शाकं चैवंविधं मांसं जाङ्गलं दाडिमं सिताम्‌।

सैन्धवं त्रिफलां द्राक्षां वारि पाने च नाभसम्‌॥६३॥

आतपत्रं पदत्राणं विधिवद्दोषशोधनम्‌।

वर्जयेद्वेगसंरोधमजीर्णाध्यशनानि च॥६४॥

क्रोधशोकदिवास्वप्नरात्रिजागरणातपान्‌।

विदाहि विष्टम्भकरं यच्चेहाहारभेषजम्‌॥६५॥

द्वे पादमध्ये पृथुसन्निवेशे

शिरे गते ते बहुधा च नेत्रे।

ता म्रक्षणोद्वर्तनलेपनादीन्‌

पादप्रयुक्तान्नयने नयन्ति॥६६॥

मलौष्ण्यसङ्घट्टनपीडनाद्यै-

स्ता दूषयन्ते नयनानि दुष्टाः।

भजेत्सदा दृष्टिहितानि तस्मा-

दुपानदभ्यञ्जनधावनानि॥६७॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टा-

ङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सर्वाक्षिरोगप्रतिषेधो

नाम षोडशोऽध्यायः॥१६॥

Last updated on September 6th, 2021 at 07:06 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English