सुश्रुतसंहिता ।
अथ चिकित्सास्थानम् ।
त्रयस्त्रिंशत्तमोऽध्यायः ।
अथातो वमनविरेचनसाध्योपद्रवचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
दोषाः क्षीणा बृंहयितव्याः, कुपिताः प्रशमयितव्याः, वृद्धा निर्हर्तव्याः, समाः परिपाल्या इति सिद्धान्तः ||३||
प्राधान्येन वमनविरेचने वर्तेते निर्हरणे दोषाणाम् |
तस्मात्तयोर्विधानमुच्यमानमुपधारय ||४||
अथातुरं स्निग्धं स्विन्नमभिष्यन्दिभिराहारैरनवबद्धदोषमवलोक्य श्वो वमनं पाययिताऽस्मीति सम्भोजयेत्तीक्ष्णाग्निं बलवन्तं बहुदोषं महाव्याधिपरीतं वमनसात्म्यं च ||५||
भवति चात्र-
पेशलैर्विविधैरन्नैर्दोषानुत्क्लेश्य देहिनः |
स्निग्धस्विन्नाय वमनं दत्तं सम्यक् प्रवर्तते ||६||
अथापरेद्युः पूर्वाह्णे साधारणे काले वमनद्रव्यकषायकल्कचूर्णस्नेहानामन्यतमस्य मात्रां पाययित्वा वामयेद्यथायोगं कोष्ठविशेषमवेक्ष्य; असात्म्यबीभत्सदुर्गन्धदुर्दर्शनानि च वमनानि विदध्यात्, अतो विपरीतानि विरेचनानि; तत्र सुकुमारं कृशं बालं वृद्धं भीरुं वा वमनसाध्येषु विकारेषु क्षीरदधितक्रयवागूनामन्यतममाकण्ठं पाययेत्, पीतौषधं च पाणिभिरग्नितप्तैः प्रताप्यमानं मुहूर्तमुपेक्षेत; तस्य च स्वेदप्रादुर्भावेण शिथिलतामापन्नं स्वेभ्यः स्थानेभ्यः प्रचलितं कुक्षिमनुसृतं जानीयात्, ततः प्रवृत्तहृल्लासं ज्ञात्वा जानुमात्रासनोपविष्टमाप्तैर्ललाटे पृष्ठे पार्श्वयोः कण्ठे च पाणिभिः सुपरिगृहीतमङ्गुलीगन्धर्वहस्तोत्पलनालानामन्यतमेन कण्ठमभिस्पृशन्तं वामयेत्तावद्यावत् सम्यग्वान्तलिङ्गानीति ||७||
भवतश्चात्र-
कफप्रसेकं हृदयाविशुद्धिं कण्डूं च दुश्छर्दितलिङ्गमाहुः |
पित्तातियोगं च विसञ्ज्ञतां च हृत्कण्ठपीडामपि चातिवान्ते ||८||
पित्ते कफस्यानु सुखं प्रवृत्ते शुद्धेषु हृत्कण्ठशिरःसु चापि |
लघौ च देहे कफसंस्रवे च स्थिते सुवान्तं पुरुषं व्यवस्येत् ||९||
सम्यग्वान्तं चैनमभिसमीक्ष्य स्नेहनविरेचनशमनानां धूमानामन्यतमं सामर्थ्यतः पाययित्वाऽऽचारिकमादिशेत् ||१०||
भवन्ति चात्र-
ततोऽपराह्णे शुचिशुद्धदेहमुष्णाभिरद्भिः परिषिक्तगात्रम् |
कुलत्थमुद्गाढकिजाङ्गलानां यूषै रसैर्वाऽप्युपभोजयेत्तु ||११||
कासोपलेपस्वरभेदनिद्रातन्द्रास्यदौर्गन्ध्यविषोपसर्गाः |
कफप्रसेकग्रहणीप्रदोषा न सन्ति जन्तोर्वमतः कदाचित् ||१२||
छिन्ने तरौ पुष्पफलप्ररोहा यथा विनाशं सहसा व्रजन्ति |
तथा हृते श्लेष्मणि शोधनेन तज्जा विकाराः प्रशमं प्रयान्ति ||१३||
न वामयेत्तैमिरिकोर्ध्ववातगुल्मोदरप्लीहकृमिश्रमार्तान् |
स्थूलक्षतक्षीणकृशातिवृद्धमूत्रातुरान् केवलवातरोगान् ||१४||
स्वरोपघाताध्ययनप्रसक्तदुश्छर्दिदुःकोष्ठतृडार्तबालान् |
ऊर्ध्वास्रपित्तिक्षुधितातिरूक्षगर्भिण्युदावर्तिनिरूहितांश्च ||१५||
अवम्यवमनाद्रोगाः कृच्छ्रतां यान्ति देहिनाम् |
असाध्यतां वा गच्छन्ति नैते वाम्यास्ततः स्मृताः ||१६||
एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः |
अतीव चोल्बणकफास्ते च स्युर्मधुकाम्बुना ||१७||
वाम्यास्तु- विषशोषस्तन्यदोषमन्दाग्न्युन्मादापस्मारश्लीपदार्बुदविदारिकामेदोमेहगरज्वरारुच्यपच्यामातीसारहृद्रोग- चित्तविभ्रमविसर्पविद्रध्यजीर्णमुखप्रसेकहृल्लासश्वासकासपीनसपूतीनासकण्ठौष्ठवक्त्रपाक- कर्णस्रावाधिजिह्वोपजिह्विकागलशुण्डिकाधःशोणितपित्तिनः कफस्थानजेषु विकारेष्वन्ये च कफव्याधिपरीता इति ||१८||
विरेचनमपि स्निग्धस्विन्नाय वान्ताय च देयम्; अवान्तस्य हि सम्यग्विरीक्तस्यापि सतोऽधः स्रस्तः श्लेष्मा ग्रहणीं छादयति, गौरवमापादयति, प्रवाहिकां वा जनयति ||१९||
अथातुरं श्वो विरेचनं पाययिताऽस्मीति पूर्वाह्णे लघु भोजयेत्, फलाम्लमुष्णोदकं चैनमनुपाययेत् |
अथापरेऽहनि विगतश्लेष्मधातुमातुरोपक्रमणीयादवेक्ष्यातुरमथास्मै औषधमात्रां पातुं प्रयच्छेत् ||२०||
तत्र मृदुः, क्रूरो, मध्यम इति त्रिविधः कोष्ठो भवति |
तत्र बहुपित्तो मृदुः, स दुग्धेनापि विरिच्यते; बहुवातश्लेष्मा क्रूरः, स दुर्विरेच्यः; समदोषो मध्यमः, स साधारण इति |
तत्र मृदौ मात्रा मृद्वी, तीक्ष्णा क्रूरे, मध्ये मध्या कर्तव्येति |
पीतौषधश्च तन्मनाः शय्याभ्याशे विरेच्यते ||२१||
विरेचनं पीतवांस्तु न वेगान् धारयेद्बुधः |
निवातशायी शीताम्बु न स्पृशेन्न प्रवाहयेत् ||२२||
यथा च वमने प्रसेकौषधकफपित्तानिलाः क्रमेण गच्छन्ति, एवं विरेचने मूत्रपुरीषपित्तौषधकफा इति ||२३||
भवन्ति चात्र-
हृत्कुक्ष्यशुद्धिः परिदाहकण्डूविण्मूत्रसङ्गाश्च न सद्विरिक्ते |
मूर्च्छागुदभ्रंशकफातियोगाः शूलोद्गमश्चातिविरिक्तलिङ्गम् ||२४||
गतेषु दोषेषु कफान्वितेषु नाभ्या लघुत्वे मनसश्च तुष्टौ |
गतेऽनिले चाप्यनुलोमभावं सम्यग्विरिक्तं मनुजं व्यवस्येत् ||२५||
मन्दाग्निमक्षीणमसद्विरीक्तं न पाययेताहनि तत्र पेयाम् |
क्षीणं तृषार्तं सुविरेचितं च तन्वीं सुखोष्णां लघु पाययेच्च ||२६||
बुद्धेः प्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं बलमग्निदीप्तिम् |
चिराच्च पाकं वयसः करोति विरेचनं सम्यगुपास्यमानम् ||२७||
यथौदकानामुदकेऽपनीते चरस्थिराणां भवति प्रणाशः |
पित्ते हृते त्वेवमुपद्रवाणां पित्तात्मकानां भवति प्रणाशः ||२८||
मन्दाग्न्यतिस्नेहितबालवृद्धस्थूलाः क्षतक्षीणभयोपतप्ताः |
श्रान्तस्तृषार्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य चासृक् ||२९||
नवप्रविश्यायमदात्ययी च नवज्वरी या च नवप्रसृता |
शल्यार्दिताश्चाप्यविरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च ||३०||
अत्यर्थपित्ताभिपरीतदेहान् विरेचयेत्तानपि मन्दमन्दम् |
विरेचनैर्यान्ति नरा विनाशमज्ञप्रयुक्तैरविरेचनीयाः ||३१||
विरेच्यास्तु- ज्वरगरारुच्यर्शोऽर्बुदोदरग्रन्थिविद्गाधिपाण्डुरोगापस्मारहृद्रोगवातरक्तभगन्दरच्छर्दियोनिरोगविसर्प- गुल्मपक्वाशयरुग्विबन्धविसूचिकालसकमूत्राघातकुष्ठविस्फोटकप्रमेहानाहप्लीहशोफवृद्धिशस्त्रक्षतक्षाराग्निदग्ध- दुष्टव्रणाक्षिपाककाचतिमिराभिष्यन्दशिरःकर्णाक्षिनासास्यगुदमेढ्रदाहोर्ध्वरक्तपित्तकृमिकोष्ठिनः पित्तस्थानजेष्वन्येषु च विकारेष्वन्ये च पैत्तिकव्याधिपरीता इति ||३२||
सरत्वसौक्ष्म्यतैक्ष्ण्यौष्ण्यविकाशित्वैर्विरेचनम् |
वमनं तु हरेद्दोषं प्रकृत्या गतमन्यथा ||३३||
यात्यधो दोषमादाय पच्यमानं विरेचनम् |
गुणोत्कर्षाद्व्रजत्यूर्ध्वमपक्वं वमनं पुनः ||३४||
मृदुकोष्ठस्य दीप्ताग्नेरतितीक्ष्णं विरेचनम् |
न सम्यङ्गिर्हरेद्दोषानतिवेगप्रधावितम् ||३५||
पीतं यदौषधं प्रातर्भुक्तपाकसमे क्षणे |
पक्तिं गच्छति दोषांश्च निर्हरेत्तत् प्रशस्यते ||३६||
दुर्बलस्य चलान् दोषानल्पानल्पान् पुनः पुनः |
हरेत् प्रभूतानल्पांस्तु शमयेत् प्रच्युतानपि ||३७||
हरेद्दोषांश्चलान् पक्वान् बलिनो दुर्बलस्य वा |
चला ह्युपेक्षिता दोषाः क्लेशयेयुश्चिरं नरम् ||३८||
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः |
सन्धुक्षिताग्निं स्निग्धं च स्विन्नं चैव विरेचयेत् ||३९||
स्निग्धस्विन्नस्य भैषज्यैर्दोषस्तूत्क्लेशितो बलात् |
निलीयते न मार्गेषु स्निग्धे भाण्ड इवोदकम् ||४०||
न चातिस्नेहपीतस्तु पिबेत् स्नेहविरेचनम् |
दोषाः प्रचलिताः स्थानाद्भूयः श्लिष्यन्ति वर्त्मसु ||४१||
विषाभिघातपिडकाशोफपाण्डुविसर्पिणः |
नातिस्निग्धा विशोध्याः स्युस्तथा कुष्ठिप्रमेहिणः ||४२||
विरूक्ष्य स्नेहसात्म्यं तु भूयः संस्नेह्य शोधयेत् |
तेन दोषा हृतास्तस्य भवन्ति बलवर्धनाः ||४३||
प्रागपीतं नरं शोध्यं पाययेतौषधं मृदु |
ततो विज्ञातकोष्ठस्य कार्यं संशोधनं पुनः ||४४||
सुखं दृष्टफलं हृद्यमल्पमात्रं महागुणम् |
व्यापत्स्वल्पात्ययं चापि पिबेन्नृपतिरौषधम् ||४५||
स्नेहस्वेदावनभ्यस्य यस्तु संशोधनं पिबेत् |
दारु शुष्कमिवानामे देहस्तस्य विशीर्यते ||४६||
स्नेहस्वेदप्रचलिता रसैः स्निग्धैरुदीरिताः |
दोषाः कोष्ठगता जन्तोः सुखा हर्तुं विशोधनैः ||४७||
इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेचनसाध्योपद्रवचिकित्सितं नाम त्रयस्त्रिंशोऽध्यायः ||३३||
Last updated on July 8th, 2021 at 10:04 am