Skip to content

01. Rasa Vimaana – Vimaana – C”

चरकसंहिता

विमानस्थानम्‌ ।

प्रथमोऽध्याय: ।

       अथातो रसविमानं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       इह खलु व्याधीनां निमित्तपूर्वरूपरूपोपशयसंख्याप्राधान्यविधिविकल्पबलकालविशेषाननुप्रविश्यानन्तरं दोषभेषजदेशकाल- बलशरीरसाराहारसात्म्यसत्त्वप्रकृतिवयसां मानमवहितमनसा यथावज्ज्ञेयं भवति भिषजा, दोषादिमानज्ञानायत्तत्वात्‌ क्रियाया: । न ह्यमानज्ञो दोषादीनां भिषग्‌ व्याधिनिग्रहसमर्थो भवति । तस्माद्दोषादिमानज्ञानार्थं विमानस्थानमुपदेक्ष्यामोऽग्निवेश !॥३॥

       तत्रादौ रसद्रव्यदोषविकारप्रभावान्‌ वक्ष्याम: ।

       रसास्तावत्‌ षट्‌–मधुराम्ललवणकटुतिक्तकषाया: ।

       ते सम्यगुपयुज्यमाना: शरीरं यापयन्ति, मिथ्योपयुज्यमानास्तु खलु दोषप्रकोपायोपकल्पन्ते ॥४॥

       दोषा: पुनस्त्रयो वातपित्तश्लेष्माण: । ते प्रकृतिभूता: शरीरोपकारका भवन्ति, विकृतिमापन्नास्तु खलु नानाविधैर्विकारै: शरीरमुपतापयन्ति ॥५॥

       तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति, त्रयस्त्रयश्चोपशमयन्ति । तद्यथा–कटुतिक्तकषाया वातं जनयन्ति, मधुराम्ललवणास्त्वेनं शमयन्ति; कट्वम्ललवणा: पित्तं जनयन्ति, मधुरतिक्तकषायास्त्वेनच्छमयन्ति, मधुराम्ललवणा: श्लेष्माणं जनयन्ति, कटुतिक्तकषायास्त्वेनं शमयन्ति ॥६॥

       रसदोषसन्निपाते तु ये रसा यैर्दोषै: समानगुणा: समानगुणभूयिष्ठा वा भवन्ति ते तानभिवर्धयन्ति, विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति । एतद्व्यस्थाहेतो: षट्‌त्वमुपदिश्यते रसानां परस्परेणासंसृष्टानां, त्रित्वं च दोषाणाम्‌ ॥७॥

       संसर्गविकल्पविस्तरो ह्येषामपरिसंख्येयो भवति, विकल्पभेदापरिसंख्येयत्वात्‌ ॥८॥

       तत्र खल्वनेकरसेषु द्रव्येष्वनेकदोषात्मकेषु च विकारेषु रसदोषप्रभावमेकैकश्येनाभिसमीक्ष्य ततो द्रव्यविकारयो: प्रभावतत्त्वं व्यवस्येत्‌ ॥९॥

       न त्वेवं खलु सर्वत्र । न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च विकल्पनै- र्विकल्पितानामवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वमध्यवसातुं शक्यम्‌ ॥१०॥

       तथायुक्ते हि समुदये समुदायप्रभावतत्त्वमेवमेवोपलभ्य ततो द्रव्यविकारप्रभावतत्त्वं व्यवस्येत्‌ ॥११॥

       तस्माद्रसप्रभावतश्च द्रव्यप्रभावतश्च दोषप्रभावतश्च विकारप्रभावता तत्त्वमुपदेक्ष्याम: ॥१२॥

       तत्रैष रसप्रभाव उपदिष्टो भवति । द्रव्यप्रभावं पुनरुपदेक्ष्याम: । तैलसर्पिर्मधूनि वातपित्तश्लेष्मप्रशमनार्थानि द्रव्याणि भवन्ति ॥१३॥

       तत्र तैलं स्नेहौष्ण्यगौरवोपपन्नत्वाद्वातं जयति सततमभ्यस्यमानं, वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति, विरुद्धगुणसन्निपाते हि भूयसाऽल्पमवजीयते, तस्मात्तैलं वातं जयति सततमभ्यस्यमानम्‌ । सर्पि: खल्वेवमेव पित्तं जयति, माधुर्याच्छैत्यान्मन्दत्वाच्च; पित्तं ह्यमधुरमुष्णं तीक्ष्णं च । मधु च श्लेष्माणं जयति, रौक्ष्यात्तैक्ष्ण्यात्‌ कषायत्वाच्च, श्लेष्मा हि स्निग्धो मन्दो मधुरश्च । यच्चान्यदपि किञ्चिद्‌द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात्तच्चैताञ्जयत्यभ्यस्यमानम्‌ ॥१४॥ अथ खलु त्रीणि द्रव्याणि नात्युपयुञ्जीताधिकमन्येभ्यो द्रव्येभ्य:, तद्यथा–पिप्पली, क्षार:, लवणमिति ॥१५॥

       पिप्पल्यो हि कटुका: सत्यो मधुरविपाका गुर्व्यो नात्यर्थं स्निग्धोष्णा: प्रक्लेदिन्यो भेषजाभिमताश्च ता: सद्य:; शुभाशुभकारिण्यो भवन्ति; आपातभद्रा:, प्रयोगसमसाद्गुण्यात्‌; दोषसञ्चयानुबन्धा:;–सततमुपयुज्यमाना हि गुरुप्रक्लेदित्वाच्छ्लेष्माणमुत्क्लेशयन्ति, औष्ण्यात्‌ पित्तं, न च वातप्रशमनायोपकल्पन्तेऽल्पस्नेहोष्णभावात्‌; योगवाहिन्यस्तु खलु भवन्ति; तस्मात्‌ पिप्पलीर्नात्युपयुञ्जीत ॥१६॥

       क्षार: पुनरौष्ण्यतैक्ष्ण्यलाघवोपपन्न: क्लेदयत्यादौ पश्चाद्विशोषयति, स पचनदहनभेदनार्थमुपयुज्यते; सोऽतिप्रयुज्यमान: केशाक्षिहृदयपुंस्त्वोपघातकर: संपद्यते । ये ह्येनं ग्रामनगरनिगमजनपदा: सततमुपयुञ्जते त आन्ध्यषाण्ढ्यखालित्यपालित्यभाजो हृदयापकर्तिनश्च भवन्ति, तद्यथा–प्राच्याश्चीनाश्च; तस्मात्‌ क्षारं नात्युपयुञ्जीत ॥१७॥

       लवणं पुनरौष्ण्यतैक्ष्ण्योपपन्नम्‌, अनतिगुरु, अनतिस्निग्धम्‌, उपक्लेदि, विस्रंसनसमर्थम्‌, अन्नद्रव्यरुचिकरम्‌ आपातभद्रं प्रयोगसमसाद्गुण्यात्‌, दोषसंचयानुबन्धं, तद्रोचनपाचनोपक्लेदनविस्रंसनार्थमुपयुज्यते । तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्यदौर्बल्या- भिनिर्वृत्तिकरं शरीरस्य भवति । ये ह्येनद्‌ग्रामनगरनिगमजनपदा: सततमुपयुञ्जते, ते भूयिष्ठं ग्लास्नव: शिथिलमांसशोणिता अपरिक्लेशसहाश्च भवन्ति । तद्यथा–बाह्लीकसौराष्ट्रिकसैन्धवसौवीरका:; ते हि पयसाऽपि सह लवणमश्नन्ति । येऽपीह भूमेरत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्तेऽल्पतेजसो वा भवन्ति, लवणोपहतत्वात्‌ । तस्माल्लवणं नात्युपयुञ्जीत । ये ह्यतिलवणसात्म्या: पुरुषास्तेषामपि खालित्यपालित्यानि वलयश्चाकाले भवन्ति ॥१८॥  

       तस्मात्तेषां तत्सात्म्यत: क्रमेणापगमनं श्रेय: ।

       सात्म्यमपि हि क्रमेणोपनिवर्त्यमानमदोषमल्पदोषं वा भवति ॥१९॥

       सात्म्यं नाम तद्‌ यदात्मन्युपशेते; सात्म्यार्थो ह्युपशयार्थ: । तत्‌ त्रिविधं प्रवरावरमध्यविभागेन; सप्तविधं तु रसैकैकत्वेन सर्वरसोपयोगाच्च। तत्र सर्वरसं प्रवरम्‌, अवरमेकरसं, मध्यं तु प्रवरावरमध्यस्थम्‌ । तत्रावरमध्याभ्यां सात्म्याभ्यां क्रमेणैव प्रवरमुपपादयेत्‌ सात्म्यम्‌ । सर्वरसमपि च सात्म्यमुपपन्न: प्रकृत्याद्युपयोक्रष्टमानि सर्वाण्याहारविधिविशेषायतनान्यभिसमीक्ष्य हितमेवानुरुध्येत ॥२०॥

       तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति; तद्यथा–प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्रष्टमानि (भवन्ति)॥२१॥

       तत्र प्रकृतिरुच्यते स्वभावो य:, स पुनराहारौषधद्रव्याणां स्वाभाविको गुर्वादिगुणयोग:; तद्यथा-माषमुद्गयो:, शूकरैणयोश्च ॥(१)॥

       करणं पुन: स्वाभाविकानां द्रव्याणामभिसंस्कार: । संस्कारो हि गुणान्तराधानमुच्यते । ते गुणास्तोयाग्निसन्निकर्ष- शौचमन्थनदेशकालवासनभावनादिभि: कालप्रकर्षभाजनादिभिश्चाधीयन्ते ॥(२)॥

       संयोग: पुनर्द्वयोर्बहूनां वा द्रव्याणां संहतीभाव:, स विशेषमारभते, यं पुनर्नैकैकशो द्रव्याण्यारभन्ते, तद्यथा–मधुसर्पिषो:, मधुमत्स्यपयसां च संयोग:॥(३)॥

       राशिस्तु सर्वग्रहपरिग्रहौ मात्रामात्रफलविनिश्चयार्थ: । तत्र सर्वस्याहारस्य प्रमाणग्रहणमेकपिण्डेन सर्वग्रह:, परिग्रह: पुन: प्रमाणग्रहणमेकैकश्येनाहारद्रव्याणाम्‌ । सर्वस्य हि ग्रह: सर्वग्रह:, सर्वतश्च ग्रह: परिग्रह उच्यते ॥(४)॥

       देश: पुन: स्थानं; स द्रव्याणामुत्पत्तिप्रचारौ देशसात्म्यं चाचष्टे ॥(५)॥

       कालो हि नित्यगश्चावस्थिकश्च; तत्रावस्थिको विकारमपेक्षते, नित्यगस्तु ऋतुसात्म्यापेक्ष: ॥(६)॥

       उपयोगसंस्था तूपयोगनियम:, स जीर्णलक्षणापेक्ष: ॥(७)॥

       उपयोक्ता पुनर्यस्तमाहारमुपयुङ्क्ते , यदायत्तमोकसात्म्यम्‌ । इत्यष्टावाहारविधिविशेषायतनानि व्याख्यातानि भवन्ति ॥२२॥

       एषां विशेषा: शुभाशुभफला: परस्परोपकारका भवन्ति; तान्‌ बुभुत्सेत, बुद्‌ध्वा च हितेप्सुरेव स्यात्‌; न च मोहात्‌ प्रमादाद्वा प्रियमहितमसुखोदर्कमुपसेव्यमाहारजातमन्यद्वा किंचित्‌ ॥२३॥

       तत्रेदमाहारविधिविधानमरोगाणामातुराणां चापि केषांचित्‌ काले प्रकृत्यैव हिततमं भुञ्जानानां भवति-उष्णं, स्निग्धं, मात्रावत्‌, जीर्णे वीर्याविरुद्धम्‌, इष्टे देशे, इष्टसर्वोपकरणं, नातिद्रुतं, नातिविलम्बितम्‌, अजल्पन्‌, अहसन्‌, तन्मना भुञ्जीत, आत्मानमभिसमीक्ष्य सम्यक्‌ ॥२४॥

       तस्य साद्गुण्यमुपदेक्ष्याम:–उष्णमश्नीयात्‌, उष्णं हि भुज्यमानं स्वदते, भुक्तं चाग्निमौदर्यमुदीरयति, क्षिप्रं जरां गच्छति, वातमनुलोमयति, श्लेष्माणं च परिह्रासयति, तस्मादुष्णमश्नीयात्‌ ॥(१)॥

       स्निग्धमश्नीयात्‌; स्निग्धं हि भुज्यमानं  स्वदते, भुक्तं चानुदीर्णमग्निमुदीरयति, क्षिप्रं जरां गच्छति, वातमनुलोमयति, शरीरमुपचिनोति, दृढीकरोतीन्द्रियाणि, बलाभिवृद्धिमुपजनयति, वर्णप्रसादं चाभिनिर्वर्तयति; तस्मात्‌ स्निग्धमश्नीयात्‌ ॥(२)॥

       मात्रावदश्नीयात्‌, मात्रावद्धि भुक्तं वातपित्तकफानपीडयदायुरेव विवर्धयति केवलं, सुखं गुदमनुपर्येति, न चोष्माणमुपहन्ति, अव्यथं च परिपाकमेति; तस्मान्मात्रावदश्नीयात्‌ ॥(३)॥

       जीर्णेऽश्नीयात्‌; अजीर्णे हि भुञ्जानस्याभ्यवहृतमाहारजातं पूर्वस्याहारस्य रसमपरिणतमुत्तरेणाहाररसेनोपसृजत्‌ सर्वान्‌ दोषान्‌ प्रकोपयत्याशु, जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेष्वग्नौ चोदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे चोद्गरे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेष्वभ्यवहृतमाहारजातं सर्वशरीरधातूनप्रदूषयदायुरेवाभिवर्धयति केवलं, तस्माज्जीर्णेऽश्नीयात्‌ ॥(४)॥

       वीर्याविरुद्धमश्नीयात्‌; अविरुद्धवीर्यमश्नन् हि विरुद्धवीर्याहारजैर्विकारैर्नोपसृज्यते, तस्माद्वीर्याविरुद्धमश्नीयात्‌ ॥(५)॥

       इष्टे देशे इष्टसर्वोपकरणं चाश्नीयात्‌, इष्टे हि देशे भुञ्जानो नानिष्टदेशजैर्मनोविघातकरैर्भावैर्मनोविघातं प्राप्नोति, तथैवेष्टै: सर्वोपकरणै:; तस्मादिष्टेदेशे तथेष्टसर्वोपकरणं चाश्नीयात्‌ ॥(६)॥

       नातिद्रुतमश्नीयात्‌, अतिद्रुतं हि भुञ्जानस्योत्स्नेहनमवसादनं भोजनस्याप्रतिष्ठानं च, भोज्यदोषसाद्गण्योपलब्धिश्च न

नियता, तस्मान्नातिद्रुतमश्नीयात्‌ ॥७॥

       नातिविलम्बितमश्नीयात्‌; अतिविलम्बितं हि भुञ्जानो न तृप्तिमधिगच्छति, बहु भुङ्क्ते , शीतीभवत्याहारजातं, विषमं च पच्यते; तस्मान्नातिविलम्बितमश्नीयात्‌ ॥(८)॥

       अजल्पन्नहसन्‌ तन्मना भुञ्जीत; जल्पतो हसतोऽन्यमनसो वा भुञ्जानस्य त एव हि दोषा भवन्ति, य एवातिद्रुतमान्त:; तस्मादजल्पन्नहसंस्तन्मना भुञ्जीत ॥(९)॥

       आत्मानमभिसमीक्ष्य भुञ्जीत सम्यक्‌; इदं ममोपशेते इदं नोपशेत इत्येवं विदितं ह्यस्यात्मन आत्म सात्म्यं भवति; तस्मादात्मानमभिसमीक्ष्य भुञ्जीत सम्यगिति ॥२५॥

       भवति चात्र–

       रसान्‌ द्रव्याणि दोषांश्च विकारांश्च प्रभावत: ।

       वेद यो देशकालौ च शरीरं च स नो भिषक्‌ ॥२६॥

       तत्र श्लोकौ–

       विमानार्थो रसद्रव्यदोषरोगा: प्रभावत: ।

       द्रव्याणि नातिसेव्यानि त्रिविधं सात्म्यमेव च ॥२७॥

       आहारायतनान्यष्टौ भोज्यासाद्गुण्यमेव च ।

       विमाने रससंख्याते सर्वमेतत्‌ प्रकाशितम्‌ ॥२८॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रसविमानं नाम प्रथमोऽध्याय: ॥१॥

Last updated on June 7th, 2021 at 07:35 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English