Skip to content

32. स्वेदावचारणीयचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

द्वात्रिंशत्तमोऽध्यायः ।

अथातः स्वेदावचारणीयं चिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

चतुर्विधः स्वेदः; तद्यथा- तापस्वेद, ऊष्मस्वेद, उपनाहस्वेदो, द्रवस्वेद इति; अत्र सर्वस्वेदविकल्पावरोधः ||३||

तत्र तापस्वेदः पाणिकांस्यकन्दुककपालवालुकावस्त्रैः प्रयुज्यते, शयानस्य चाङ्गतापो बहुशः खादिराङ्गारैरिति ||४||

ऊष्मस्वेदस्तु कपालपाषाणेष्टकालोहपिण्डानग्निवर्णानद्भिरासिञ्चेदम्लद्रव्यैर्वा, तैरार्द्रालक्तकपरिवेष्टितैरङ्गप्रदेशं स्वेदयेत् |

मांसरसपयोदधिस्नेहधान्याम्लवातहरपत्रभङ्गक्वाथपूर्णां वा कुम्भीमनुतप्तां प्रावृत्योष्माणं गृह्णीयात् |

पार्श्वच्छिद्रेण वा कुम्भेनाधोमुखेन तस्या मुखमभिसन्धाय तस्मिञ्छिद्रे हस्तिशुण्डाकारां नाडीं प्रणिधाय तं स्वेदयेत् ||५||

सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम् |

हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम् |

सुखा सर्वाङ्गगा ह्येषा न च क्लिश्नाति मानवम् ||६||

व्यामार्धमात्रा त्रिर्वक्रा हस्तिहस्तसमाकृतिः |

स्वेदनार्थे हिता नाडी कैलिञ्जी हस्तिशुण्डिका ||७||

पुरुषायाममात्रां च भूमिमुत्कीर्य खादिरैः |

काष्ठैर्दग्ध्वा तथाऽऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः ||८||

पत्रभङ्गैरवच्छाद्य शयानं स्वेदयेत्ततः |

पूर्ववत् स्वेदयेद्दग्ध्वा भस्मापोह्यापि वा शिलाम् ||९||

पूर्ववत् कुटीं वा चतुर्द्वारां कृत्वा तस्यामुपविष्टस्यान्तश्चतुर्द्वारेऽङ्गारानुपसन्धाय तं स्वेदयेत् ||१०||

कोशधान्यानि वा सम्यगुपस्वेद्यास्तीर्य किलिञ्जेऽन्यस्मिन् वा तत्प्रतिरूपके शयानं प्रावृत्य स्वेदयेत्; एवं पांशुगोशकृत्तुषबुसपलालोष्मभिः स्वेदयेत् ||११||

उपनाहस्वेदस्तु वातहरमूलकल्कैरम्लपिष्टैर्लवणप्रगाढैः सुस्निग्धैः सुखोष्णैः प्रदिह्य स्वेदयेत् |

एवं काकोल्यादिभिरेलादिभिः सुरसादिभिस्तिलातसीसर्षपकल्कैः कृशरापायसोत्कारिकाभिर्वेशवारैः साल्वणैर्वा तनुवस्त्रावनद्धैः स्वेदयेत् ||१२||

द्रवस्वेदस्तु वातहरद्रव्यक्वाथपूर्णे कोष्णकटाहे द्रोण्यां वाऽवगाह्य स्वेदयेत्, एवं पयोमांसरसयूषतैलधान्याम्लघृतवसामूत्रेष्ववगाहेत; एतैरेव सुखोष्णैः कषायैश्च परिषिञ्चेदिति ||१३||

तत्र तापोष्मस्वेदौ विशेषतः श्लेष्मघ्नौ, उपनाहस्वेदो वातघ्नः, अन्यतरस्मिन् पित्तसंसृष्टे द्रवस्वेद इति ||१४||

कफमेदोन्विते वायौ निवातातपगुरुप्रावरणनियुद्धाध्वव्यायामभारहरणामर्षैः स्वेदमुत्पादयेदिति ||१५||

भवन्ति चात्र-

चतुर्विधो योऽभिहितो द्विधा स्वेदः प्रयुज्यते |

सर्वस्मिन्नेव देहे तु देहस्यावयवे तथा ||१६||

येषां नस्यं विधातव्यं बस्तिश्चैव हि देहिनाम् |

शोधनीयाश्च ये केचित् पूर्वं स्वेद्यास्तु ते मताः ||१७||

पश्चात् स्वेद्या हृते शल्ये मूढगर्भाऽनुपद्रवा |

सम्यक् प्रजाता काले या पश्चात् स्वेद्या विजानता ||१८||

स्वेद्यः पूर्वं च पश्चाच्च भगन्दर्यर्शसस्तथा |

अश्मर्या चातुरो जन्तुः शेषाञ्छास्त्रे प्रचक्ष्महे ||१९||

नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविद्भिः कथञ्चित् |

दृष्टं लोके काष्ठमस्निग्धमाशु गच्छेद्भङ्गं स्वेदयोगैर्गृहीतम् ||२०||

स्नेहक्लिन्ना धातुसंस्थाश्च दोषाः स्वस्थानस्था ये च मार्गेषु लीनाः |

सम्यक् स्वेदैर्योजितैस्ते द्रवत्वं प्राप्ताः कोष्ठं शोधनैर्यान्त्यशेषम् ||२१||

अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम् |

कुर्यात् स्वेदो हन्ति निद्रां सतन्द्रां सन्धीन् स्तब्धांश्चेष्टयेदाशु युक्तः ||२२||

स्वेदास्रावो व्याधिहानिर्लघुत्वं शीतार्थित्वं मार्दवं चातुरस्य |

सम्यक्स्विन्ने लक्षणं प्राहुरेतन्मिथ्यास्विन्ने व्यत्ययेनैतदेव ||२३||

स्विन्नेऽत्यर्थं सन्धिपीडा विदाहः स्फोटोत्पत्तिः पित्तरक्तप्रकोपः |

मूर्च्छा भ्रान्तिर्दाहतृष्णे क्लमश्च कुर्यात्तूर्णं तत्र शीतं विधानम् ||२४||

पाण्डुर्मेही पित्तरक्ती क्षयार्तः क्षामोऽजीर्णी चोदरार्तो विषार्तः |

तृड्च्छर्द्यार्तो गर्भिणी पीतमद्यो नैते स्वेद्या यश्च मर्त्योऽतिसारी |

स्वेदादेषां यान्ति देहा विनाशं नोसाध्यत्वं यान्ति चैषां विकाराः ||२५||

स्वेदैः साध्यो दुर्बलोऽजीर्णभक्तः स्यातां चेद्द्वौ स्वेदनीयौ ततस्तौ |

एतेषां स्वेदसाध्या ये व्याधयस्तेषु बुद्धिमान् |

मृदून् स्वेदान् प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु ||२६||

सर्वान् स्वेदान्निवाते च जीर्णान्नस्यावचारयेत् |

स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी ||२७||

स्विद्यमानस्य च मुहुर्हृदयं शीतलैः स्पृशेत् |

सम्यक्स्विन्नं विमृदितं स्नातमुष्णाम्बुभिः शनैः ||२८||

स्वभ्यक्तं प्रावृताङ्गं च निवातशरणस्थितम् |

भोजयेदनभिष्यन्दि सर्वं चाचारमादिशेत् ||२९||

इति सुश्रुतसंहितायां चिकित्सास्थाने स्वेदावचारणीयं चिकित्सितं नाम द्वात्रिंशोऽध्यायः ||३२||

Last updated on July 8th, 2021 at 10:01 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English