सुश्रुतसंहिता ।
अथ शारीरस्थानम् ।
चतुर्थोऽध्यायः ।
अथातो गर्भव्याकरणं शारीरं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः ||३||
तस्य खल्वेवम्प्रवृत्तस्य शुक्रशोणितस्याभिपच्यमानस्य क्षीरस्येव सन्तानिकाः सप्त त्वचो भवन्ति |
तासां प्रथमाऽवभासिनी नाम, या सर्वान् वर्णानवभासयति पञ्चविधां च छायां प्रकाशयति, सा व्रीहेरष्टादशभागप्रमाणा, सिध्मपद्मकण्टकाधिष्ठाना; द्वितीया लोहिता नाम, षोडशभागप्रमाणा, तिलकालकन्यच्छव्यङ्गाधिष्ठाना; तृतीया श्वेता नाम, द्वादशभागप्रमाणा, चर्मदलाजगल्लीमषकाधिष्ठाना; चतुर्थी ताम्रा नामाष्टभागप्रमाणा, विविधकिलासकुष्ठाधिष्ठाना; पञ्चमी वेदिनी नाम पञ्चभागप्रमाणा, कुष्ठविसर्पाधिष्ठाना; षष्ठी रोहिणी नाम व्रीहिप्रमाणा, ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधिष्ठाना; सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा, भगन्दरविद्रध्यर्शोऽधिष्ठाना |
यदेतत् प्रमाणं निर्दिष्टं तन्मांसलेष्ववकाशेषु, न ललाटे सूक्ष्माङ्गुल्यादिषु च; यतो वक्ष्यत्युदरेषु- ‘व्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येत्’(चि.१४) इति ||४||
कलाः खल्वपि सप्त भवन्ति धात्वाशयान्तरमर्यादाः ||५||
भवतश्चात्र-
यथा हि सारः काष्ठेषु छिद्यमानेषु दृश्यते |
तथाहि धातुर्मांसेषु छिद्यमानेषु दृश्यते ||६||
स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा |
श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः ||७||
तासां प्रथमा मांसधरा, यस्यां मांसे सिरास्नायुधमनीस्रोतसां प्रताना भवन्ति ||८||
यथा बिसमृणालानि विवर्धन्ते समन्ततः |
भूमौ पङ्कोदकस्थानि तथा मांसे सिरादयः ||९||
द्वितीया रक्तधरा मांसस्याभ्यन्तरतः, तस्यां शोणितं विशेषतश्च सिरासु यकृत्प्लीह्नोश्च भवति ||१०||
वृक्षाद्यथाभिप्रहतात् क्षीरिणः क्षीरिमावहेत् |
मांसादेवं क्षतात् क्षिप्रं शोणितं सम्प्रसिच्यते ||११||
तृतीया मेदोधरा; मेदो हि सर्वभूतानामुदरस्थमण्वस्थिषु च, महत्सु च मज्जा भवति ||१२||
स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तराश्रितः |
अथेतरेषु सर्वेषु सरक्तं मेद उच्यते |
शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता ||१३||
चतुर्थी श्लेष्मधरा सर्वसन्धिषु प्राणभृतां भवति ||१४||
स्नेहाभ्यक्ते यथा ह्यक्षे चक्रं साधु प्रवर्तते |
सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा ||१५||
पञ्चमी पुरीषधरा नाम; याऽन्तःकोष्ठे मलमभिविभजते पक्वाशयस्था ||१६||
यकृत्समन्तात् कोष्ठं च तथाऽन्त्राणि समाश्रिता |
उण्डु(न्दु)कस्थं विभजते मलं मलधरा कला ||१७||
षष्ठी पित्तधरा; या चतुर्विधमन्नपानमामाशयात् प्रच्युतं पक्वाशयोपस्थितं धारयति ||१८||
अशितं खादितं पीतं लीढं कोष्ठगतं नृणाम् |
तज्जीर्यति यथाकालं शोषितं पित्ततेजसा ||१९||
सप्तमी शुक्रधरा, या सर्वप्राणिनां सर्वशरीरव्यापिनी ||२०||
यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा |
शरीरेषु तथा शुक्रं नृणां विद्याद्भिषग्वरः ||२१||
द्व्यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः |
मूत्रस्रोतःपथाच्छुक्रं पुरुषस्य प्रवर्तते ||२२||
कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा |
स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्तते ||२३||
गृहीतगर्भाणामार्तववहानां स्रोतसां वर्त्मान्यवरुध्यन्ते गर्भेण, तस्माद्गृहीतगर्भाणामार्तवं न दृश्यते; ततस्तदधः प्रतिहतमूर्ध्वमागतमपरं चोपचीयमानमपरेत्यभिधीयते; शेषं चोर्ध्वतरमागतं पयोधरावभिप्रतिपद्यते, तस्माद्गर्भिण्यः पीनोन्नतपयोधरा भवन्ति ||२४||
गर्भस्य यकृत्प्लीहानौ शोणितजौ, शोणितफेनप्रभवः फुप्फुसः, शोणितकिट्टप्रभव उण्डुकः ||२५||
असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः |
तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति ||२६||
ततोऽस्यान्त्राणि जायन्ते गुदं बस्तिश्च देहिनः |
उदरे पच्यमानानामाध्मानाद्रुक्मसारवत् ||२७||
कफशोणितमांसानां साराज्जिह्वा प्रजायते |
यथार्थमूष्मणा युक्तो वायुः स्रोतांसि दारयेत् ||२८||
अनुप्रविश्य पिशितं पेशीर्विभजते तथा |
मेदसः स्नेहमादाय सिरास्नायुत्वमाप्नुयात् ||२९||
सिराणां तु मृदुः पाकः स्नायूनां च ततः खरः |
आशय्याभ्यासयोगेन करोत्याशयसम्भवम् ||३०||
रक्तमेदःप्रसादाद्वृक्कौ; मांसासृक्कफमेदःप्रसादाद्वृषणौ; शोणितकफप्रसादजं हृदयं, यदाश्रया हि धमन्यः प्राणवहाः; तस्याधो वामतः प्लीहा फुप्फुसश्च, दक्षिणतो यकृत् क्लोम च; तद्विशेषेण चेतनास्थानम्, अतस्तस्मिंस्तमसाऽऽवृते सर्वप्राणिनः स्वपन्ति ||३१||
भवति चात्र-
पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् |
जाग्रतस्तद्विकसति स्वपतश्च निमीलति ||३२||
निद्रां तु वैष्णवीं पाप्मानमुपदिशन्ति, सा स्वभावत एव सर्वप्राणिनोऽभिस्पृशति |
तत्र यदा सञ्ज्ञावहानि स्रोतांसि तमोभूयिष्ठः श्लेष्मा प्रतिपद्यते तदा तामसी नाम निद्रा सम्भवत्यनवबोधिनी, सा प्रलयकाले; तमोभूयिष्ठानामहःसु निशासु च भवति, रजोभूयिष्ठानामनिमित्तं, सत्त्वभूयिष्ठानामर्धरात्रे; क्षीणश्लेष्मणामनिलबहुलानां मनःशरीराभितापवतां च नैव, सा वैकारिकी भवति ||३३||
भवतश्चात्र-
हृदयं चेतनास्थानमुक्तं सुश्रुत ! देहिनाम् |
तमोभिभूते तस्मिंस्तु निद्रा विशति देहिनम् ||३४||
निद्राहेतुस्तमः, सत्त्वं बोधने हेतुरुच्यते |
स्वभाव एव वा हेतुर्गरीयान् परिकीर्त्यते ||३५||
पूर्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः |
रजोयुक्तेन मनसा गृह्णात्यर्थाञ् शुभाशुभान् ||३६||
करणानां तु वैकल्ये तमसाऽभिप्रवर्धिते |
अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ||३७||
सर्वर्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात्, प्रतिषिद्धेष्वपि तु बालवृद्धस्त्रीकर्शितक्षतक्षीणमद्यनित्ययानवाहनाध्वकर्मपरिश्रान्तानामभुक्तवतां मेदःस्वेदकफरसरक्तक्षीणानामजीर्णिनां च मुहूर्तं दिवास्वपनमप्रतिषिद्धम् |
रात्रावपि जागरितवतां जागरितकालादर्धमिष्यते दिवास्वपनम् |
विकृतिर्हि दिवास्वप्नो नाम; तत्र स्वपतामधर्मः सर्वदोषप्रकोपश्च, तत्प्रकोपाच्च कासश्वासप्रतिश्यायशिरोगौरवाङ्गमर्दारोचकज्वराग्निदौर्बल्यानि भवन्ति; रात्रावपि जागरितवतां वातपित्तनिमित्तास्त एवोपद्रवा भवन्ति ||३८||
भवन्ति चात्र-
तस्मान्न जागृयाद्रात्रौ दिवास्वप्नं च वर्जयेत् |
ज्ञात्वा दोषकरावेतौ बुधः स्वप्नं मितं चरेत् ||३९||
अरोगः सुमना ह्येवं बलवर्णान्वितो वृषः |
नातिस्थूलकृशः श्रीमान् नरो जीवेत् समाः शतम् ||४०||
(निद्रा सात्म्यीकृता यैस्तु रात्रौ च यदि वा दिवा|)
दिवारात्रौ च ये नित्यं स्वप्नजागरणोचिताः |
न तेषां स्वपतां दोषो जाग्रतां वाऽपि जायते ||४१||
निद्रानाशोऽनिलात् पित्तान्मनस्तापात् क्षयादपि |
सम्भवत्यभिघाताच्च प्रत्यनीकैः प्रशाम्यति ||४२||
निद्रानाशेऽभ्यङ्गयोगो मूर्ध्नि तैलनिषेवणम् |
गात्रस्योद्वर्तनं चैव हितं संवाहनानि च ||४३||
शालिगोधूमपिष्टान्नभक्ष्यैरैक्षवसंस्कृतैः |
भोजनं मधुरं स्निग्धं क्षीरमांसरसादिभिः ||४४||
रसैर्बिलेशयानां च विष्किराणां तथैव च |
द्राक्षासितेक्षुद्रव्याणामुपयोगो भवेन्निशि ||४५||
शयनासनयानानि मनोज्ञानि मृदूनि च |
निद्रानाशे तु कुर्वीत तथाऽन्यान्यपि बुद्धिमान् ||४६||
निद्रातियोगे वमनं हितं संशोधनानि च |
लङ्घनं रक्तमोक्षश्च मनोव्याकुलनानि च ||४७||
कफमेदोविषार्तानां रात्रौ जागरणं हितम् |
दिवास्वप्नश्च तृट्शूलहिक्काजीर्णातिसारिणाम् ||४८||
इन्द्रियार्थेष्वसम्प्राप्तिर्गौरवं जृम्भणं क्लमः |
निद्रार्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ||४९||
पीत्वैकमनिलोच्छ्वासमुद्वेष्टन् विवृताननः |
यं मुञ्चति सनेत्रास्रं स जृम्भ इति सञ्ज्ञितः ||५०||
योऽनायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः |
क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः ||५१||
सुखस्पर्शप्रसङ्गित्वं दुःखद्वेषणलोलता |
शक्तस्य चाप्यनुत्साहः कर्मस्वालस्यमुच्यते ||५२||
उत्क्लिश्यान्नं न निर्गच्छेत् प्रसेकष्ठीवनेरितम् |
हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेत् ||५३||
वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः |
न चान्नमभिकाङ्क्षेत ग्लानिं तस्य विनिर्दिशेत् ||५४||
आर्द्रचर्मावनद्धं वा यो गात्रं मन्यते नरः |
तथा गुरु शिरोऽत्यर्थं गौरवं तद्विनिर्दिशेत् ||५५||
मूर्च्छा पित्ततमःप्राया, रजःपित्तानिलाद्भ्रमः |
तमोवातकफात्तन्द्रा, निद्रा श्लेष्मतमोभवा ||५६||
गर्भस्य खलु रसनिमित्ता मारुताध्माननिमित्ता च परिवृद्धिर्भवति ||५७||
भवन्ति चात्र-
तस्यान्तरेण नाभेस्तु ज्योतिःस्थानं ध्रुवं स्मृतम् |
तदाधमति वातस्तु देहस्तेनास्य वर्धते ||५८||
ऊष्मणा सहितश्चापि दारयत्यस्य मारुतः |
ऊर्ध्वं तिर्यगधस्ताच्च स्रोतांस्यपि यथा तथा ||५९||
दृष्टिश्च रोमकूपाश्च न वर्धन्ते कदाचन |
ध्रुवाण्येतानि मर्त्यानामिति धन्वन्तरेर्मतम् ||६०||
शरीरे क्षीयमाणेऽपि वर्धेते द्वाविमौ सदा |
स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः ||६१||
सप्त प्रकृतयो भवन्ति- दोषैः पृथक्, द्विशः, समस्तैश्च ||६२||
शुक्रशोणितसंयोगे यो भवेद्दोष उत्कटः |
प्रकृतिर्जायते तेन तस्या मे लक्षणं शृणु ||६३||
तत्र वातप्रकृतिः प्रजागरूकः शीतद्वेषी दुर्भगः स्तेनो मत्सर्यनार्यो गन्धर्वचित्तः स्फुटितकरचरणोऽल्परूक्षश्मश्रुनखकेशः क्राथी दन्तखादी च भवति ||६४||
अधृतिरदृढसौहृदः कृतघ्नः कृशपरुषो धमनीततः प्रलापी |
द्रुतगतिरटनोऽनवस्थितात्मा वियति च गच्छति सम्भ्रमेण सुप्तः ||६५||
अव्यवस्थितमतिश्चलदृष्टिर्मन्दरत्नधनसञ्चयमित्रः |
किञ्चिदेव विलपत्यनिबद्धं मारुतप्रकृतिरेष मनुष्यः ||६६||
(वातिकाश्चाजगोमायुशशाखूष्ट्रशुनां तथा |
गृध्रकाकखरादीनामनूकैः कीर्तिता नराः) ||६७||
पित्तप्रकृतिस्तु स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलो दुर्भगो वलीपलितखालित्यजुष्टो बहुभुगुष्णद्वेषी क्षिप्रकोपप्रसादो मध्यबलो मध्यायुश्च भवति ||६८||
मेधावी निपुणमतिर्विगृह्य वक्ता तेजस्वी समितिषु दुर्निवारवीर्यः |
सुप्तः सन् कनकपलाशकर्णिकारान् सम्पश्येदपि च हुताशविद्युदुल्काः ||६९||
न भयात् प्रणमेदनतेष्वमृदुः प्रणतेष्वपि सान्त्वनदानरुचिः |
भवतीह सदा व्यथितास्यगतिः स भवेदिह पित्तकृतप्रकृतिः ||७०||
(भुजङ्गोलूकगन्धर्वयक्षमार्जारवानरैः |
व्याघ्रर्क्षनकुलानूकैः पैत्तिकास्तु नराःस्मृताः ||७१||
श्लेष्मप्रकृतिस्तु दूर्वेन्दीवरनिस्त्रिंशार्द्रारिष्टकशरकाण्डानामन्यतमवर्णः सुभगः प्रियदर्शनो मधुरप्रियः कृतज्ञो धृतिमान् सहिष्णुरलोलुपो बलवांश्चिरग्राही दृढवैरश्च भवति ||७२||
शुक्लाक्षः स्थिरकुटिलालिनीलकेशो लक्ष्मीवान् जलदमृदङ्गसिंहघोषः |
सुप्तः सन् सकमलहंसचक्रवाकान् सम्पश्येदपि च जलाशयान् मनोज्ञान् ||७३||
रक्तान्तनेत्रः सुविभक्तगात्रः स्निग्धच्छविः सत्त्वगुणोपपन्नः |
क्लेशक्षमो मानयिता गुरूणां ज्ञेयो बलासप्रकृतिर्मनुष्यः ||७४||
(दृढशास्त्रमतिः स्थिरमित्रधनः परिगण्य चिरात् प्रददाति बहु |
परिनिश्चितवाक्यपदः सततं गुरुमानकरश्च भवेत् स सदा ||७५||
ब्रह्मरुद्रेन्द्रवरुणैः सिंहाश्वगजगोवृषैः |
तार्क्ष्यहंससमानूकाः श्लेष्मप्रकृतयो नराः ||७६||
द्वयोर्वा तिसृणां वाऽपि प्रकृतीनां तु लक्षणैः |
ज्ञात्वा संसर्गजा वैद्यः प्रकृतीरभिनिर्दिशेत् ||७७||
प्रकोपो वाऽन्यथाभावो क्षयो वा नोपजायते |
प्रकृतीनां स्वभावेन जायते तु गतायुषः ||७८||
विषजातो यथा कीटो न विषेण विपद्यते |
तद्वत्प्रकृतयो मर्त्यं शक्नुवन्ति न बाधितुम् ||७९||
प्रकृतिमिह नराणां भौतिकीं केचिदाहुः
पवनदहनतोयैः कीर्तितास्तास्तु तिस्रः |
स्थिरविपुलशरीरः पार्थिवश्च क्षमावाञ्
शुचिरथ चिरजीवी नाभसः खैर्महद्भिः ||८०||
शौचमास्तिक्यमभ्यासो वेदेषु गुरुपूजनम् |
प्रियातिथित्वमिज्या च ब्रह्मकायस्य लक्षणम् ||८१||
माहात्म्यं शौर्यमाज्ञा च सततं शास्त्रबुद्धिता |
भृत्यानां भरणं चापि माहेन्द्रं कायलक्षणम् ||८२||
शीतसेवा सहिष्णुत्वं पैङ्गल्यं हरिकेशता |
प्रियवादित्वमित्येतद्वारुणं कायलक्षणम् ||८३||
मध्यस्थता सहिष्णुत्वमर्थस्यागमसञ्चयौ |
महाप्रसवशक्तित्वं कौबेरं कायलक्षणम् ||८४||
गन्धमाल्यप्रियत्वं च नृत्यवादित्रकामिता |
विहारशीलता चैव गान्धर्वं कायलक्षणम् ||८५||
प्राप्तकारी दृढोत्थानो निर्भयः स्मृतिमाञ्छुचिः |
रागमोहमदद्वेषैर्वर्जितो याम्यसत्त्ववान् ||८६||
जपव्रतब्रह्मचर्यहोमाध्ययनसेविनम् |
ज्ञानविज्ञानसम्पन्नमृषिसत्त्वं नरं विदुः ||८७||
सप्तैते सात्त्विकाः कायाराजसांस्तु निबोध मे |
ऐश्वर्यवन्तं रौद्रं च शूरं चण्डमसूयकम् ||८८||
एकाशिनं चौदरिकमासुरं सत्त्वमीदृशम् |
तीक्ष्णमायासिनं भीरुं चण्डं मायान्वितं तथा ||८९||
विहाराचारचपलं सर्पसत्त्वं विदुर्नरम् |
प्रवृद्धकामसेवी चाप्यजस्राहार एव च ||९०||
अमर्षणोऽनवस्थायी शाकुनं कायलक्षणम् |
एकान्तग्राहिता रौद्रमसूया धर्मबाह्यता ||९१||
भृशमात्रं तमश्चापि राक्षसं कायलक्षणम् |
उच्छिष्टाहारता तैक्ष्ण्यं साहसप्रियता तथा ||९२||
स्त्रीलोलुपत्वं नैर्लज्ज्यं पैशाचं कायलक्षणम् |
असंविभागमलसं दुःखशीलमसूयकम् ||९३||
लोलुपं चाप्यदातारं प्रेतसत्त्वं विदुर्नरम् |
षडेते राजसाः कायाः, तामसांस्तु निबोध मे ||९४||
दुर्मेधस्त्वं मन्दता च स्वप्ने मैथुननित्यता |
निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः ||९५||
अनवस्थितता मौर्ख्यं भीरुत्वं सलिलार्थिता |
परस्पराभिमर्दश्च मत्स्यसत्त्वस्य लक्षणम् ||९६||
एकस्थानरतिर्नित्यमाहारे केवले रतः |
वानस्पत्यो नरः सत्त्वधर्मकामार्थवर्जितः ||९७||
इत्येते त्रिविधाः कायाः प्रोक्ता वै तामसास्तथा |
कायानां प्रकृतीर्ज्ञात्वा त्वनुरूपां क्रियां चरेत् ||९८||
महाप्रकृतयस्त्वेता रजःसत्त्वतमःकृताः |
प्रोक्ता लक्षणतः सम्यग्भिषक् ताश्च विभावयेत् ||९९||
इति सुश्रुतसंहितायां शारीरस्थाने गर्भव्याकरणं शारीरं नाम चतुर्थोऽध्यायः ||४||
Last updated on June 8th, 2021 at 05:41 am