Skip to content

11. Tisraishan`eeya – Sootra – C”

एकादशोऽध्यायः ।

अथातस्तिस्रैषणीयमध्यायं व्याख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

इह खलु पुरुषेणानुपहतसत्त्वबुद्धिपौरुषपराक्रमेण हितमिह

चामुष्मिंश्च लोके समनुपश्यता तिस्र एषणाः पर्येष्टव्या

भवन्ति। तद्यथा-प्राणैषणा, धनैषणा, परलोकैषणेति ॥३॥

आसां तु खल्वेषणानां प्राणैषणां तावत्‌ पूर्वतरमापद्येत ।

कस्मात्‌? प्राणपरित्यागे हि सर्वत्यागः । तस्यानुपालनं-

स्वस्थस्य स्वस्थवृत्तानुवृत्तिः, आतुरस्य विकारप्रमशनेऽप्रमादः,

तदुभयमेतदुक्तं वक्ष्यते च, तद्यथोक्तमनुवर्तमानः प्राणानुपालना-

द्दीर्घमायुरवाप्नोतीति प्रथमैषणा व्याख्याता भवति ॥४॥

अथ द्वितीयां धनैषणामापद्येत, प्राणेभ्यो ह्यनन्तरं धनमेव पर्ये-

ष्टव्यं भवति, न ह्यतः पापात्‌ पापीयोऽस्ति यदनुपकरणस्य

दीर्घमायुः, तस्मादुपकरणानि पर्येष्टुं यतेत । तत्रोपकरणोपाया-

ननुव्याख्यास्यामः, तद्यथा-कृषिपाशुपाल्यवाणिज्यराजोपसेवादीनि,

यानि चान्यान्यपि सतामविगर्हितानि कर्माणि वृत्तिपुष्टिकराणि

विद्यात्तान्यारभेत कर्तुं, तथा कुर्वन्‌ दीर्घजीवितं जीवत्यनवमतः

पुरुषो भवति । इति द्वितीया धनैषणा व्याख्याता भवति ॥५॥

अथ तृतीयां परलोकैषणामापद्येत । संशयश्चात्र, कथं ? भविष्याम

इतयुता नवेति; कुतः पुनः संशय इति, उच्यते-सन्ति ह्येके प्रत्यक्षपराः परोक्षत्वात्‌ पुनर्भवस्य नास्तिक्यमाश्रिताः, सन्ति चागमप्रत्ययादेव पुनर्भवमिच्छन्ति, श्रुतिभेदाच्च-

मातरं पितरं चैके मन्यन्ते जन्मकारणम्‌ ।

स्वभावं परनिर्माणं यदृच्छां चापरे जनाः ॥ इति ।’

अतः संशयः-किं नु खल्वस्ति पुनर्भवो न वेति ॥६॥

तत्र बुद्धिमान्नास्तिक्यबुद्धिं जह्याद्विचिकित्सां च । कस्मात्‌ ?

प्रत्यक्षं ह्यल्पम्‌; अनल्पमप्रत्यक्षमस्ति, यदागमानुमानयुक्ति-

भिरुपलभ्यते; यैरेव तावदिन्द्रियैः प्रत्यक्षमुपलभ्यते, तान्येव

सन्ति चाप्रत्यक्षाणि ॥७॥

सतां च रूपाणामतिसन्निकर्षादतिविप्रकर्षादावरणात्‌

करणदौर्बल्यान्मनोनवस्थानात्‌ समानाभिहारादभिभवादति-

सौक्ष्म्याच्च प्रत्यक्षानुपलब्धिः, तस्मादपरीक्षितमेतदुच्यते-प्रत्यक्ष-

मेवास्ति, नान्यदस्तीति ॥८॥

श्रुतयश्चैता न कारणं, युक्तिविरोधात्‌ ।

आत्मा मातुः पितुर्वा यः सोऽपत्यं यदि संचरेत्‌ ।

द्विविधं संचरेदात्मा सर्वोवाऽवयवेन वा ॥९॥

सर्वश्चेत्‌ संचरेन्मातुः पितुर्वा मरणं भवेत्‌ ।

निरन्तरं, नावयवः कश्चित्सूक्ष्मस्य चात्मनः ॥१०॥

बुद्धिर्मनश्च निर्णीते यथैवात्मा तथैव ते ।

येषां चैषा मतिस्तेषां योनिर्नास्ति चतुर्विधा ॥११॥

विद्यात्‌ स्वाभाविकं षण्णां धातूनां यत्‌ स्वलक्षणम्‌ ।

संयोगे च वियोगे च तेषां कर्मैव कारणम्‌ ॥१२॥

अनादेश्चेतनाधातोर्नेष्यते परनिर्मितिः ।

पर आत्मा स चेद्धेतुरिष्टोऽस्तु परनिर्मितिः ॥१३॥

न परीक्षा न परीक्ष्यं न कर्ता कारणं न च ।

न देवा नर्षयः सिद्धाः कर्म कर्मफलं न च ॥१४॥

नास्तिकस्यास्ति नैवात्मा यदृच्छोपहतात्मनः ।

पातकेभ्यः परं चैतत्‌ पातकं नास्तिकग्रहः ॥१५॥

तस्मान्मतिं विमुच्यैताममार्गप्रसृतां बुधः ।

सतां बुद्धिप्रदीपेन पश्येत्सर्वं यथातथम्‌ ॥१६॥

द्विविधमेव खलु सर्वं सच्चासच्च, तस्य चतुर्विधा परीक्षा- आप्तोपदेशः, प्रत्यक्षम्‌, अनुमानं, युक्तिश्चेति ॥१७॥

आप्तास्तावत्‌ –

रजस्तमोभ्यां निर्मुक्तास्तपोज्ञानबलेन ये ।

येषां त्रिकालममलं ज्ञानमव्याहतं सदा ॥१८॥

आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम्‌ ।

सत्यं, वक्ष्यन्ति ते कस्मादसत्यं नीरजस्तमाः ॥१९॥

आत्मेन्द्रियमनोर्थानां सन्निकर्षात्‌ प्रवर्तते ।

व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं सा निरुच्यते ॥२०॥

प्रत्यक्षपूर्वं त्रिविधं त्रिकालं चानुमीयते ।

वह्निर्निगूढो धूमेन मैथुनं गर्भदर्शनात्‌ ॥२१॥

एवं व्यवस्यन्त्यतीतं बीजात्‌ फलमनागतम्‌ ।

दृष्ट्वा बीजात्‌ फलं जातमिहैव सदृशं बुधाः ॥२२॥

जलकर्षणबीजर्तुसंयोगात्‌ सस्यसंभवः ।

युक्तिः षड्‌धातुसंयोगाद्गर्भाणां संभवस्तथा ॥२३॥

मथ्यमन्थन(क)मन्थानसंयोगादग्निसंभवः ।

युक्तियुक्ता चतुष्पादसम्पद्व्याधिनिबर्हणी ॥२४॥

बुद्धिः पश्यति या भावान्‌ बहुकारणयोगजान्‌ ।

युक्तिस्त्रिकाला सा ज्ञेया त्रिवर्गः साध्यते यया ॥२५॥

एषा परीक्षा नास्त्यन्या यया सर्वं परीक्ष्यते ।

परीक्ष्यं सदसच्चैवं तया चास्ति पुनर्भवः ॥२६॥

तत्राप्तागमस्तावद्वेदः, यश्चान्योऽपि कश्चिद्वेदार्थादविपरीतः परीक्षकैः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शास्त्रवादः, स चाऽऽप्तागमः; आप्तागमादुपलभ्यतेदानतपोयज्ञसत्याहिंसा ब्रह्मचर्याण्यभ्युदयनिःश्रेयसकराणीति ॥२७॥

न चानतिवृत्तसत्त्वदोषाणामदोषैरपुनर्भवो धर्मद्वारेषूपदिश्यते ॥२८॥

धर्मद्वारावहितैश्च व्यपगतभयरागद्वेषलोभमोहमानैर्ब्रह्मपरैराप्तैः कर्मविद्भिरनुपहतसत्त्वबुद्धिप्रचारैः पूर्वैः पूर्वतरैर्महर्षिभिर्दिव्यचक्षुभि- र्दृष्ट्वोपदिष्टः पुनर्भव इति व्यवस्येदेवम्‌ ॥२९॥

प्रत्यक्षमपि चोपलभ्यते- मातापित्रोर्विसदृशान्यपत्यानि, तुल्यसंभवानां

वर्णस्वराकृतिसत्त्वबुद्धिभाग्यविशेषोः, प्रवरावरकुलजन्म, दास्यैश्वर्यं

सुखासुखमायुः, आयुषो वैषम्यम्‌, इह कृतस्यावाप्तिः, अशिक्षितानां

च रुदितस्तनपानहासत्रासादीनां प्रवृत्तिः, लक्षणोत्पत्तिः, कर्मसादृश्ये

फलविशेषः, मेधा क्वचित्‌ क्वचित्‌ कर्मण्यमेधा, जातिस्मरणम्‌ – इहागमनमितश्च्युतानामिति, समदर्शने प्रियाप्रियत्वम्‌ ॥३०॥

अत एवानुमीयते -यत्‌ -स्वकृतमपरिहार्यमविनाशि पौर्वदेहिकं दैव-

संज्ञकमानुबन्धिकं कर्म, तस्यैतत्‌ फलम्‌, इतश्चान्यद्भविष्यतीति,

फलाद्बीजमनुमीयते, फलं च बीजात्‌ ॥३१॥

युक्तिश्चैषा -षड्‌धातुसमुदयाद्गर्भजन्म, कर्तृकरणसंयोगात्‌ क्रिया;

कृतस्य कर्मणः फलं नाकृतस्य, नाङ्कुरोत्पत्तिरबीजात्; कर्मसदृशं फलं, नान्यस्माद्बीजादन्यस्योत्पत्तिः; इति युक्तिः ॥३२॥

एवं प्रमाणैश्चतुर्भिरुपदिष्टे पुनर्भवे धर्मद्वारेष्ववधीयेत; तद्यथा -गुरु-

शुश्रूषायामध्ययने व्रतचर्यायां दारक्रियायामपत्योत्पादने भृत्यभरणेऽतिथिपूजायां दानेऽनभिध्यायां तपस्यनसूयायां देहवाङ्‌मानसे कर्मण्य- क्लिष्टे देहेन्द्रियमनोर्थबुद्ध्यात्मपरीक्षायां मनःसमाधाविति; यानि चान्यान्यप्येवंविधानि कर्माणि सतामविगर्हितानि स्वर्ग्याणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं; तथा कुर्वन्निह चैव यशो लभते प्रेत्य च स्वर्गम्‌ । इति तृतीया परलोकैषणा व्याख्याता भवति ॥३३॥

अथ खलु त्रय उपस्तम्भाः, त्रिविधं बलं, त्रीण्यायतनानि, त्रयो रोगाः,

त्रयो रोगमार्गाः, त्रिविधा भिषजः, त्रिविधमौषधमिति ॥३४॥

त्रय उपस्तमभा इति -आहारः, स्वप्नो, ब्रह्मचर्यमिति; एभिस्त्रिभिर्युक्तिर्युक्तैरुपस्तब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोपचितमनुवर्तते यावदायुःसंस्कारात्‌ संस्कारमहितमनुपसेवमानस्य, य इहैवोपदेक्ष्यते ॥३५॥

 त्रिविधं बलमिति -सहजं, कालजं, युक्तिकृतं च । सहजं यच्छरीरसत्त्वयोः प्राकृतं, कालकृतमृतुविभागजं वयःकृतं च,

युक्तिकृतं च, युक्तिकृतं पुनस्तद्यदाहारचेष्टायोगजम्‌ ॥३६॥

त्रीण्यायतनानीति- अर्थानां कर्मणः कालस्य चातियोगायोगमिथ्यायोगाः । तत्रातिप्रभावतां दृश्यानामतिमात्रं दर्शनमतियोगः, सर्वशोऽदर्शनमयोगः, अतिश्लिष्टातिविप्रकृष्टरौद्रभैरवाद्भुतद्विष्टबीभत्सनविकृतवित्रासनादिरूपदर्शनं मिथ्यायोगः, तथाऽतिमात्र- स्तनितपटहोत्क्रुष्टादीनां शब्दानामतिमात्रं श्रवणमतियोगः, सर्वशोऽश्रवणमयोगः, परुषेष्टविनाशोपघातप्रघर्षणभीषणादिशब्दश्रवणं मिथ्यायोग:; तथाऽतितीक्ष्णोग्राभिष्यान्दिनां गन्धानामतिमात्रं घ्राणमतियोग: सर्वशोऽघ्राणमयोगः, पूतिद्विष्टामेध्यक्लिन्नविषपवनकुणपगन्धादिघ्राणं मिथ्यायोगः, तथा रसानामत्यादानमतियोगः, सर्वशोऽनादानमयोगः, मिथ्यायोगो राशिव-

र्ज्येष्वाहारविधिविशेषायतनेषूपदेक्ष्यते; तथाऽतिशीतोष्णानां स्पृश्यानां स्नानाभ्यङ्गोत्सादनादीनां चात्युपसेवनमतियोगः, सर्वशोऽनुप- सेवनमयोगः, स्नानादीनां शीतोष्णादीनां च स्पृश्यानामनानुपूर्व्योपसेवनं विषमस्थानाभिघाताशुचिभूतसंस्पर्शादयश्चेति मिथ्यायोगः ॥३७॥

तत्रैकं स्पर्शनमिन्द्रियाणामिन्द्रियव्यापकं, चेतःसमवायि, स्पर्शनव्याप्तेर्व्यापकमपि च चेतः; तस्मात्‌ सर्वेन्द्रियाणां व्यापकस्पर्शकृतो यो भावविशेषः, सोऽयमनुपशयात्‌ पञ्चविधस्त्रिविधविकल्पो भवत्यसात्म्येन्द्रियार्थसंयोगः; सात्म्यार्थो ह्युपशयार्थः ॥३८॥

कर्म वाङ्‌मनःशरीरप्रवृत्तिः । तत्र वाङ्‌मनःशरीरातिप्रवृत्तिरतियोगः; सर्वशोऽप्रवृत्तिरयोगः; वेगधारणोदीरणविषमस्खलनपतनाङ्गप्रणि- धानाङ्गप्रदूषणप्रहारमर्दनप्राणोपरोधसंक्लेशनादिः शारीरो मिथ्यायोगः, सूचकानृताकालकलहाप्रियाबद्धानुपचारपरुषवचना- दिर्वाङ्मिथ्यायोगः, भयशोकक्रोधलोभमोहमानेर्ष्यामिथ्यादर्शनादिर्मानसो मिथ्यायोगः ॥३९॥

संग्रहेण चातियोगायोगवर्जं कर्म वाङ्‌मनःशरीरजमहितमनुपदिष्टं

यत्तच्च मिथ्यायोगं विद्यात्‌ ॥४०॥

इति त्रिविधविकल्पं त्रिविधमेव कर्म प्रज्ञापराध इति व्यवस्येत्‌  ॥४१॥

 शीतोष्णवर्षलक्षणाः पुनर्हेमन्तग्रीष्मवर्षाः संवत्सरः, स कालः।

तत्रातिमात्रस्वलक्षणः कालः कालातियोगः, हीनस्वलक्षणः(कालः)

कालायोगः, यथास्वलक्षणविपरीतलक्षणस्तु(कालः) कालमिथ्या-

योगः। कालः पुनः परिणाम उच्यते ॥४२॥

इत्यसात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः परिणामश्चेति त्रयस्त्रिविध- विकल्पा हेतवो विकाराणां; समयोगयुक्तास्तु प्रकृतिहेतवो भवन्ति ॥४३॥

सर्वेषामेव भावानां भावाभावौ नान्तरेण योगायोगातियोगमिथ्यायोगान्‌

समुपलभ्येते; यथास्वयुक्त्यपेक्षिणौ हि भावाभावौ ॥४४॥

त्रयो रोगा इति- निजागन्तुमानसाः । तत्र निजः शारीरदोषसमुत्थः,

आगन्तुर्भूतविषवाय्वग्निसंप्रहारादिसमुत्थः, मानसः पुनरिष्टस्य

लाभाल्लाभाच्चानिष्टस्योपजायते ॥४५॥

तत्र बुद्धिमता मानसव्याधिपरीतेनापि सता बुद्ध्या हिताहितमवेक्ष्यावेक्ष्य धर्मार्थकामानामहितानामनुपसेवने हितानांचोपसेवने प्रयतितव्यं, न ह्यन्तरेण लोके त्रयमेतन्मानसंकिंचिन्निष्पद्यते सुखं वा दुःखं वा, तस्मादेतच्चानुष्ठेयं तद्विद्यानां चोपसेवने प्रयतितव्यम्‌, आत्मदेशकुलकालबलशक्तिज्ञाने यथावच्चेति ॥४६॥

भवति चात्र–

मानसं प्रति भैषज्यं त्रिवर्गस्यान्ववेक्षणम्‌ ।

तद्विद्यसेवा विज्ञानमात्मादीनां च सर्वशः ॥४७॥

त्रयो रोगमार्गा इति- शाखा, मर्मास्थिसन्धयः, कोष्ठश्च । तत्र शाखा रक्तादयो धातवस्त्वक्‌ च, स बाह्यो रोगमार्गः; मर्माणि पुनर्बस्ति- हृदयमूर्धादीनि, अस्थिसन्धयोऽस्थिसंयोगास्तत्रोपनिबद्धाश्च स्नायुकण्डराः, स मध्यमो रोगमार्गः; कोष्ठः पुनरुच्यते महास्रोतः शरीरमध्यं महानिम्नमामपक्वाशयश्चेति पर्यायशब्दैस्तन्त्रे, स रोगमार्ग आभ्यन्तरः ॥४८॥

तत्र, गण्डपिडकालज्यपचीचर्मकीलाधिमांसमषककुष्ठव्यङ्गादयो विकारा बहिर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः शाखानुसारिणो भवन्ति रोगाः, पक्षवधग्रहापतानकार्दितशोषराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयः शिरोहृद्बस्तिरोगादयश्च मध्यममार्गानुसारिणो भवन्ति रोगाः, ज्वरातीसारच्छर्द्यलसकविसूचिकाकासश्वासहिक्कानाहोदरप्लीहादयोऽन्तर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः, कोष्ठानुसारिणो भवन्ति रोगाः ॥४९॥

त्रिविधा भिषज इति –

भिषक्छद्मचराः सन्ति सन्त्येके सिद्धसाधिताः ।

सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिषजो भुवि ॥५०॥

वैद्यभाण्डौषधैः पुस्तै पल्लवैरवलोकनैः ।

लभन्ते ये भिषक्शब्दमज्ञास्ते प्रतिरूपकाः ॥५१॥

श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः ।

वैद्यशब्दं लभन्ते ये ज्ञेयास्ते सिद्धसाधिताः ॥५२॥

प्रयोगज्ञानविज्ञान सिद्धिसिद्धाः सुखप्रदाः ।

जीविताभिसरास्ते स्युर्वैद्यत्वं तेष्ववस्थितमिति ॥५३॥

त्रिविधमौषधमिति-दैवव्यपाश्रयं, युक्तिव्यपाश्रयं, सत्त्वावजयश्च । तत्र

दैवव्यपाश्रयं- मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि, युक्तिव्यपाश्रयं- पुनराहारौषधद्रव्याणां योजना, सत्त्वावजयः-पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः ॥५४॥

शरीरदोषप्रकोपे खलु शरीरमेवाश्रित्य प्रायशस्त्रिविधमौषधमिच्छन्ति-

अन्तःपरिमार्जनं, बहिःपरिमार्जनं, शस्त्रप्रणिधानं चेति । तत्रान्तःपरिमार्जनं यदन्तःशरीरमनुप्रविश्यौषधमाहारजातव्याधीन्‌ प्रमार्ष्टि, यत्पुनर्बहिःस्पर्शमाश्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यैरामयान्‌ प्रमार्ष्टि तद्बहिःपरिमार्जनं, शस्त्रप्रणिधानं पुनश्छेदनभेदन- व्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्चेति ॥५५॥

भवन्ति चात्र –

प्राज्ञो रोगे समुत्पन्ने बाह्येनाभ्यन्तरेण वा ।

कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा ॥५६॥

बालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते ।

उत्पद्यमानं प्रथमं रोगं शत्रुमिवाबुधः ॥५७॥

अणुर्हि प्रथमं भूत्वा रोगः पश्चाद्विवर्धते ।

स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः ॥५८॥

न मूढो लभते संज्ञां तावद्यावन्न पीड्यते ।

पीडितस्तु मतिं पश्चात्‌ कुरुते व्याधिनिग्रहे ॥५९॥

अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहूय भाषते ।

सर्वस्वेनापि मे कश्चिद्भिषगानीयतामिति ॥६०॥

तथाविधं च कः शक्तो दुर्बलं व्याधिपीडितम्‌ ।

कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुषम्‌ ॥६१॥

स त्रातारमनासाद्य बालस्त्यजति जीवितम्‌ ।

गोधा लाङ्गूलबध्देवाकृष्यमाणा बलीयसा ॥६२॥

तस्मात्‌ प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा ।

भेषजैः प्रतिकुर्वीत य इच्छेत्‌ सुखमात्मनः ॥६३॥

तत्र श्लोकौ –

एषणाः समुपस्तम्भा बलं कारणमामयाः ।

तिस्रैषणीये मार्गाश्च भिषजो भेषजानि च ॥६४॥

त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता ।

भावा, भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम्‌ ॥६५॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तिस्रैषणीयो नामैकादशोऽध्यायः ॥११॥

Last updated on May 28th, 2021 at 07:38 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English