Skip to content

01. Garbhaavakraanti S`haareera – S`haareera – AH”

अष्टाङ्गहृदयस्य (शारीरस्थानम्‌) गर्भावक्रान्ति

प्रथमोऽध्यायः

अथातो गर्भावक्रान्ति शारीरं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

शुद्धे शुक्रार्तवे सत्वः स्वकर्मक्लेशचोदितः

गर्भः सम्पद्यते युक्तिवशादग्निरिवारणौ॥१॥

बीजात्मकैर्महाभूतैः सूक्ष्मैः सत्वानुगैश्च सः।

मातुश्चाहाररसजैः क्रमात्कुक्षौ विवर्द्धते॥२॥

तेजो यथाऽर्करश्मीनां स्फटिकेन तिरस्कृतम्‌।

नेन्धनं दृश्यते गच्छत्सत्वो गर्भाशयं तथा॥३॥

कारणानुविधायित्वात्कार्याणां तत्स्वभावता।

नानायोन्याकृतीः सत्त्वो धत्तेऽतो द्रुतलोहवत्‌॥४॥

अत एव च शुक्रस्य बाहुल्याज्जायते पुमान्‌।

रक्तस्य स्त्री, तयोः साम्ये क्लीबः शुक्रार्तवे पुनः॥५॥

वायुना बहुशो भिन्ने यथास्वं बह्वपत्यता।

वियोनिविकृताकारा जायन्ते विकृतैर्मलैः॥६॥

मासि मासि रजः स्त्रीणां रसजं स्रवति त्र्यहम्‌।

वत्सराद्‌द्वादशादूर्ध्वं याति पञ्चाशतः क्षयम्‌॥७॥

पूर्णषोडशवर्षा स्त्री पूर्णविंशेन सङ्गता।

शुद्धे गर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि॥८॥

वीर्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः।

रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा॥९॥

वातादिकुणपग्रन्थिपूयक्षीणमलाह्वयम्‌।

बीजासमर्थं रेतोस्रम्‌ स्वलिङ्गैर्दोषजं वदेत्‌॥१०॥

रक्तेन कुणपं, श्लेष्मवाताभ्यां ग्रन्थिसन्निभम्‌।

पूयाभं रक्तपित्ताभ्यां, क्षीणं मारुतपित्ततः॥११॥

कृच्छ्राण्येतान्यसाध्यं तु त्रिदोषं मूत्रविट्‌प्रभम्‌।

कुर्याद्वातादिभिर्दुष्टे स्वौषधम्‌ कुणपे पुनः॥१२॥

धातकीपुष्पखदिरदाडिमार्जुनसाधितम्‌।

पाययेत्सर्पिरथवा विपक्वमसनादिभिः॥१३॥

पलाशभस्माश्मभिदा ग्रन्थ्याभे पूयरेतसि।

परुषकवटादिभ्याम्‌ क्षीणे शुक्रकरी क्रिया॥१४॥

संशुद्धो विट्‌प्रभे सर्पिर्हिङ्गुसेव्यादि(ग्नि)साधितम्‌।

पिबेत्‌ ग्रन्थ्यार्तवे पाठाव्योषवृक्षकजं जलम्‌॥१५॥

पेयं कुणपपूयास्रे चन्दनं वक्ष्यते तु यत्‌।

गुह्यरोगे च तत्सर्वं कार्यं सोत्तरबस्तिकम्‌॥१६॥

शुक्रं शुक्लं गुरु स्निग्धं मधुरं बहलं बहु।

घृतमाक्षिकतैलाभं सद्गर्भाय आर्तवं पुनः॥१७

लाक्षारसशशास्राभं धौतं यच्च विरज्यते।

शुद्धशुक्रार्तवं स्वस्थं संरक्तं मिथुनं मिथः॥१८॥

स्नेहैः पुंसवनैः स्निग्धं शुद्धं शीलितबस्तिकम्‌।

नरं विशेषात्क्षीराज्यैर्मधुरौषधसंस्कृतैः॥१९॥

नारीं तैलेन माषैश्च पित्तलैः समुपाचरेत्‌।

क्षामप्रसन्नवदनां स्फुरच्छ्रोणिपयोधराम्‌॥२०॥

स्वस्ताक्षिकुक्षि पुंस्कामां विद्यादृतुमतीं स्त्रियम्‌।

पद्मं सङ्कोचमायाति दिनेऽतीते यथा, तथा॥२१॥

ऋतावतीते योनिः, सा शुक्रं नातः प्रतीच्छति।

मासेनोपचितं रक्तं धमनीभ्यामृतौ पुनः॥२२॥

ईषत्कृष्णं विगन्धं च वायुर्योनिमुखान्नुदेत्‌।

ततः पुष्पेक्षणादेव कल्याणध्यायिनी त्र्यहम्‌॥२३॥

मृजालङ्काररहिता दर्भसंस्तरशायिनी।

क्षैरेयं यावकं स्तोकं कोष्ठशोधनकर्षणम्‌॥२४॥

पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी।

चतुर्थेऽह्नि ततः स्नाता शुक्लमाल्याम्बरा शुचिः॥२५॥

इच्छन्ती भर्तृसदृशं पुत्रं पश्येत्पुरः पतिम्‌।

ऋतुस्तु द्वादश निशाः पूर्वास्तिस्रोऽत्र निन्दिताः॥२६॥

एकादशी च, युग्मासु स्यात्पुत्रोऽन्यासु कन्यका।

उपाध्यायोऽथ पुत्रीयं कुर्वीत विधिवद्विधिम्‌॥२७॥

नमस्कारपरायास्तु शूद्राया मन्त्रवर्जितम्‌।

अवन्ध्य एवं संयोगः स्यादपत्यं च कामतः॥२८॥

सन्तो ह्याहुरपत्यार्थं दम्पत्योः सङ्गतिं रहः।

दुरपत्यं कुलाङ्गारो गोत्रे जातं महत्यपि॥२९॥

 इच्छेतां यादृशं पुत्रं तद्रूपचरितांश्च तौ।

चिन्तयेतां जनपदांस्तदाचारपरिच्छदौ॥३०॥

कर्मान्ते च पुमान्‌ सर्पिःक्षीरशाल्योदनाशितः।

प्राग्दक्षिणेन पादेन शय्यां मौहूर्तिकाज्ञया॥३१॥

आरोहेत्‌ स्त्री तु वामेन तस्य दक्षिणपार्श्वतः।

तैलमाषोत्तराहारा तत्र मन्त्रं प्रयोजयेत्‌॥३२॥

ॐआहिरसि आयुरसि सर्वतः प्रतिष्ठासि धाता त्वां।

दधातु विधाता त्वां दधातु ब्रह्मवर्चसा भवेति।

ब्रह्मा बृहस्पतिर्विष्णुः सोमः सूर्यस्तथाऽश्विनौ।

भगोऽथ मित्रावरुणौ वीरं ददतु मे सुतम्‌॥३३॥

सान्त्वयित्वा ततोऽन्योन्यं संविशेतां मुदान्वितौ।

उत्ताना तन्मना योषित्तिष्ठेदङ्गैः सुसंस्थितैः॥३४॥

तथा हि बीजं गृह्णाति दोषैः स्वस्थानमास्थितैः।

लिङ्गं तु सद्योगर्भाया योन्या बीजस्य सङ्‌ग्रहः॥३५॥

तृप्तिर्गुरुत्वं स्फुरणं शुक्रास्राननुबन्धनम्‌।

हृदयस्पन्दनं तन्द्रा तृड्‌ग्लानिर्लोमहर्षणम्‌॥३६॥

अव्यक्तः प्रथमे मासि सप्ताहात्कललीभवेत्‌।

गर्भः पुंसवनान्यत्र पूर्वं व्यक्तेः प्रयोजयेत्‌॥३७॥

बली पुरुषकारो हि दैवमप्यतिवर्तते।

पुष्ये पुरुषकं हैमं राजतं वाऽथवाऽऽयसम्‌॥३८॥

कृत्वाऽग्निवर्णं निर्वाप्य क्षीरे तस्याञ्जलिं पिबेत्‌।

गौरदण्डमपामार्गं जीवकर्षभसैर्यकान्‌॥३९॥

पिबेत्पुष्ये जले पिष्टानेकद्वित्रिसमस्तशः।

क्षीरेण श्वेतबृहतीमूलं नासापुटे स्वयम्‌॥४०॥

पुत्रार्थं दक्षिणे सिञ्चेद्वामे दुहितृवाञ्छया।

पयसा लक्ष्मणामूलं पुत्रोत्पादस्थितिप्रदम्‌॥४१॥

नासयाऽऽस्येन वा पीतं वटशुङ्गाष्टकं तथा।

ओषधीर्जीवनीयाश्च बाह्यान्तरुपयोजयेत्‌॥४२॥

उपचारः प्रियहितैर्भर्त्रा भृत्यैश्च गर्भधृक्‌।

नवनीतघृतक्षीरैः सदा चैनामुपाचरेत्‌॥४३॥

अतिव्यवायमायासं भारं प्रावरणं गुरु।

अकालजागरस्वप्नं कठिनोत्कटकासनम्‌॥४४॥

शोकक्रोधभयोद्वेगवेगश्रद्धाविधारणम्‌।

उपवासाध्वतीक्ष्णोष्णगुरुविष्टम्भिभोजनम्‌॥४५॥

रक्तं निवसनं श्वभ्रकूपेक्षां मद्यमामिषम्‌।

उत्तानशयनं यच्च स्त्रियो नेच्छन्ति तत्त्यजेत्‌॥४६॥

तथा रक्तस्रुतिं शुद्धिं बस्तिमामासतोऽष्टमात्‌।

एभिर्गर्भः स्रवेदामः कुक्षौ शुष्येन्म्रियेत वा॥४७॥

वातलैश्च भवेद्गर्भः कुब्जान्धजडवामनः।

पित्तलैः खलतिः पिङ्गः, श्वित्री पाण्डुः कफात्मभिः॥४८॥

व्याधीश्चांस्या मृदुसुखैरतीक्ष्णैरोषधैर्जयेत्‌।

द्वितीये मासि कललाद्घनः पेश्यथवाऽर्बुदम्‌॥४९॥

पुंस्त्रीक्लीबाः क्रमात्तेभ्यः तत्र व्यक्तस्य लक्षणम्‌।

क्षामता गरिमा कुक्षेर्मूर्च्छा च्छर्दिररोचकः॥५०॥

जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्‌।

अम्लेष्टता स्तनौ पीनौ सस्तन्यौ कृष्णचूचुकौ॥५१॥

पादशोफो विदाहोऽन्ये श्रद्धाश्च विविधात्मिकाः।

मातृजं ह्यस्य हृदयं मातुश्च हृदयेन तत्‌॥५२॥

सम्बद्धं तेन गर्भिण्या नेष्टं श्रद्धाविमाननम्‌।

देयमप्यहितं तस्यै हितोपहितमल्पकम्‌॥५३॥

श्रद्धाविघाताद्गर्भस्य विकृतियुतिरेव वा।

व्यक्तीभवति मासेऽस्य तृतीये गात्रपञ्चकम्‌॥५४॥

मूर्द्धा द्वे सक्थिनी बाहू सर्वसूक्ष्माङ्गजन्म च।

सममेव हि मूर्द्धाद्यैर्ज्ञानं च सुखदुःखयोः॥५५॥

गर्भस्य नाभौ मातुश्च हृदि नाडी निबध्यते।

यया स पुष्टिमाप्नोति केदार इव कुल्यया॥५६॥

चतुर्थे व्यक्तताऽङ्गानां, चेतनायाश्च पञ्चमे।

षष्ठे स्नायुसिरारोमबलवर्णनखत्वचाम्‌॥५७॥

सर्वैः सर्वाङ्गसम्पूर्णो भावैः पुष्यति सप्तमे।

गर्भेणोत्पीडिता दोषास्तस्मिन्‌ हृदयमाश्रिताः।

कण्डूं विदाहं कुर्वन्ति गर्भिण्याः किक्विसानि च॥५८॥

नवनीतं हितं तत्र कोलाम्बुमधुरौषधैः।

सिद्धमल्पपटुस्नेहं लघु स्वादु च भोजनम्‌॥५९॥

चन्दनोशीरकल्केन लिम्पेदूरुस्तनोदरम्‌।

श्रेष्ठया वैणहरिणशशशोणितयुक्तया॥६०॥

अश्वघ्नपत्रसिद्धेन तैलेनाभ्यज्य मर्दयेत्‌।

पटोलनिम्बमञ्जिष्ठासुरसैः सेचयेत्पुनः॥६१॥

दार्वीमधुकतोयेन मृजां च परिशीलयेत्‌।

ओजोऽष्टमे सञ्चरति मातापुत्रौ मुहुः क्रमात्‌॥६२॥

तेन तौ म्लानमुदितौ तत्र जातो न जीवति।

शिशुरोजोनवस्थानान्नारी संशयिता भवेत्‌॥६३॥

क्षीरपेया च पेयाऽत्र सघृताऽन्वासनं घृतम्‌।

मधुरैः साधितं शुद्ध्यै पुराणशकृतस्तथा॥६४॥

शुष्कमूलककोलाम्लकषायेण प्रशस्यते।

शताह्वाकल्कितो बस्तिः सतैलघृतसैन्धवः॥६५॥

तस्मिंस्त्वेकाहयातेऽपि कालः सूतेरतः परम्‌।

वर्षाद्विकारकारी स्यात्कुक्षौ वातेन धारितः॥६६॥

शस्तश्च नवमे मासि स्निग्धो मांसरसौदनः।

बहुस्नेहा यवागूर्वा पूर्वोक्तं चानुवासनम्‌॥६७॥

तत एव पिचुं चास्या योनौ नित्यं निधापयेत्‌।

वातघ्नपत्रभङ्गाम्भः शीतं स्नानेऽन्वहं हितम्‌॥६८॥

निःस्नेहाङ्गीं न नवमान्मासात्प्रभृति वासयेत्‌।

प्राग्दक्षिणस्तनस्तन्या पूर्वं तत्पार्श्वचेष्टिनी॥६९॥

पुन्नामदौर्हृदप्रान्रता पुंस्वप्नदर्शिनी।

उन्नते दक्षिणे कुक्षौ गर्भे च परिमण्डले॥७०॥

पुत्रं सूतेऽन्यथा कन्यां या चेच्छति नृसङ्गतिम्‌।

नृत्यवादित्रगान्धर्वगन्धमाल्यप्रिया च या॥७१॥

क्लीबं तत्सङ्करे, तत्र मध्यं कुक्षेः समुन्नतम्‌।

यौ पार्श्वद्वयोन्नामात्कुक्षौ द्रोण्यामिव स्थिते॥७२॥

प्राक्‌ चैव नवमान्मासात्‌ सा सूतिगृहमाश्रयेत्‌।

देशे प्रशस्ते सम्भारैः सम्पन्नं साधकेऽहनि॥७३॥

 तत्रोदीक्षेत सा सूतिं सुतिकापरिवारिता।

अद्यश्वः प्रसवे ग्लानिः कुक्ष्यक्षिश्लथता क्लमः॥७४॥

अधोगुरुत्वमरुचिः प्रसेको बहुमूत्रता।

वेदनोरूदरकटीपृष्ठहृद्बस्तिवङ्‌क्षणे॥७५॥

योनिभेदरुजातोदस्फुरणस्रवणानि च।

आवीनामनु जन्मातस्ततो गर्भोदकस्रुतिः॥७६॥

 अथोपस्थितगर्भां तां कृतकौतुकमङ्गलाम्‌।

हस्तस्थपुन्नामफलां स्वभ्यक्तोष्णाम्बुसेचिताम्‌॥७७॥

 पाययेत्सघृतां पेयां तनौ भूशयने स्थिताम्‌।

आभुग्नसक्थिमुत्तानामभ्यक्ताङ्गीं पुनः पुनः॥७८॥

अधो नाभेर्विमृद्नीयात्कारयेज्जृम्भचङ्‌क्रमम्‌।

गर्भः प्रयात्यवागेवं, तल्लिङ्गं हृद्विमोक्षतः॥७९॥

आविश्य जठरं गर्भो बस्तेरुपरि तिष्ठति।

आव्योऽभित्वरयन्त्येनां खट्वामारोपयेत्ततः॥८०॥

अथ सम्पीडिते गर्भे योनिमस्याः प्रसारयेत्‌।

मृदु पूर्वं प्रवाहेत बाढमाप्रसवाच्च सा॥८१॥

हर्षयेत्तां मुहुः पुत्रजन्मशब्दजलानिलैः।

प्रत्यायान्ति तथा प्राणाः सूतिक्लेशावसादिताः॥८१॥

धूपयेद्गर्भसङ्गे तु योनिं कृष्णाहिकञ्चुकैः।

हिरण्यपुष्पीमूलं च पाणिपादेन धारयेत्‌॥८३॥

सुवर्चला विशल्यां वा जराय्वपतनेऽपि च।

कार्यमेतत्तथोत्क्षिप्य बाह्वोरेनां विकम्पयेत्‌॥८४॥

कटीमाकोटयेत्पार्ष्ण्या स्फिजौ गाढं निपीडयेत्‌।

तालुकण्ठं स्पृशेद्वेण्या मूर्ध्नि  दद्यात्स्नुहीपयः॥८५॥

भूर्जलाङ्गलिकीतुम्बीसर्पत्वक्कुष्ठसर्षपैः।

पृथग्द्वाभ्यां समस्तैर्वा योनिलेपनधूपनम्‌॥८६॥

कुष्ठतालीसकल्कं वा सुरामण्डेन पाययेत्‌।

यूषेण वा कुलत्थानां बाल्वजेनासवेन वा॥८७॥

शताह्वासर्षपाजाजीशिग्रुतीक्ष्णकचित्रकैः।

सहिङ्गुकुष्ठमदनैर्मूत्रे क्षीरे च सार्षपम्‌॥८८॥

तैलं सिद्धं हितं पायौ योन्यां वाप्यनुवासनम्‌।

शतपुष्पावचाकुष्ठकणासर्षपकल्कितः॥८९॥

निरूहः पातयत्याशु सस्नेहलवणोऽपराम्‌।

तत्सङ्गे ह्यनिलो हेतुः सा निर्यात्याशु तज्जयात्‌॥९०॥

कुशला पाणिनाऽक्तेन हरेत्क्लृप्तनखेन वा।

मुक्तगर्भापरां योनिं तैलेनाङ्गं च मर्दयेत्‌॥९१॥

मक्कल्लाख्ये शिरबस्तिकोष्ठशूले तु पाययेत्‌।

सुचूर्णितं यवक्षारं घृतेनोष्णजलेन वा॥९२

धान्याम्बु वा गुडव्योषत्रिजातकरजोन्वितम्‌।

अथ बालोपचारेण बालं योषिदुपाचरेत्‌॥९३॥

सूतिका क्षुद्वती तैलाद्घृताद्वा महतीं पिबेत्‌।

पञ्चकोलकिनीं मात्रामनु चोष्णं गुडोदकम्‌॥९४॥

वातघ्नौषधतोयं वा तथा वायुर्न कुप्यति।

विशुध्यति च दुष्टास्रं द्वित्रिरात्रमयं क्रमः॥९५॥

स्नेहायोग्या तु निःस्नेहममुमेव विधिं भजेत्‌।

पीतवत्याश्च जठरं यमकाक्तं विवेष्टयेत्‌॥९६॥

जीर्णे स्नाता पिबेत्पेयां पूर्वोक्तौषधसाधिताम्‌।

त्र्यहादूर्ध्वं विदार्यादिवर्गक्वाथेन साधिता॥९७॥

हिता यवागूः स्नेहाढ्या सात्म्यतः पयसाऽथवा।

सप्तरात्रात्परं चास्यै क्रमशो बृंहणं हितम्‌॥९८॥

द्वादशाहेऽनतिक्रान्ते पिशितं नोपयोजयेत्‌।

यत्नेनोपचरेत्सूतां, दुःसाध्यो हि तदामयः॥९९॥

गर्भवृद्धिप्रसवरुक्क्लेदास्रस्रुतिपीडनैः।

एवं च मासादध्यर्धान्मुक्ताहारादियन्त्रणा॥१००॥

गतसूताभिधाना स्यात्पुनरार्तवदर्शनात्‌॥१००.१.२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां द्वितीये शारीरस्थाने गर्भावक्रान्तिर्नाम प्रथमोऽध्यायः॥१॥

Last updated on August 12th, 2021 at 05:50 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English