सुश्रुतसंहिता ।
अथ उत्तरतन्त्रम् ।
द्विचत्वारिंशत्तमोऽध्यायः ।
अथातो गुल्मप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
यथोक्तैः कोपनैर्दोषाः कुपिताः कोष्ठमागताः |
जनयन्ति नृणां गुल्मं स पञ्चविध उच्यते ||३||
हृद्बस्त्योरन्तरे ग्रन्थिः सञ्चारी यदि वाऽचलः |
चयापचयवान् वृत्तः स गुल्म इति कीर्तितः ||४||
पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्नाभिबस्तयः |
गुपितानिलमूलत्वाद्गूढमूलोदयादपि ||५||
गुल्मवद्वा विशालत्वाद्गुल्म इत्यभिधीयते |
स यस्मादात्मनि चयं गच्छत्यप्स्विव बुद्बुदः ||६||
अन्तः सरति यस्माच्च न पाकमुपयात्यतः |
स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः ||७||
पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः |
सदनं मदन्ता वह्नेराटोपोऽन्त्रविकूजनम् ||८||
विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा |
द्वेषोऽन्ने वायुरूर्ध्वं च पूर्वरूपेषु गुल्मिनाम् ||९||
हृत्कुक्षिशूलं मुखकण्ठशोषो वायोर्निरोधो विषमाग्निता च |
ते ते विकाराः पवनात्मकाश्च भवन्ति गुल्मेऽनिलसम्भवे तु ||१०||
स्वेदज्वराहारविदाहदाहास्तृष्णाऽङ्गरागः कटुवक्त्रता च |
पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्ति गुल्मे ||११||
स्तैमित्यमन्नेऽरुचिरङ्गसादश्छर्दिः प्रसेको मधुरास्यता च |
कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफसम्भवे तु ||१२||
सर्वात्मकः सर्वविकारयुक्तः सोऽसाध्य उक्तः, क्षतजं प्रवक्ष्ये |
नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा ||१३||
वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं सरुजं सदाहम् |
पैत्तस्य लिङ्गेन समानलिङ्गं विशेषणं चाप्यपरं निबोध ||१४||
न स्पन्दते नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम् |
तं गर्भकालातिगमे चिकित्स्यमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः ||१५||
वातगुल्मार्दितं स्निग्धं युक्तं स्नेहविरेचनैः |
उपाचरेद्यथाकालं निरूहैः सानुवासनैः ||१६||
पित्तगुल्मार्दितं स्निग्धं काकोल्यादिघृतेन तु |
विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत् ||१७||
श्लेष्मगुल्मार्दितं स्निग्धं पिप्पल्यादिघृतेन तु |
तीक्ष्णैर्विरिक्तं तद्रूपैर्निरूहैः समुपाचरेत् ||१८||
सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः |
पित्तवद्रक्तगुल्मिन्या नार्याः कार्यः क्रियाविधिः ||१९||
विशेषमपरं चास्याः शृणु रक्तविभेदनम् |
पलाशक्षारतोयेन सिद्धं सर्पिः प्रयोजयेत् ||२०||
दद्यादुत्तरबस्तिं च पिप्पल्यादिघृतेन तु |
उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरो हितः ||२१||
आनूपौदकमज्जानो वसा तैलं घृतं दधि |
विपक्वमेकतः शस्तं वातगुल्मेऽनुवासनम् ||२२||
जाङ्गलैकशफानां तु वसा सर्पिश्च पैत्तिके |
तैलं जाङ्गलमज्जान एवं गुल्मे कफोत्थिते ||२३||
धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम् |
शर्करासैन्धवोपेतं तद्धितं वातगुल्मिने ||२४||
चित्रकव्योषसिन्धूत्थपृथ्वीकाचव्यदाडिमैः |
दीप्यकग्रन्थिकाजाजीहपुषाधान्यकैः समैः ||२५||
दध्यारनालबदरमूलकस्वरसैर्घृतम् |
तत्पिबेद्वातगुल्माग्निदौर्बल्याटोपशूलनुत् ||२६||
हिङ्गुसौवर्चलाजाजीविडदाडिमदीप्यकैः |
पुष्करव्योषधान्याम्लवेतसक्षारचित्रकैः ||२७||
शटीवचाजगन्धैलासुरसैश्च विपाचितम् |
शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् ||२८||
विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः |
हिङ्गुसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः ||२९||
बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम् |
साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित् ||३०||
रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम् |
सुरारनालदध्यम्लमूलकस्वरसैः सह ||३१||
व्योषदाडिमवृक्षाम्लयवानीचव्यसैन्धवैः |
हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः ||३२||
सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान् |
कासापस्मारमन्दाग्निप्लीहशूलानिलाञ्जयेत् ||३३||
दधि सौवीरकं सर्पिः क्वाथौ मुद्गकुलत्थजौ |
पञ्चाढकानि विपचेदावाप्य द्विपलान्यथ ||३४||
सौवर्चलं सर्जिकां च देवदार्वथ सैन्धवम् |
वातगुल्मापहं सर्पिरेतद्दीपनमेव च ||३५||
तृणमूलकषाये तु जीवनीयैः पचेद्घृतम् |
न्यग्रोधादिगणे वाऽपि गणे वाऽप्युत्पलादिके ||३६||
रक्तपित्तोत्थितं घ्नन्ति घृतान्येतान्यसंशयम् |
आरग्वधादौ विपचेद्दीपनीययुतं घृतम् ||३७||
क्षारवर्गे पचेच्चान्यत् पचेन्मूत्रगणेऽपरम् |
घ्नन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम् ||३८||
यथादोषोच्छ्रयं चापि चिकित्सेत्सान्निपातिकम् |
चूर्णं हिङ्ग्वादिकं वाऽपि घृतं वा प्लीहनाशनम् ||३९||
पिबेद्गुल्मापहं काले सर्पिस्तैल्वकमेव वा |
तिलेक्षुरकपालाशसार्षपं यावनालजम् ||४०||
भस्म मूलकजं चापि गोजाविखरहस्तिनाम् |
मूत्रेण महिषीणां च पालिकैश्चावचूर्णितैः ||४१||
कुष्ठसैन्धवयष्ट्याह्वनागरकृमिघातिभिः |
साजमोदैश्च दशभिः सामुद्राच्च पलैर्युतम् ||४२||
अयःपात्रेऽग्निनाऽल्पेन पक्त्वा लेह्य(ह)मथोद्धरेत् |
तस्य मात्रां पिबेद्दध्ना सुरया सर्पिषाऽपि वा ||४३||
धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा |
गुल्मान् वातविकारांश्च क्षारोऽयं हन्त्यसंशयम् ||४४||
स्वर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा |
तैलेन शमयेत् पीतो गुल्मं पवनसम्भवम् ||४५||
पीतं सुखाम्बुना वाऽपि स्वर्जिकाकुष्ठसैन्धवम् |
वृश्चीव(र)मुरुबूकं च वर्षाभूर्बृहतीद्वयम् ||४६||
चित्रकं च जलद्रोणे पक्त्वा पादावशेषितम् |
मागधीचित्रकक्षौद्रलिप्ते कुम्भे निधापयेत् ||४७||
मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम् |
बुसोषितं दशाहं तु जीर्णभक्तः पिबेन्नरः ||४८||
अरिष्टोऽयं जयेद्गुल्ममविपाकमरोचकम् |
पाठानिकुम्भरजनीत्रिकटुत्रिफलाग्निकम् ||४९||
लवणं वृक्षबीजं च तुल्यं स्यादनवो गुडः |
पथ्याभिर्वा युतं चूर्णं गवां मूत्रयुतं पचेत् ||५०||
गुटिकास्तद्घनीभूतं कृत्वा खादेदभुक्तवान् |
गुल्मप्लीहाग्निसादांस्ता नाशयेयुरशेषतः ||५१||
हृद्रोगं ग्रहणीदोषं पाण्डुरोगं च दारुणम् |
सशूले सोन्नतेऽस्पन्दे दाहपाकरुगन्विते ||५२||
गुल्मे रक्तं जलौकोभिः सिरामोक्षेण वा हरेत् |
सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः ||५३||
कटुत्रिकसमायुक्ता हिताः पाने तु गुल्मिनाम् |
पेया वातहरैः सिद्धाः कौलत्था संस्कृता रसाः ||५४||
खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः |
बद्धवर्चोनिलानां तु सार्द्रकं क्षीरमिष्यते ||५५||
कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक् |
गुल्मिनः सर्व एवोक्ता दुर्विरेच्यतमा भृशम् ||५६||
अतश्चैतांस्तु सुस्विन्नान् स्रंसनेनोपपादयेत् |
विम्लापनाभ्यञ्जनानि तथैव दहनानि च ||५७||
उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः |
उदरोक्तानि सर्पींषि मूत्रवर्तिक्रियास्तथा ||५८||
लवणानि च योज्यानि यान्युक्तान्यनिलामये |
वातवर्चोनिरोधे तु सामुद्रार्द्रकसर्षपैः ||५९||
कृत्वा पायौ विधातव्या वर्तयो मरिचोत्तराः |
दन्तीचित्रकमूलेषु तथा वातहरेषु च ||६०||
कुर्यादरिष्टान् सर्वांश्च श्लोकस्थाने यथेरितान् |
स्वादेद्वाऽप्यङ्कुरान् भृष्टान् पूतीकनृपवृक्षयोः ||६१||
ऊर्ध्ववातं मनुष्यं च गुल्मिनं न निरूहयेत् |
पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम् ||६२||
गुग्गुलुं त्रिवृतां दन्तीं द्रवन्तीं सैन्धवं वचाम् |
मूत्रमद्यपयोद्राक्षारसैर्वीक्ष्य बलाबलम् ||६३||
एवं पीलूनि भृष्टानि पिबेत् सलवणानि तु |
पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः ||६४||
युक्ता हन्ति सुरा गुल्मं शीघ्रं काले प्रयोजिता |
बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् ||६५||
कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान् |
अथास्योपद्रवः शूलः कथञ्चिदुपजायते ||६६||
शूलं निखानितमिवासुखं येन तु वेत्त्यसौ |
तत्र विण्मूत्रसंरोधः कृच्छ्रोच्छ्वासः स्थिराङ्गता ||६७||
तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धिता |
रोमहर्षोऽरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता ||६८||
वाय्वादिभिर्यथासङ्ख्यं मिश्रैर्वावीक्ष्य योजयेत् |
पथ्यात्रिलवणं क्षारं हिङ्गुतुम्बुरुपौष्करम् ||६९||
यवानीं च हरिद्रां च विडङ्गान्यम्लवेतसम् |
विदारीत्रिफलाऽभीरुशृङ्गाटीगुडशर्कराः ||७०||
काश्मरीफलयष्ट्याह्वपरूषकहिमानि च |
षड्ग्रन्थातिविषादारुपथ्यामरिचवृक्षजान् ||७१||
कृष्णामूलकचव्यं च नागरक्षारचित्रकान् |
उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान् ||७२||
यथाक्रमं विमिश्रांश्च द्वन्द्वे सर्वांश्च सर्वजे |
तथैव सेकावगाहप्रदेहाभ्यङ्गभोजनम् ||७३||
शिशिरोदकपूर्णानां भाजनानां च धारणम् |
वमनोन्मर्दनस्वेदलङ्घनक्षपणक्रियाः ||७४||
स्नेहादिश्च क्रमः सर्वो विशेषेणोपदिश्यते |
वल्लूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम् ||७५||
न खादेदालुकं गुल्मी मधुराणि फलानि च |
विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते ||७६||
निदानं तस्य वक्ष्यामि रूपं च सचिकित्सितम् |
वातमूत्रपुरीषाणां निग्रहादतिभोजनात् ||७७||
अजीर्णाध्यशनायासविरुद्धान्नोपसेवनात् |
पानीयपानात् क्षुत्काले विरूढानां च सेवनात् ||७८||
पिष्टान्नशुष्कमांसानामुपयोगात्तथैव च |
एवंविधानां द्रव्याणामन्येषां चोपसेवनात् ||७९||
वायुः प्रकुपितः कोष्ठे शूलं सञ्जनयेद्भृशम् |
निरुच्छ्वासी भवेत्तेन वेदनापीडितो नरः ||८०||
शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः |
शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते ||८१||
निराहारस्य यस्यैव तीव्रं शूलमुदीर्यते |
प्रस्तब्धगात्रो भवति कृच्छ्रेणोच्छ्वसितीव च ||८२||
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः |
एतैर्लिङ्गैर्विजानीयाच्छूलं वातसमुद्भवम् ||८३||
तृष्णा दाहो मदो मूर्च्छा तीव्रं शूलं तथैव च |
शीताभिकामो भवति शीतेनैव प्रशाम्यति ||८४||
एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम् |
शूलेनोत्पीड्यमानस्य हृल्लास उपजायते ||८५||
अतीव पूर्णकोष्ठत्वं तथैव गुरुगात्रता |
एतच्छ्लेष्मसमुत्थस्य शूलस्योक्तं निदर्शनम् ||८६||
सर्वाणि दृष्ट्वा रूपाणि निर्दिशेत्सान्निपातिकम् |
सन्निपातसमुत्थानमसाध्यं तं विनिर्दिशेत् ||८७||
शूलानां लक्षणं प्रोक्तंचिकित्सां तु निबोध मे |
आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत् ||८८||
तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः |
पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः ||८९||
त्रिवृच्छाकेन वा स्निग्धमुष्णं भुञ्जीत भोजनम् |
चिरबिल्वाङ्कुरान् वापि तैलभृष्टांस्तु भक्षयेत् ||९०||
वैहङ्गांश्च रसान् स्निग्धान् जाङ्गलान् शूलपीडितः |
यथालाभं निषेवेत मांसानि बिलशायिनाम् ||९१||
सुरा सौवीरकं चुक्रं मस्तूदश्वित्तथा दधि |
सकाललवणं पेयं शूले वातसमुद्भवे ||९२||
कुलत्थयूषो युक्ताम्लो लावकीयूषसंस्कृतः |
ससैन्धवः समरिचो वातशूलविनाशनः ||९३||
विडङ्गशिग्रुकम्पिल्लपथ्याश्यामाम्लवेतसान् |
सुरसामश्वमूत्रीं च सौवर्चलयुतान् पिबेत् ||९४||
मद्येन वातजं शूलं क्षिप्रमेव प्रशाम्यति |
पृथ्वीकाजाजिचविकायवानीव्योषचित्रकाः ||९५||
पिप्पल्यः पिप्पलीमूलं सैन्धवं चेति चूर्णयेत् |
तानि चूर्णानि पयसा पिबेत् काम्बलिकेन वा ||९६||
मध्वासवेन चुक्रेण सुरासौवीरकेण वा |
अथवै(चै)तानि चूर्णानि मातुलुङ्गरसेन वा ||९७||
तथा बदरयूषेण भावितानि पुनः पुनः |
तानि हिङ्गुप्रगाढानि सह शर्करया पिबेत् ||९८||
सह दाडिमसारेण वर्तिः कार्या भिषग्जिता |
सा वर्तिर्वातिकं शूलं क्षिप्रमेव व्यपोहति ||९९||
गुडतैलेन वा लीढा पीता मद्येन वा पुनः |
बुभुक्षाप्रभवे शूले लघु सन्तर्पणं हितम् ||१००||
उष्णैः क्षीरैर्यवागूभिः स्निग्धैर्मांसरसैस्तथा |
वातशूले समुत्पन्ने रूक्षं स्निग्धेन भोजयेत् ||१०१||
सुसंस्कृताः प्रदेयाः स्युर्घृतपूरा विशेषतः |
वारुणीं च पिबेज्जन्तुस्तथा सम्पद्यते सुखी ||१०२||
एतद्वातसमुत्थस्य शूलस्योक्तं चिकित्सितम् |
अथ पित्तसमुत्थस्य क्रियां वक्ष्याम्यतः परम् ||१०३||
स सुखं छर्दयित्वा तु पीत्वा शीतोदकं नरः |
शीतलानि च सेवेत सर्वाण्युष्णानि वर्जयेत् ||१०४||
मणिराजतताम्राणि भाजनानि च सर्वशः |
वारिपूर्णानि तान्यस्य शूलस्योपरि निक्षिपेत् ||१०५||
गुडः शालिर्यवाः क्षीरं सर्पिःपानं विरेचनम् |
जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् ||१०६||
रसान् सेवेत पित्तघ्नान् पित्तलानि विवर्जयेत् |
पालाशं धान्वनं वाऽपि पिबेद्यूषं सशर्करम् ||१०७||
परुषकाणि मृद्वीकाखर्जूरोदकजान्यपि |
तत् पिबेच्छर्करायुक्तं पित्तशूलनिवारणम् ||१०८||
अशने भुक्तमात्रे तु प्रकोपः श्लैष्मिकस्य च |
वमनं कारयेत्तत्र पिप्पलीवारिणा भिषक् ||१०९||
रूक्षः स्वेदः प्रयोज्यः स्यादन्याश्चोष्णाः क्रिया हिताः |
पिप्पली शृङ्गवेरं च श्लेष्मशूले भिषग्जितम् ||११०||
पाठां वचां त्रिकटुकं तथा कटुकरोहिणीम् |
चित्रकस्य च निर्यूहे पिबेद्यूषं सहार्जकम् ||१११||
एरण्डफलमूलानि मूलं गोक्षुरकस्य च |
शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम् ||११२||
दद्याच्छृगालविन्नां च सहदेवां तथैव च |
महासहां क्षुद्रसहां मूलमिक्षुरकस्य च ||११३||
एतत् सम्भृत्य सम्भारं जलद्रोणे विपाचयेत् |
चतुर्भागावशेषं तु यवक्षारयुतं पिबेत् ||११४||
वातिकं पैत्तिकं वाऽपि श्लैष्मिकं सान्निपातिकम् |
प्रसह्य नाशयेच्छूलं छिन्नाभ्रमिव मारुतः ||११५||
पिप्पली स्वर्जिकाक्षारो यवाश्चित्रक एव च |
सेव्यं चैतत् समानीय भस्म कुर्याद्विचक्षणः ||११६||
तदुष्णवारिणा पीतं श्लेष्मशूले भिषग्जितम् |
रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः ||११७||
स संरुद्धः करोत्याशु साध्मानं गुड्गुडायनम् |
सूचीभिरिव निस्तोदं कृच्छ्रोच्छ्वासी तदा नरः ||११८||
नान्नं वाञ्छति नो निद्रामुपैत्यर्तिनिपीडितः |
पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः ||११९||
तत्र पुष्करमूलानि हिङ्गु सौवर्चलं विडम् |
सैन्धवं तुम्बुरुं पथ्यां चूर्णं कृत्वा तु पाययेत् ||१२०||
पार्श्वहृद्बस्तिशूलेषु यवक्वाथेन संयुतम् |
सर्पिः प्लीहोदरोक्तं वा घृतं वा हिङ्गुसंयुतम् ||१२१||
बीजपूरकसारं वा पयसा सह साधितम् |
एरण्डतैलमथवा मद्यमस्तुपयोरसैः ||१२२||
भोजयेच्चापि पयसा जाङ्गलेन रसेन वा |
प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः ||१२३||
तदाऽस्य भोजनं भुक्तं सोपस्तम्भं न पच्यते |
उच्छ्वसित्यामशकृता शूलेनाहन्यते मुहुः ||१२४||
नैवासने न शयने तिष्ठन् वा लभते सुखम् |
कुक्षिशूल इति ख्यातो वातादामसमुद्भवः ||१२५||
वमनं कारयेत्तत्र लङ्घयेद्वा यथाबलम् |
संसर्गपाचनं कुर्यादम्लैर्दीपनसंयुतैः ||१२६||
नागरं दीप्यकं चव्यं हिङ्गु सौवर्चलं विडम् |
मातुलुङ्गस्य बीजानि तथा श्यामोरुबूकयोः ||१२७||
बृहत्याः कण्टकार्याश्च क्वाथं शूलहरं पिबेत् |
वचा सौवर्चलं हिङ्गु कुष्ठं सातिविषाऽभया ||१२८||
कुटजस्य च बीजानि सद्यःशूलहराणि तु |
विरेचने प्रयुञ्जीत ज्ञात्वा दोषबलाबलम् ||१२९||
स्नेहबस्तीन्निरूहांश्च कुर्याद्दोषनिबर्हणान् |
उपनाहाः स्नेहसेका धान्याम्लपरिषेचनम् ||१३०||
अवगाहाश्च शस्यन्ते यच्चान्यदपि तद्धितम् |
कफपित्तावरुद्धस्तु मारुतो रसमूर्च्छितः ||१३१||
हृदिस्थः कुरुते शूलमुच्छ्वासारोधकं परम् |
स हृच्छूल इति ख्यातो रसमारुतसम्भवः ||१३२||
तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम् |
संरोधात् कुपितो वायुर्बस्तिमावृत्य तिष्ठति ||१३३||
बस्तिवङ्क्षणनाभीषु ततः शूलोऽस्य जायते |
विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात् ||१३४||
नाभ्यां वङ्क्षणपार्श्वेषु कुक्षौ मेढ्रान्त्रमर्दकः |
मूत्रमावृत्य गृह्णाति मूत्रशूलः स मारुतात् ||१३५||
वायुः प्रकुपितो यस्य रूक्षाहारस्य देहिनः |
मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम् ||१३६||
शूलं सञ्जनयंस्तीव्रं स्रोतांस्यावृत्य तस्य हि |
दक्षिणं यदि वा वामं कुक्षिमादाय जायते ||१३७||
सर्वत्र वर्धते क्षिप्रं भ्रमन्नथ सघोषवान् |
पिपासा वर्धते तीव्रा भ्रमो मूर्च्छा च जायते ||१३८||
उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति |
विट्शूलमेतज्जानीयाद्भिषक् परमदारुणम् ||१३९||
क्षिप्रं दोषहरं कार्यं भिषजा साधु जानता |
स्वेदनं शमनं चैव निरूहाः स्नेहबस्तयः ||१४०||
पूर्वोद्दिष्टान् पाययेत योगान् कोष्ठविशोधनान् |
उदावर्तहराश्चास्य क्रियाः सर्वाः सुखावहाः ||१४१||
अतिमात्रं यदा भुक्तं पावके मृदुतां गते |
स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति ||१४२||
अविपाकगतं ह्यन्नं शूलं तीव्रं करोत्यति |
मूर्च्छाऽऽध्मानं विदाहश्च हृदुत्क्लेशो विलम्बिका ||१४३||
विरिच्यते छर्दयति कम्पतेऽथ विमुह्यति |
अविपाकाद्भवेच्छूलस्त्वन्नदोषसमुद्भवः ||१४४||
वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः |
क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः ||१४५||
गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम् ||१४६||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय चिकित्सातन्त्रे गुल्मप्रतिषेधो नाम (चतुर्थोऽध्यायः, आदितः) द्विचत्वारिंशोऽध्यायः ||४२||
Last updated on July 8th, 2021 at 12:03 pm