Skip to content

16. Chikitsaapraabhriteeya – Sootra – C”

षोडशोऽध्यायः ।

अथातश्चिकित्साप्राभृतीयमध्यायं व्याख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

चिकित्साप्राभृतो धीमान्‌ शास्त्रवान्‌ कर्मतत्परः । नरं विरेचयति यं स योगात्‌ सुखमश्नुते ॥३॥

यं वैद्यमानी त्वबुधो विरेचयति मानवम्‌ । सोऽतियोगादयोगाच्च मानवो दुःखमश्नुते ॥४॥

दौर्बल्यं लाघवं ग्लानिर्व्याधीनामणुता रुचिः । हृद्वर्णशुद्धिः  क्षुत्तृष्णा काले वेगप्रवर्तनम्‌ ॥५॥

बुद्धीन्द्रियमनःशुद्धिर्मारुतस्यानुलोमता । सम्यग्विरिक्तलिङ्गानि कायाग्नेश्चानुवर्तनम्‌ ॥६॥

ष्ठीवनं हृदयाशुद्धिरुत्क्लेशः श्लेष्मपित्तयोः । आध्मानमरुचिश्छर्दिरदौर्बल्यमलाघवम्‌  ॥७॥

जङ्घोरुसदनं तन्द्रा स्तैमित्यं पीनसागमः । लक्षणान्यविरिक्तानां मारुतस्य च निग्रहः ॥८॥

विट्‌पित्तकफवातानामागतानां यथाक्रमम्‌ । परं स्रवति यद्रक्तं मेदोमांसोदकोपमम्‌ ॥९॥

निःश्लेष्मापित्तमुदकं शोणितं कृष्णमेव वा । तृष्यतो मारुतार्तस्य सोऽतियोगः प्रमुह्यतः ॥१०॥

वमनेऽतिकृते लिङ्गान्येतान्येव भवन्ति हि । ऊर्ध्वगा वातरोगाश्च वाग्ग्रहश्चाधिको भवेत्‌ ॥११॥

चिकित्साप्राभृतं तस्मादुपेयाच्छरणं नरः । युञ्ज्याद्‌ य एनमत्यन्तमायुषा च सुखेन च ॥१२॥

अविपाकोऽरुचिः स्थौल्यं पाण्डुता गौरवं क्लमः । पिडकाकोठकण्डूनां संभवोऽरतिरेव च ॥१३॥

आलस्यश्रमदौर्बल्यं दौर्गन्ध्यमवसादकः । श्लेष्मपित्तसमुत्क्लेशो निद्रानाशोऽतिनिद्रता ॥१४॥

तन्द्रा क्लैब्यमबुद्धित्वमशस्तस्वप्नदर्शनम्‌ । बलवर्णप्रणाशश्च तृष्यतो बृंहणैरपि ॥१५॥

बहुदोषस्य लिङ्गानि तस्मै संशोधनं हितम्‌ । ऊर्ध्वं चैवानुलोमं च यथादोषं यथाबलम्‌ ॥१६॥

एवं विशुद्धकोष्ठस्य कायाग्निरभिवर्धते । व्याधयश्चोपशाम्यन्ति प्रकृतिश्चानुवर्तते ॥१७॥

इन्द्रियाणि मनोबुद्धिर्वर्णश्चास्य प्रसीदति । बलं पुष्टिरपत्यं च वृषता चास्य जायते ॥१८॥

जरां कृच्छ्रेण लभते चिरं जीवत्यनामयः । तस्मात्‌ संशोधनं काले युक्तियुक्तं पिबेन्नरः ॥१९॥

दोषां कदाचित्‌ कुप्यन्ति जिता लङ्घनपाचनैः । जिताः संशोधनैर्ये तु न तेषां पुनरुद्भवः ॥२०॥

दोषाणां च द्रुमाणां च मूलेऽनुपहते सति । रोगाणां प्रसवानां च गतानामागतिर्ध्रुवा ॥२१॥

भेषजक्षपिते पथ्यमाहारैरेव बृंहणम्‌ । घृतमांसरसक्षीरहृद्ययूषोपसंहितैः ॥२२॥

अभ्यङ्गोत्सादनैः स्नानैर्निरूहैः सानुवासनैः । तथा स लभते शर्म युज्यते चायुषा चिरम्‌ ॥२३॥

अतियोगानुबद्धानां सर्पिःपानं प्रशस्यते । तैलं मधुरकैः सिद्धमथवाऽप्यनुवासनम्‌ ॥२४॥

यस्य त्वयोगस्तं स्निग्धं पुनः संशोधयेन्नरम्‌ । मात्राकालबलापेक्षी स्मरन्‌ पूर्वमनुक्रमम्‌ ॥२५॥

स्नेहने स्वेदनेशुद्धौ रोगाः संसर्जने च ये । जायन्तेऽमार्गविहिते तेषां सिद्धिषु साधनम्‌ ॥२६॥

जायन्ते हेतुवैषम्याद्विषमा देहधातवः । हेतुसाम्यात्‌ समास्तेषां स्वभावोपरमः सदा ॥२७॥

प्रवृत्तिहेतुर्भावानां न निरोधेऽस्ति कारणम्‌ । केचित्तत्रापि मन्यन्ते हेतुं हेतोरवर्तनम्‌ ॥२८॥

एवमुक्तार्थमाचार्यमग्निवेशोऽभ्यभाषत । स्वभावोपरमे कर्म चिकित्साप्राभृतस्य किम्‌ ॥२९॥

भेषजैर्विषमान्‌ धातून्‌ कान्‌ समीकुरुते भिषक्‌ । का वा चिकित्सा भगवन्‌ ! किमर्थं वा प्रयुज्यते ॥३०॥

तच्छिष्यवचनं श्रुत्वा व्याजहार पुनर्वसुः । श्रूयतामत्र या सोम्य ! युक्तिर्दृष्टा महर्षिभिः ॥३१॥

न नाशकारणाभावाद्भावानां नाशकारणम्‌ । ज्ञायते नित्यगस्येव कालस्यात्ययकारणम्‌ ॥३२॥

शीघ्रगत्वाद्यथा भूतस्तथा भावो विपद्यते । निरोधे कारणं नास्ति नैवान्यथाक्रिया ॥३३॥

याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः । सा चिकित्सा विकाराणां कर्म तद्भिषजां स्मृतम्‌ ॥३४॥

कथं शरीरे धातूनां वैषम्यं न भवेदिति । समानां चानुबन्धः स्यादित्यर्थं क्रियते क्रिया ॥३५॥

त्यागाद्विषमहेतुनां समानां चोपसेवनात्‌ । विषमा नानुबध्नन्ति जायन्ते धातवः समाः  ॥३६॥

समैस्तु हेतुभिर्यस्माद्धातून्‌ संजनयेत्‌ समान्‌ । चिकित्साप्राभृतस्तस्माद्दाता देहसुखायुषाम्‌ ॥३७॥

धर्मस्यार्थस्य कामस्य नृलोकस्योभयस्य च । दाता संपद्यते वैद्यो दानाद्देहसुखायुषाम्‌ ॥३८॥

तत्र श्लोकाः –

चिकित्साप्राभृतगुणो दोषो यश्चेतराश्रयः । योगायोगातियोगानां लक्षणं शुद्धिसंश्रयम्‌ ॥३९॥

बहुदोषस्य लिङ्गानि संशोधनगुणाश्च ये । चिकित्सासूत्रमात्रं च सिद्धिव्यापत्तिसंश्रयम्‌ ॥४०॥

या च युक्तिश्चिकित्सायां यं चार्थं कुरुते भिषक्‌ । चिकित्साप्राभृतेऽध्याये तत्‌ सर्वमवदन्मुनिः ॥४१॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने कल्पनाचतुष्के चिकित्साप्राभृतीयो नाम षोडशोऽध्यायः समाप्तः ॥१६॥

इति कल्पनाचतुष्कश्चतुर्थः ॥४॥

Last updated on May 31st, 2021 at 05:54 pm

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English