Skip to content

38. Dravyasangrahan`eeya – Sootra – S”

सुश्रुतसंहिता

सूत्रस्थाने

अष्टत्रिंशत्तमोऽध्याय: ।

अथातो द्रव्यसङ्ग्रहणीयमध्यायं [१] व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

 समासेन सप्तत्रिंशद्द्रव्यगणा भवन्ति ||३||

तद्यथा- विदारिगन्धा विदारी विश्वदेवा सहदेवा श्वदंष्ट्रा पृथक्पर्णी शतावरी सारिवा कृष्णसारिवा जीवकर्षभकौ महासहा क्षुद्रसहा बृहत्यौ पुनर्नवैरण्डो हंसपादी वृश्चिकाल्यृषभी चेति ||४||

विदारीगन्धादिरयं गणः पित्तानिलापहः |

शोषगुल्माङ्गमर्दोर्ध्वश्वासकासविनाशनः ||५||

आरग्वधमदनगोपघोण्टाकण्टकीकुटजपाठापाटलामूर्वेन्द्रयवसप्तपर्णनिम्बकुरुण्टकदासीकुरुण्टक- गुडूचीचित्रकशार्ङ्ग(र्ङ्गे)ष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति ||६||

आरग्वधादिरित्येष गणः श्लेष्मविषापहः |

मेहकुष्ठज्वरवमीकण्डूघ्नो व्रणशोधनः ||७||

सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जमेषशृङ्गतिनिशचन्दनकुचन्दनशिंशपा- शिरीषासनधवार्जुनतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि कालीयकं चेति ||८||

सालसारादिरित्येष गणः कुष्ठविनाशनः |

मेहपाण्ड्वामयहरः कफमेदोविशोषणः ||९||

वरुणार्तगलशिग्रुमधुशिग्रुतर्कारीमेषशृङ्गीपूतीकनक्तमालमोरटाग्निमन्थसैरेयकद्वयबिम्बीवसुकवसिरचित्रक- शतावरीबिल्वाजशृङ्गीदर्भा बृहतीद्वयं चेति ||१०||

वरुणादिर्गणो ह्येष कफमेदोनिवारणः |

विनिहन्ति शिरःशूलगुल्माभ्यन्तरविद्रधीन् ||११||

वीरतरुसहचरद्वयदर्भवृक्षादनीगुन्द्रानलकुशकाशाश्मभेदकाग्निमन्थमोरटावसुकवसिरभल्लूककुरण्टिकेन्दीवरकपोतवङ्काः श्वदंष्ट्रा चेति ||१२||

वीरतर्वादिरित्येष गणो वातविकारनुत् |

अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः ||१३||

लोध्रसावरलोध्रपलाशकुटन्नटाशोकफञ्जीकट्फलैलवालुकशल्लकीजिङ्गिनीकदम्बसालाः कदली चेति ||१४||

एष रोध्रादिरित्युक्तो मेदःकफहरो गणः |

योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः ||१५||

अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतामहाश्वेतावृश्चिकाल्यलवणास्तापसवृक्षश्चेति ||१६||

अर्कादिको गणो ह्येष कफमेदोविषापहः |

कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः ||१७||

सुरसाश्वेतसुरसाफणिज्झकार्जकभूस्तृणसुगन्धकसुमुखकालमालकुठेरककासमर्दक्षवकखरपुष्पाविडङ्गकट्फल- सुरसीनिर्गुण्डीकुलाहलोन्दुरुकर्णिकाफञ्जीप्राचीबलकाकमाच्यो विषमुष्टिकश्चेति ||१८||

सुरसादिर्गणो ह्येष कफहृत् कृमिसूदनः |

प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः ||१९||

मुष्ककपलाशधवचित्रकमदनवृक्षकशिंशपावज्रवृक्षास्त्रिफला चेति ||२०||

मुष्ककादिर्गणो ह्येष मेदोघ्नः शुक्रदोषहृत् |

मेहार्शःपाण्डुरोगाश्मशर्करानाशनः परः ||२१||

पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठाजीरकसर्षप- महानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटुरोहिणी चेति ||२२||

पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः |

निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः ||२३||

एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुकाव्याघ्रनखशुक्तिचण्डास्थौणेयकश्रीवेष्टक- चोचचोरकवालुकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुकागुरुस्पृक्कोशीरभद्रदारुकुङ्कुमानि पुन्नागकेशरं चेति ||२४||

एलादिको वातकफौ निहन्याद्विषमेव च |

वर्णप्रसादनः कण्डूपिडकाकोठनाशनः ||२५||

वचामुस्तातिविषाभयाभद्रदारूणि नागकेशरं चेति ||२६||

हरिद्रादारुहरिद्राकलशीकुटजबीजानि मधुकं चेति ||२७||

एतौ वचाहरिद्रादी गणौ स्तन्यविशोधनौ |

आमातिसारशमनौ विशेषाद्दोषपाचनौ ||२८||

श्यामामहाश्यामात्रिवृद्दन्तीशङ्खिनीतिल्वककम्पिल्लकरम्यकक्रमुकपुत्रश्रेणीगवाक्षी- राजवृक्षकरञ्जद्वयगुडूचीसप्तलाच्छगलान्त्रीसुधाः सुवर्णक्षीरी चेति ||२९||

उक्तः श्यामादिरित्येष गणो गुल्मविषापहः |

आनाहोदरविड्भेदी तथोदावर्तनाशनः ||३०||

बृहतीकण्टकारिकाकुटजफलपाठा मधुकं चेति ||३१||

पाचनीयो बृहत्यादिर्गणः पित्तानिलापहः |

कफारोचकहृद्रोगमूत्रकृच्छ्ररुजापहः ||३२||

पटोलचन्दनकुचन्दनमूर्वागुडूचीपाठाः कटुरोहिणी चेति ||३३||

पटोलादिर्गणः पित्तकफारोचकनाशनः |

ज्वरोपशमनो व्रण्यश्छर्दिकण्डूविषापहः ||३४||

काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णीमेदामहामेदाच्छिन्नरुहा कर्कटशृङ्गीतुगाक्षीरीपद्मकप्रपौण्डरीकर्धिवृद्धिमृद्वीकाजीवन्त्यो मधुकं चेति ||३५||

काकोल्यादिरयं पित्तशोणितानिलनाशनः |

जीवनो बृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा ||३६|

ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकं चेति ||३७||

ऊषकादिः कफं हन्ति गणो मेदोविशोषणः |

अश्मरीशर्करामूत्रकृच्छ्रगुल्मप्रणाशनः ||३८||

सारिवामधुकचन्दनकुचन्दनपद्मककाश्मरीफलमधूकपुष्पाण्युशीरं चेति ||३९||

सारिवादिः पिपासाघ्नो रक्तपित्तहरो गणः |

पित्तज्वरप्रशमनो विशेषाद्दाहनाशनः ||४०||

अञ्जनरसाञ्जननागपुष्पप्रियङ्गुनीलोत्पलनलदनलिनकेशराणि मधुकं चेति ||४१||

अञ्जनादिर्गणो ह्येष रक्तपित्तनिबर्हणः |

विषोपशमनो दाहं निहन्त्याभ्यन्तरं भृशम् ||४२||

परूषकद्राक्षाकट्फलदाडिमराजादनकतकफलशाकफलानि त्रिफला चेति ||४३||

परूषकादिरित्येष गणोऽनिलविनाशनः | मूत्रदोषहरो हृद्यः पिपासाघ्नो रुचिप्रदः ||४४||

प्रियङ्गुसमङ्गाधातकीपुन्नागनागपुष्पचन्दनकुचन्दनमोचरसरसाञ्जनकुम्भीकस्रोतोजपद्मकेसरयोजनवल्ल्यो दीर्घमूला चेति ||४५||

अम्बष्ठाधातकीकुसुमसमङ्गाकट्वङ्गमधुकबिल्वपेशिकासावररोध्रपलाशनन्दीवृक्षाः पद्मकेशराणि चेति ||४६||

गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ | सन्धानीयौ हितौ पित्ते व्रणानां चापि रोपणौ ||४७||

न्यग्रोधोदुम्बराश्वत्थप्लक्षमधुककपीतनककुभाम्रकोशाम्रचोरकपत्रजम्बूद्वयप्रियाल- मधूकरोहिणीवञ्जुलकदम्बबदरीतिन्दुकीसल्लकीरोध्रसावररोध्रभल्लातकपलाशा नन्दीवृक्षश्चेति ||४८||

न्यग्रोधादिर्गणो व्रण्यः सङ्ग्राही भग्नसाधकः | रक्तपित्तहरो दाहमेदोघ्नो योनिदोषहृत् ||४९|

गुडूचीनिम्बकुस्तुम्बुरुचन्दनानि पद्मकं चेति ||५०||

एष सर्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः |

हृल्लासारोचकवमीपिपासादाहनाशनः ||५१||

उत्पलरक्तोत्पलकुमुदसौगन्धिककुवलयपुण्डरीकाणि मधुकं चेति ||५२||

उत्पलादिरयं दाहपित्तरक्तविनाशनः | पिपासाविषहृद्रोगच्छर्दिमूर्च्छाहरो गणः ||५३||

       मुस्ताहरिद्रादारुहरिद्राहरीतक्यामलकबिभीतककुष्ठहैमवतीवचापाठाकटुरोहिणीशार्ङ्गष्टातिविषाद्राविडीभल्लातकानि चित्रकश्चेति ||५४||

एष मुस्तादिको नाम्ना गणः श्लेष्मनिषूदनः |

योनिदोषहरः स्तन्यशोधनः पाचनस्तथा ||५५||

हरीतक्यामलकबिभीतकानीति त्रिफला ||५६||

त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशनी |

चक्षुष्या दीपनी चैव विषमज्वरनाशनी ||५७||

पिप्पलीमरिचशृङ्गवेराणीति त्रिकटुकम् ||५८||

त्र्यूषणं कफमेदोघ्नं मेहकुष्ठत्वगामयान् |

निहन्याद्दीपनं गुल्मपीनसाग्न्यल्पतामपि ||५९||

आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति ||६०||

आमलक्यादिरित्येष गणः सर्वज्वरापहः |

चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः ||६१||

त्रपुसीसताम्ररजतसुवर्णकृष्णलोहानि लोहमलश्चेति ||६२||

गणस्त्रप्वादिरित्येष गरक्रिमिहरः परः |

पिपासाविषहृद्रोगपाण्डुमेहहरस्तथा ||६३||

लाक्षारेवतकुटजाश्वमारकट्फलहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणा चेति ||६४||

कषायतिक्तमधुरः कफपित्तार्तिनाशनः |

कुष्ठक्रिमिहरश्चैव दुष्टव्रणविशोधनः ||६५||

पञ्च पञ्चमूलान्यत ऊर्ध्वं वक्ष्यामः |

तत्र त्रिकण्टकबृहतीद्वयपृथक्पर्ण्यो विदारिगन्धा चेति कनीयः ||६६||

कषायतिक्तमधुरं कनीयः पञ्चमूलकम् |

वातघ्नं पित्तशमनं बृंहणं बलवर्धनम् ||६७||

बिल्वाग्निमन्थटिण्टुकपाटलाः काश्मरी चेति महत् ||६८||

सतिक्तं कफवातघ्नं पाके लघ्वग्निदीपनम् |

मधुरानुरसं चैव पञ्चमूलं महत् स्मृतम् ||६९||

अनयोर्दशमूलमुच्यते ||७०||

गणः श्वासहरो ह्येष कफपित्तानिलापहः |

आमस्य पाचनश्चैव सर्वज्वरविनाशनः ||७१||

विदारीसारिवारजनीगुडूच्योऽजशृङ्गी चेति वल्लीसञ्ज्ञः ||७२||

करमर्दीत्रिकण्टकसैरीयकशतावरीगृध्रनख्य इति कण्टकसञ्ज्ञः ||७३||

रक्तपित्तहरौ ह्येतौ शोफत्रयविनाशनौ |

सर्वमेहहरौ चैव शुक्रदोषविनाशनौ ||७४||

 कुशकाशनलदर्भकाण्डेक्षुका इति तृणसञ्ज्ञकः ||७५||

मूत्रदोषविकारं च रक्तपित्तं तथैव च |

अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत् ||७६|

 एषां वातहरावाद्यावन्त्यः पित्तविनाशनः |

पञ्चकौ श्लेष्मशमनावितरौ परिकीर्तितौ ||७७||

 त्रिवृतादिकमन्यत्रोपदेक्ष्यामः ||७८||

समासेन गणा ह्येते प्रोक्तास्तेषां तु विस्तरम् |

चिकित्सितेषु वक्ष्यामि, ज्ञात्वा दोषबलाबलम् ||७९||

एभिर्लेपान् कषायांश्च तैलं सर्पींषि पानकान् |

प्रविभज्य यथान्यायं कुर्वीत मतिमान् भिषक् ||८०||

धूमवर्षानिलक्लेदैः सर्वर्तुष्वनभिद्रुते |

ग्राहयित्वा गृहे न्यस्येद्विधिनौषधसङ्ग्रहम् ||८१||

समीक्ष्य दोषभेदांश्च भिन्नान् मिश्रान् भिन्नान् प्रयोजयेत् |

पृथङ्मिश्रान् समस्तान्वा गणं वा व्यस्तसंहतम् ||८२||

इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यसङ्ग्रहणीयो नामाष्टत्रिंशोऽध्यायः ||३८||

Last updated on May 24th, 2021 at 07:27 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English