Skip to content

21. Asht`auninditeeya – Sootra – C”

एकविंशोऽध्यायः ।

अथातोऽष्टौनिन्दितीयमध्यायं व्याख्यास्यामः॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

इह खलु शरीरमधिकृत्याष्टौ पुरुषा निन्दिता भवन्ति; तद्यथा -अतिदीर्घश्च, अतिह्रस्वश्च, अतिलोमा च, अलोमा च, अतिकृष्णश्च, अतिगौरश्च, अतिस्थूलश्च, अतिकृशश्चेति ॥३॥

तत्रातिस्थूलकृशयोर्भूय एवापरे निन्दितविशेषा भवन्ति।

अतिस्थूलस्य तावदायुषो ह्रासो जवोपरोधः कृच्छ्रव्यवायता दौर्बल्यं दौर्गन्ध्यं स्वेदाबाधः क्षुदतिमात्रं पिपासातियोगश्चेति भवन्त्यष्टौ दोषाः । तदतिस्थौल्यमतिसंपूरणाद्गुरुमधुरशीतस्निग्धोपयोगाद- व्यायामादव्यवायाद्दिवास्वपनाद्धर्षनित्यत्वादचिन्तनाद्बीजस्वभावाच्चोपजायते । तस्य ह्यतिमात्रमेदस्विनो मेद एवोपचीयते न तथेतरे धातवः तस्मादस्यायुषो ह्रास:, शैथिल्यात्‌ सौकुमार्याद्गुरुत्वाच्च मेदसो जवोपरोधः, शुक्राबहुत्वान्मेदसाऽऽवृतमार्गत्वाच्च कृच्छ्रव्यवायता, दौर्बल्यमसमत्वाद्धातूनां, दौर्गन्ध्यं मेदोदोषान्मेदसः स्वभावात्‌ स्वेदनत्वाच्च, मेदसः श्लेष्मसंसर्गाद्विष्यन्दित्वाद्बहुत्वाद्गुरुत्वादव्यायामासहत्वाच्च स्वेदाबाधः, तीक्ष्णाग्नित्वात्‌ प्रभूतकोष्ठवायुत्वाच्च क्षुदतिमात्रं पिपासातियोगश्चेति ॥४॥

भवन्ति चात्र –

मेदसाऽऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः ।

चरन्‌ संधुक्षयत्यग्निमाहारं शोषयत्यपि ॥५॥

तस्मात्‌ स शीघ्रं जरयत्याहारं चातिकाङ्‌क्षति ।

विकारांश्चाश्नुते घोरान्‌ कांश्चित्कालव्यतिक्रमात्‌ ॥६॥

एवावुपद्रवकरौ विशेषादग्निमारुतौ ।

एतौ हि दहतः स्थूलं वनदावो वनं यथा ॥७॥

मेदस्यतीव संवृद्धे सहसैवानिलादयः ।

विकारान्‌ दारुणान्‌ कृत्वा नाशयन्त्याशु जीवितम्‌ ॥८॥

मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः ।

अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ॥९॥

इति मेदस्विनो दोषा हेतवो रुपमेव च ।

निर्दिष्टं, वक्ष्यते वाच्यमतिकार्श्ये त्वतः परम्‌ ॥१०॥

सेवा रूक्षान्नपानानां लङ्घनं प्रमिताशनम्‌ ।

क्रियातियोगः शोकश्च वेगनिद्राविनिग्रहः ॥११॥

रूक्षस्योद्वर्तनं स्नानस्याभ्यासः प्रकृतिर्जरा ।

विकारानुशयः क्रोधः कुर्वन्त्यतिकृशं नरम्‌ ॥१२॥

व्यायाममतिसौहित्यं क्षुत्पिपासामयौषधम्‌ ।

कृशो न सहते तद्वदतिशीतोष्णमैथुनम्‌ ॥१३॥

प्लीहा कासः क्षयः श्वासो गुल्मोऽर्शांस्युदराणि च ।

कृशं प्रायोऽभिधावन्ति रोगाश्च ग्रहणीगताः ॥१४॥

शुष्कस्फिगुदरग्रीवो धमनीजालसन्ततः ।

त्वगस्थिशेषोऽतिकृशः स्थूलपर्वा नरो मतः ॥१५॥

सततं व्याधितावेतावतिस्थूलकृशौ नरौ ।

सततं चोपचर्यौ हि कर्शनैर्बृंहणैरपि ॥१६॥

स्थौल्यकार्श्ये वरं कार्श्यं समोपकरणौ हि तौ ।

यद्युभौ व्याधिरागच्छेत्‌ स्थूलमेवातिपीडयेत्‌ ॥१७॥

सममांसप्रमाणस्तु समसंहननो नरः ।

दृढेन्द्रियो विकाराणां न बलेनाभिभूयते ॥१८॥

क्षुत्पिपासातपसहः शीतव्यायामसंसहः।

समपक्ता समजरः सममांसचयो मतः ॥१९॥

गुरु चातर्पणं चेष्टं स्थूलानां कर्शनं प्रति ।

कृशानां बृंहणार्थं च लघु संतर्पणं च यत्‌ ॥२०॥

वातघ्नान्यन्नपानानि श्लेष्ममेदोहाराणि च ।

रूक्षोष्णा बस्तयस्तीक्ष्णा रूक्षाण्युद्वर्तनानि च ॥२१॥

गुडूचीभद्रमुस्तानां प्रयोगस्त्रैफलस्तथा ।

तक्रारिष्टप्रयोगश्च प्रयोगो माक्षिकस्य च ॥२२॥

विडङ्गं नागरं क्षारः काललोहरजो मधु ।

यवामलकचूर्णं च प्रयोगः श्रेष्ठ उच्यते ॥२३॥

बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्रसंयुतः ।

शिलाजतुप्रयोगश्च साग्निमन्थरसः परः ॥२४॥

प्रशातिका प्रियङ्गुश्च श्यामाका यवका यवाः ।

जूर्णाह्वाः कोद्रवा मुद्गुः  कुलत्थाश्चक्रमुद्गका॥२५॥

आढकीनां च बीजानि पटोलामलकैः सह ।

भोजनार्थं प्रयोज्यानि पानं चानु मधूदकम्‌ ॥२६॥

अरिष्टांश्चानुपानार्थे मेदोमांसकफापहान्‌ ।

अतिस्थौल्यविनाशाय संविभज्य प्रयोजयेत्‌ ।२७॥

प्रजागरं व्यवायं च व्यायामं चिन्तनानि च ।

स्थौल्यमिच्छन्‌ परित्यक्तुं क्रमेणाभिप्रवर्धयेत्‌ ॥२८॥

स्वप्नो हर्षः सुखा शय्या मनसो निर्वृतिः शमः ।

चिन्ताव्यवायव्यायामविरामः प्रियदर्शनम्‌ ॥२९॥

नवान्नानि नवं मद्यं ग्राम्यानूपौदका रसाः ।

संस्कृतानि च मांसानि दधि सर्पिः पयांसि च ॥३०॥

इक्षवः शालयो माषा गोधूमा गुडवैकृतम्‌ ।

बस्तयः स्निग्धमधुरास्तैलाभ्यङ्गश्च सर्वदा ॥३१॥

स्निग्धमुद्वर्तनं स्नानं गन्धमाल्यनिषेवणम्‌ ।

शुक्लं वासो यथाकालं दोषाणामवसेचनम्‌ ॥३२॥

रसायनानां वृष्याणां योगानामुपसेवनम्‌ ।

हत्वाऽतिकार्श्यमाधत्ते नृणामुपचयं परम्‌ ॥३३॥

अचिन्तनाच्च कार्याणां ध्रुवं संतर्पणेन च ।

स्वप्नोप्रसङ्गाच्च नरो वराह इव पुष्यति ॥३४॥

यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः ।

विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः ॥३५॥

निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्‌ ।

वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च ॥३६॥

अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता ।

सुखायुषी पराकुर्यात्‌ कालरात्रिरिवापरा ॥३७॥

सैव युक्तापुनर्युङक्ते निद्रा देहं सुखायुषा ।

पुरुषं योगिनं सिद्ध्या सत्या बुद्धिरिवागता ॥३८॥

गीताध्ययनमद्यस्त्रीकर्मभाराध्वकर्शिताः ।

अजीर्णिनः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः ॥३९॥

तृष्णातीसारशूलार्ताः श्वासिनो हिक्किनः कृशाः ।

पतिताभिहतोन्मत्ताः क्लान्ता यानप्रजागरैः ॥४०॥

क्रोधशोकभयक्लान्ता दिवास्वप्नोचिताश्च ये ।

सर्व एते दिवास्वप्नं सेवेरन्‌ सार्वकालिकम्‌ ॥४१॥

धातुसाम्यं तथा ह्येषां बलं चाप्युपजायते ।

श्लेष्मा पुष्णाति चाङ्गानि स्थैर्यं भवति चायुषः ॥४२॥

ग्रीष्मे त्वादानरूक्षाणां वर्धमाने च मारुते ।

रात्रीणां चातिसंक्षेपाद्दिवास्वप्नः प्रशस्यते ॥४३॥

ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात्‌ प्रकुप्यतः।

श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते ॥४४॥

मेदस्विनः स्नेहनित्याः श्लेष्मलाः श्लेष्मरोगिणः ।

दूषीविषार्ताश्च दिवा न शयीरन्‌ कदाचन ॥४५॥

हलीमकः शिरःशूलं स्तैमित्यं गुरुगात्रता ।

अङ्गमर्दोऽग्निनाशश्च प्रलेपो हृदयस्य च ॥४६॥

शोफारोचकहृल्लासपीनसार्धावभेदकाः ।

कोठारुःपिडकाः कण्डूस्तन्द्रा कासो गलामयाः ॥४७॥

स्मृतिबुद्धिप्रमोहश्च संरोधः स्रोतसां ज्वरः ।

इन्द्रियाणामसामर्थ्यं विषवेगप्रवर्त(र्ध)नम्‌ ॥४८॥

भवेन्नृणां दिवास्वपन्स्याहितस्य निषेवणात्‌ ।

तस्माद्धिताहितं स्वप्नं बुद्‌ध्वा स्वप्यात्‌ सुखं बुधः ॥४९॥

रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा ।

अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्‌ ॥५०॥

देहवृत्तौ यथाऽऽहारस्तथा स्वप्नः  सुखो मतः ।

स्वप्नाहारसमुत्थे च स्थौल्यकार्श्ये विशेषतः ॥५१॥

अभ्यङ्गोत्सादनं स्नानं ग्राम्यानूपौदका रसाः ।

शाल्यन्नं सदधि क्षीरं स्नेहो मद्यं मनःसुखम्‌॥५२॥

मनसोऽनुगुणा गन्धाः शब्दाः संवाहनानि च ।

चक्षुषोस्तर्पणं लेपः शिरसो वदनस्य च ॥५३॥

स्वास्तीर्णं शयनं वेश्म सुखं कालस्तथोचितः ।

आनयन्त्यचिरान्निद्रां प्रनष्टा या निमित्ततः ॥५४॥

कायस्य शिरसश्चैव विरेकश्छर्दनं भयम्‌ ।

चिन्ता क्रोधस्तथा धूमो व्यायामो रक्तमोक्षणम्‌ ॥५५॥

उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः ।

निद्राप्रसङ्गमहितं वारयन्ति समुत्थितम्‌ ॥५६॥

एत एव च विज्ञेया निद्रानाशस्य हेतवः ।

कार्यं कालो विकारश्च प्रकृतिर्वायुरेव च ॥५७॥

तमोभवा श्लेष्मसमुद्भवा च

मनःशरीरश्रमसंभवा च । 

आगन्तुकी व्याध्यनुवर्तिनी च

रात्रिस्वभावप्रभवा च निद्रा॥५८॥

रात्रिस्वभावप्रभवा मता या

तां भूतधात्रीं प्रवदन्ति तज्ज्ञा:।

तमोभवामाहुरघस्य मूलं

शेषाः पुनर्व्याधिषु निर्दिशन्ति ॥५९॥

तत्र श्लोकाः-

निन्दिताः पुरुषास्तेषां यौ विशेषेण निन्दितौ ।

निन्दिते कारणं दोषास्तयोर्निन्दितभेषजम्‌ ॥६०॥

येभ्यो यदा हिता निद्रा येभ्यश्चाप्यहिता यदा ।

अतिनिद्रायानिद्राय भेषजं यद्भवा च सा ॥६१॥

या या यथाप्रभावा च निद्रा तत्‌ सर्वमत्रिजः ।

अष्टौनिन्दितसंख्याते व्याजहार पुनर्वसुः ॥६२॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने योजनाचतुष्के अष्टौनिन्दितीयो नामैकविंशतितमोऽध्यायः ॥२१॥

Last updated on June 1st, 2021 at 08:04 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English