Skip to content

11. Mootraaghaata Chikitsaa – Chikitsaa – AH”

अष्टाङ्गहृदये (चिकित्सितस्थानम्‌)

मूत्राघातचिकित्सितं एकादशोऽध्यायः।

अथातो मूत्राघातचिकित्सितं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

कृच्छ्रे वातघ्नैतैलाक्तमधोनाभेः समीरजे।

सुस्निग्धैः स्वेदयेदङ्गं पिण्डसेकावगाहनैः॥१॥

दशमूलबलैरण्डयवाभीरुपुनर्नवैः।

कुलत्थकोलपत्तूरवृश्चीवोपलभेदकैः॥२॥

तैलसर्पिर्वराहर्क्षवसाः क्वथितकल्कितैः।

सपञ्चलवणाः सिद्धाः पीताः शूलहराः परम्‌॥३॥

द्रव्याण्येतानि पानान्ने तथा पिण्डोपनाहने।

सह तैलफलैर्युञ्ज्यात्साम्लानि स्नेहवन्ति च॥४॥

सौवर्चलाढ्यां मदिरां पिबेन्मूत्ररुजापहाम्‌।

पैत्ते युञ्जीत शिशिरं सेकलेपावगाहनम्‌॥५॥

पिबेद्वरीं गोक्षुरकं विदारीं सकसेरुकाम्‌।

तृणाख्यं पञ्चमूलं च पाक्यं समधुशर्करम्‌॥६॥

वृषकं त्रपुसैर्वारुलट्वाबीजानि कुङ्कुमम्‌।

द्राक्षाम्भोभिः पिबन्‌ सर्वान्‌ मूत्राघातानपोहति॥७॥

एर्वारुबीजयष्ट्याह्वदार्वीर्वा तण्डुलाम्बुना।

तोयेन कल्कं द्राक्षायाः पिबेत्पर्युषितेन वा॥८॥

कफजे वमनं स्वेदं तीक्ष्णोष्णकटुभोजनम्‌।

यवानां विकृतीः क्षारं कालशेयं च शीलयेत्‌॥९॥

पिबेन्मद्येन सूक्ष्मैलां धात्रीफलरसेन वा।

सारसास्थिश्वदंष्ट्रैलाव्योषं वा मधुमूत्रवत्‌॥१०॥

स्वरसं कण्टकार्या वा पाययेन्माक्षिकान्वितम्‌।

शितिवारकबीजं वा तक्रेण श्लक्ष्णचूर्णितम्‌॥११॥

धवसप्ताह्वकुटजगुडूचीचतुरङ्गुलम्‌।

केम्बुकैलाकरञ्जं च पाक्यं समधु साधितम्‌॥१२॥

तैर्वा पेयां प्रवालं वा चूर्णितं तण्डुलाम्बुना।

सतैलं पाटलाक्षारं सप्तकृत्वोऽथवा स्रुतम्‌॥१३॥

पाटलीयावशूकाभ्यां पारिभद्रात्तिलादपि।

क्षारोदकेन मदिरां त्वगेलोषकसंयुताम्‌॥१४॥

पिबेद्गुडोपदंशान्वा लिह्यादेतान्‌ पृथक्‌ पृथक्‌।

सन्निपातात्मके सर्वं यथावस्थमिदं हितम्‌॥१५॥

अश्मन्यप्यचिरोत्थाने वातबस्त्यादिकेषु च।

अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः॥१६॥

तरुणो भेषजैः साध्यः प्रवृद्धश्छेदमर्हति।

तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते॥१७॥

पाषाणभेदो वसुको वशिरोऽश्मन्तको वरी।

कपोतवङ्कातिबलाभल्लूकोशीरकच्छकम्‌॥१८॥

वृक्षादनी शाकफलं व्याघ्र्यौ गुण्ठस्त्रिकण्टकः।

यवाः कुलत्थाः कोलानि वरुणः कतकात्फलम्‌॥१९॥

ऊषकादिप्रतीवापमेषां क्वाथे शृतं घृतम्‌।

भिनत्ति वातसम्भूतां तत्पीतं शीघ्रमश्मरीम्‌॥२०॥

गन्धर्वहस्तबृहतीव्याघ्रीगोक्षुरकेक्षुरात्‌।

मूलकल्कं पिबेद्दध्ना मधुरेणाश्मभेदनम्‌॥२१॥

कुशः काशः शरो गुण्ठ इत्कटो मोरटोऽश्मभित्‌।

दर्भो विदारी वाराही शालिमूलं त्रिकण्टकः॥२२॥

भल्लूकः पाटली पाठा पत्तूरः सकुरण्टकः।

पुनर्नवे शिरीषश्च तेषां क्वाथे पचेद्घृतम्‌॥२३॥

पिष्टेन त्रपुसादीनां बीजेनेन्दीवरेण च।

मधुकेन शिलाजेन तत्पित्ताश्मरिभेदनम्‌॥२४॥

वरुणादिः समीरघ्नौ  गणावेलाहरेणुका।

गुग्गुलुर्मरिचं कुष्ठं चित्रकः ससुराह्वयः॥२५॥

तैः कल्कितैः कृतावापमूषकादिगणेन च।

भिनत्ति कफजामाशु साधितं घृतमश्मरीम्‌॥२६॥

क्षारक्षीरयवाग्वादि द्रव्यैः स्वैः स्वैश्च कल्पयेत्‌।

पिचुकाङ्कोल्लकतकशाकेन्दीवरजैः फलैः॥२७॥

पीतमुष्णाम्बु सगुडं शर्करापातनं परम्‌।

क्रौञ्चौष्ट्ररासभास्थीनि श्वदंष्ट्रा तालपत्रिका॥२८॥

अजमोदा कदम्बस्य मूलं विश्वस्य चौषधम्‌।

पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा॥२९॥

नृत्यकुण्डकबीजानां चूर्णं माक्षिकसंयुतम्‌।

अविक्षीरेण सप्ताहं पीतमश्मरिपातनम्‌॥३०॥

क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरिपातनः।

तिलापामार्गकदलीपलाशयवसम्भवः॥३१॥

क्षारः पेयोऽविमूत्रेण शर्करास्वश्मरीषु च।

कपोतवङ्कामूलं वा पिबेदेकं सुरादिभिः॥३२॥

तत्सिद्धं वा पिबेत्क्षीरं वेदनाभिरुपद्रुतः।

हरीतक्यस्थिसिद्धं वा साधितं वा पुनर्नवैः॥३३॥

क्षीरान्नभुग्बर्हिशिखामूलं वा तण्डुलाम्बुना।

मूत्रघातेषु विभजेदतः शेषेष्वपि क्रियाम्‌॥३४॥

बृहत्यादिगणे सिद्धं द्विगुणीकृतगोक्षुरे।

तोयं पयो वा सर्पिर्वा सर्वमूत्रविकारजित्‌॥३५॥

देवदारुं घनं मूर्वां यष्टीमधु हरीतकीम्‌।

मूत्राघातेषु सर्वेषु सुराक्षीरजलैः पिबेत्‌॥३६॥

रसं वा धन्वयासस्य कषायं ककुभस्य वा।

सुखाम्भसा वा त्रिफलां पिष्टां सैन्धवसंयुताम्‌॥३७॥

व्याघ्रीगोक्षुरकक्वाथे यवागूं वा सफाणिताम्‌।

क्वाथे वीरतरादेर्वा ताम्रचूडरसेऽपि वा॥३८॥

अद्याद्वीरतराद्येन भावितं वा शिलाजतु।

मद्यं वा निगदं पीत्वा रथेनाश्वेन वा व्रजेत्‌॥३९॥

शीघ्रवेगेन सङ्‌क्षोभात्तथाऽस्य च्यवतेऽश्मरी।

सर्वथा चोपयोक्तव्यो वर्गो वीरतरादिकः॥४०॥

रेकार्थं तैल्वकं सर्पिर्बस्तिकर्म च शीलयेत्‌।

विशेषादुत्तरान्‌ बस्तीन्‌ शुक्राश्मर्यां तु शोधिते॥४१॥

तैर्मूत्रमार्गे बलवान्‌ शुक्राशयविशुद्धये।

पुमान्‌ सुतृप्तो वृष्याणां मांसानां कुक्कुटस्य च॥४२॥

कामं सकामाः सेवेत प्रमदा मददायिनीः।

सिद्धैरुपक्रमैरेभिर्न चेच्छान्तिस्तदा भिषक्‌॥४३॥

इति राजानमापृच्छ्य शस्त्रं साध्ववचारयेत्‌।

अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्‌॥४४॥

निश्चितस्यापि वैद्यस्य बहुशः सिद्धकर्मणः।

अथातुरमुपस्निग्धशुद्धमीषच्च कर्शितम्‌॥४५॥

अभ्यक्तस्विन्नवपुषमभुक्तं कृतमङ्गलम्‌।

आजानुफलकस्थस्य नरस्याङ्के  व्यपाश्रितम्‌॥४६॥

पूर्वेण कायेनोत्तानं निषण्णं वस्त्रचुम्भले।

ततोऽस्याकुञ्चिते जानुकूर्परे वाससा दृढम्‌॥४७॥

सहाश्रयमनुष्येण बद्धस्याश्वासितस्य च।

नाभेः समन्तादभ्यज्यादधस्तस्याश्च वामतः॥४८॥

मृदित्वा मुष्टिनाऽऽक्रामेद्यावदश्मर्यधोगता।

तैलाक्ते वर्धितनखे तर्जनीमध्यमे ततः॥४९॥

अदक्षिणे गुदेऽङ्गुल्यौ प्रणिधायानुसेवनि।

आसाद्य बलयत्नाभ्यामश्मरीं गुदमेढ्रयोः॥५०॥

कृत्वाऽन्तरे तथा बस्तिं निर्बलीकमनायतम्‌।

उत्पीडयेदङ्गुलिभ्यां यावद्‌ग्रन्थिरिवोन्नतम्‌॥५१॥

शल्यं स्यात्सेवनीं मुक्त्वा यवमात्रेण पाटयेत्‌।

अश्ममानेन न यथा भिद्यते सा तथाऽऽहरेत्‌॥५२॥

समग्रं सर्पवक्त्रेण, स्त्रीणां बस्तिस्तु पार्श्वगः।

गर्भाशयाश्रयस्तासां शस्त्रमुत्सङ्गवत्ततः॥५३॥

न्यसेदतोऽन्यथा ह्यासां मूत्रस्रावी व्रणो भवेत्‌।

मूत्रप्रसेकक्षणनान्नरस्याप्यपि चैकधा॥५४॥

बस्तिभेदोऽश्मरीहेतुः सिद्धिं याति न तु द्विधा।

विशल्यमुष्णपानीयद्रोण्यां तमवगाहयेत्‌॥५५॥

तथा न पूर्यतेऽस्रेण बस्तिः, पूर्णे तु पीडयेत्‌।

मेढ्रान्तः क्षीरिवृक्षाम्बु मूत्रसंशुद्धये ततः॥५६॥

कुर्याद्गुडस्य सौहित्यं मध्वाज्याक्तव्रणः पिबेत्‌।

द्वौ कालौ सघृतां कोष्णां यवागूं मूत्रशोधनैः॥५७॥

त्र्यहं, दशाहं पयसा गुडाढ्येनाल्पमोदनम्‌।

भुञ्जीतोर्ध्वं फलाम्लैश्च रसैर्जाङ्गलचारिणाम्‌॥५८॥

क्षीरिवृक्षकषायेण व्रणं प्रक्षाल्य लेपयेत्‌।

प्रपौण्डरीकमञ्जिष्ठायष्ट्याह्वनयनौषधैः॥५९॥

व्रणाभ्यङ्गे पचेत्तैलमेभिरेव निशान्वितैः।

दशाहं स्वेदयेच्चैनं, स्वमार्गं सप्तरात्रतः॥६०॥

मूत्रे त्वगच्छति दहेदश्मरीव्रणमग्निना।

स्वमार्गप्रतिपत्तौ तु स्वादुप्रायैरुपाचरेत्‌॥६१॥

तं बस्तिभिः न चारोहेद्वर्षं रूढव्रणोऽपि सः।

नगनागाश्ववृक्षस्त्रीरथान्नाप्सु प्लवेत च॥६२॥

मूत्रशुक्रवहौ बस्तिवृषणौ सेवनीं गुदम्‌।

मूत्रप्रसेकं योनिं च शस्त्रेणाष्टौ विवर्जयेत्‌॥।६३॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहिताया चतुर्थे चिकित्सितस्थाने मूत्राघातचिकित्सितं  नामैकादशोऽध्यायः॥११॥

Last updated on August 23rd, 2021 at 11:38 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English