सुश्रुतसंहिता ।
अथ चिकित्सास्थानम् ।
पञ्चदशोऽध्यायः ।
अथातो मूढगर्भचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
नातोऽन्यत् कष्टतममस्ति यथा मूढगर्भशल्योद्धरणम्; अत्र हि योनियकृत्प्लीहान्त्रविवरगर्भाशयानां मध्ये कर्म कर्तव्यं स्पर्शेन, उत्कर्षणापकर्षणस्थानापवर्तनोत्कर्तनभेदनच्छेदनपीडनर्जूकरणदारणानि चैकहस्तेन गर्भं गर्भिणीं चाहिंसता, तस्मादधिपतिमापृच्छ्य परं च यत्नमास्थायोपक्रमेत ||३||
तत्र समासेनाष्टविधा मूढगर्भगतिरुद्दिष्टा; स्वभावगता अपि त्रयः सङ्गा भवन्ति- शिरसो वैगुण्यादंसयोर्जघनस्य वा ||४||
जीवति तु गर्भे सूतिकागर्भनिर्हरणे प्रयतेत |
निर्हर्तुमशक्ये च्यावनान् मन्त्रानुपशृणुयात्; तान् वक्ष्यामः ||५||
‘इहामृतं च सोमश्च चित्रभानुश्च भामिनि |
उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते ||६||
इदममृतमपां समुद्धृतं वै
तव लघु गर्भमिमं प्रमुञ्चतु स्त्रि |
तदनलपवनार्कवासवास्ते
सह लवणाम्बुधरैर्दिशन्तु शान्तिम् ||७||
मुक्ताः पशोर्विपाशाश्च मुक्ताः सूर्येण रश्मयः |
मुक्तः सर्वभयाद्गर्भ एह्येहि विरमावितः ||८||
औषधानि च विदध्याद्यथोक्तानि |
मृते चोत्तानाया आभुग्नसक्थ्या वस्त्राधारकोन्नमितकट्या धन्वननगवृत्तिकाशाल्मलीमृत्स्नघृताभ्यां म्रक्षयित्वा हस्तं योनौ प्रवेश्य गर्भमुपहरेत् |
तत्र सक्थिभ्यामागतमनुलोममेवाञ्छेत्, एकसक्थ्ना प्रतिपन्नस्येतरसक्थि प्रसार्यापहरेत्, स्फिग्देशेनागतस्य स्फिग्देशं प्रपीड्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्यापहरेत्, तिर्यगागतस्य परिघस्येव तिरश्चीनस्य पश्चादर्धमूर्ध्वमुत्क्षिप्य पूर्वार्धमपत्यपथं प्रत्यार्जवमानीयापहरेत्, पार्श्वापवृत्तशिरसमंसं प्रपीड्योर्ध्वमुत्क्षिप्य शिरोऽपत्यपथमानीयापहरेत्, बाहुद्वयप्रतिपन्नस्योर्ध्वमुत्पीड्यांसौ शिरोऽनुलोममानीयापहरेत्, द्वावन्त्यावसाध्यौ मूढगर्भौ, एवमशक्ये शस्त्रमवचारयेत् ||९||
सचेतनं च शस्त्रेण न कथञ्चन दारयेत् |
दार्यमाणो हि जननीमात्मानं चैव घातयेत् ||१०||
अविषह्ये विकारे तु श्रेयो गर्भस्य पातनम् |
न गर्भिण्या विपर्यासस्तस्मात्प्राप्तं न हापयेत् ||११||
ततः स्त्रियमाश्वास्य मण्डलाग्रेणाङ्गुलीशस्त्रेण वा शिरो विदार्य, शिरःकपालान्याहृत्य, शङ्कुना गृहीत्वोरसि कक्षायां वाऽपहरेत्; अभिन्नशिरसमक्षिकूटे गण्डे वा, अंससंसक्तस्यांसदेशे बाहू छित्त्वा, दृतिमिवाततं वातपूर्णोदरं वा विदार्य निरस्यान्त्राणि शिथिलीभूतमाहरेत्, जघनसक्तस्य वा जघनकपालानीति ||१२||
किम्बहुना-
यद्यदङ्गं हि गर्भस्य तस्य सज्जति तद्भिषक् |
सम्यग्विनिर्हरेच्छित्त्वा रक्षेन्नारीं च यत्नतः ||१३||
गर्भस्य गतयश्चित्रा जायन्तेऽनिलकोपतः |
तत्रानल्पमतिर्वैद्यो वर्तेत विधिपूर्वकम् ||१४||
नोपेक्षेत मृतं गर्भं मुहूर्तमपि पण्डितः |
स ह्याशु जननीं हन्ति निरुच्छ्वासं पशुं यथा ||१५||
मण्डलाग्रेण कर्तव्यं छेद्यमन्तर्विजानता |
वृद्धिपत्रं हि तीक्ष्णाग्रं नारीं हिंस्यात् कदाचन ||१६||
अथापतन्तीमपरां पातयेत् पूर्ववद्भिषक् |
हस्तेनापहरेद्वाऽपि पार्श्वभ्यां परिपीड्य वा ||१७||
धुनुयाच्च मुहुर्नारीं पीडयेद्वांऽसपिण्डिकाम् |
तैलाक्तयोनेरेवं तां पातयेन्मतिमान् भिषक् ||१८||
एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा |
ततोऽभ्यक्तशरीराया योनौ स्नेहं निधापयेत् ||१९||
एवं मृद्वी भवेद्योनिस्तच्छूलं चोपशाम्यति |
कृष्णातन्मूलशुण्ठ्येलाहिङ्गुभार्गीः सदीप्यकाः ||२०||
वचामतिविषां रास्नां चव्यं सञ्चूर्ण्य पाययेत् |
स्नेहेन दोषस्यन्दार्थं वेदनोपशमाय च ||२१||
क्वाथं चैषां तथा कल्कं चूर्णं वा स्नेहवर्जितम् |
शाकत्वग्घिङ्ग्वतिविषापाठाकटुकरोहिणीः ||२२||
तथा तेजोवतीं चापि पाययेत् पूर्ववद्भिषक् |
त्रिरात्रं पञ्चसप्ताहं ततः स्नेहं पुनः पिबेत् ||२३||
पाययेतासवं नक्तमरिष्टं वा सुसंस्कृतम् |
शिरीषककुभाभ्यां च तोयमाचमने हितम् ||२४||
उपद्रवाश्च येऽन्ये स्युस्तान् यथास्वमुपाचरेत् |
सर्वतः परिशुद्धा च स्निग्धपथ्याल्पभोजना ||२५||
स्वेदाभ्यङ्गपरा नित्यं भवेत् क्रोधविवर्जिता |
पयो वातहरैः सिद्धं दशाहं भोजने हितम् ||२६||
रसं दशाहं शेषे तु यथायोगमुपाचरेत् |
व्युपद्रवां विशुद्धां च ज्ञात्वा च वरवर्णिनीम् ||२७||
ऊर्ध्वं चतुर्भ्यो मासेभ्यो विसृजेत् परिहारतः |
योनिसन्तर्पणेऽभ्यङ्गे पाने बस्तिषु भोजने ||२८||
बलातैलमिदं चास्यै दद्यादनिलवारणम् |
बलामूलकषायस्य दशमूलीशृतस्य च ||२९||
यवकोलकुलत्थानां क्वाथस्य पयसस्तथा |
अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः ||३०||
पचेदावाप्य मधुरं गणं सैन्धवसंयुतम् |
तथाऽगुरुं सर्जरसं सरलं देवदारु च ||३१||
मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम् |
मांसीं शैलेयकं पत्रं तगरं सारिवां वचाम् ||३२||
शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम् |
तत् साधुसिद्धं सौवर्णे राजते मृन्मयेऽपि वा ||३३||
प्रक्षिप्य कलशे सम्यक् स्वनुगुप्तं निधापयेत् |
बलातैलमिदं ख्यातं सर्ववातविकारनुत् ||३४||
यथाबलमतो मात्रां सूतिकायै प्रदापयेत् |
या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान् ||३५||
वातक्षीणे मर्महते मथितेऽभिहते तथा |
भग्ने श्रमाभिपन्ने च सर्वथैवोपयुज्यते ||३६||
एतदाक्षेपकादीन् वै वातव्याधीनपोहति |
हिक्कां कासमधीमन्थं गुल्मं श्वासं च दुस्तरम् ||३७||
षण्मासानुपयुज्यैतदन्त्रवृद्धिमपोहति |
प्रत्यग्रधातुः पुरुषो भवेच्च स्थिरयौवनः ||३८||
राज्ञामेतद्धि कर्तव्यं राजमात्राश्च ये नराः |
सुखिनः सुकुमाराश्च धनिनश्चापि ये नराः ||३९||
बलाकषायपीतेभ्यस्तिलेभ्यो वाऽप्यनेकशः |
तैलमुत्पाद्य तत्क्वाथशतपाकं कृतं शुभम् ||४०||
निवाते निभृतागारे प्रयुञ्जीत यथाबलम् |
जीर्णेऽस्मिन् पयसा स्निग्धमश्नीयात् षष्टिकौदनम् ||४१||
अनेन विधिना द्रोणमुपयुज्यान्नमीरितम् |
भुञ्जीत द्विगुणं कालं बलवर्णान्वितस्ततः ||४२||
सर्वपापैर्विनिर्मुक्तः शतायुः पुरुषो भवेत् |
शतं शतं तथोत्कर्षो द्रोणे द्रोणे प्रकीर्तितः ||४३||
बलाकल्पेनातिबलागुडूच्यादित्यपर्णिषु |
सैरेयके वीरतरौ शतावर्यां त्रिकण्टके ||४४||
तैलानि मधुके कुर्यात् प्रसारिण्यां च बुद्धिमान् |
नीलोत्पलं वरीमूलं गव्ये क्षीरे विपाचयेत् ||४५||
शतपाकं ततस्तेन तिलतैलं पचेद्भिषक् |
बलातैलस्य कल्कांस्तु सुपिष्टांस्तत्र दापयेत् ||४६||
सर्वेषामेव जानीयादुपयोगं चिकित्सकः |
बलातैलवदेतेषां गुणांश्चैव विशेषतः ||४७|| इति सुश्रुतसंहितायां चिकित्सास्थाने मूढगर्भचिकित्सितं नाम पञ्चदशो
Last updated on July 8th, 2021 at 09:23 am