Skip to content

04. S`hvaasa Hidhmaa Chikitsaa – Chikitsaa – AH”

अष्टाङ्गहृदये (चिकित्सितस्थानम्‌)

श्वासहिध्माचिकित्सितं चतुर्थोऽध्यायः।

अथातः श्वासहिध्माचिकित्सितं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

श्वासहिध्मा यतस्तुल्यहेत्वाद्याः, साधनं ततः।

तुल्यमेव तदार्तं च पूर्वं स्वेदैरुपाचरेत्‌॥१॥

स्निग्धैर्लवणतैलाक्तं तैः खेषु ग्रथितः कफः।

सुलीनोऽपि विलीनोऽस्य कोष्ठं प्राप्तः सुनिर्हरः॥२॥

स्रोतसां स्यान्मृदुत्वं च मरुतश्चानुलोमता।

स्विन्नं च भोजयेदन्नं स्निग्धमानूपजै रसैः॥३॥

दध्युत्तरेण वा, दद्यात्ततोऽस्मै वमनं मृदु।

विशेषात्कासवमथुहृद्‌ग्रहस्वरसादिने॥४॥

पिप्पलीसैन्धवक्षौद्रयुक्तं वाताविरोधि यत्‌।

निर्हृते सुखमाप्नोति स कफे दुष्टविग्रहे॥५॥

स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः।

ध्मानोदावर्ततमके मातुलुङ्गाम्लवेतसैः॥६॥

हिङ्गुपीलुबिडैर्युक्तमन्नं स्यादनुलोमनम्‌।

ससैन्धवं फलाम्लं वा कोष्णं दद्याद्विरेचनम्‌॥७॥

एते हि कफसंरुद्धगतिप्राणप्रकोपजाः।

तस्मात्तन्मार्गशुद्ध्यर्थमूर्ध्वाधः शोधनं हितम्‌॥८॥

उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्‌।

यथा तथाऽनिलस्तस्य मार्गमस्माद्विशोधयेत्‌॥९॥

अशान्तौ कृतसंशुद्धेर्धूमैर्लीनं मलं हरेत्‌।

हरिद्रापत्रमेरण्डमूलं लाक्षां मनःशिलाम्‌॥१०॥

सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्‌।

तां घृताक्तां पिबेद्धूमं यवान्‌ वा घृतसंयुतान्‌॥११॥

मधूच्छिष्टं सर्जरसं घृतं वा गुरु वाऽगुरु।

चन्दनं वा तथा शृङ्गं वालान्वा स्नाव वा गवाम्‌॥१२॥

ऋक्षगोधकुरङ्गैणचर्मशृङ्गखुराणि वा।

गुग्गुलुं वा मनोह्वां वा शालनिर्यासमेव वा॥१३॥

शल्लकीं गुग्गुलुं लोहं पद्मकं वा घृताप्लुतम्‌।

अवश्यं स्वेदनीयानामस्वेद्यानामपि क्षणम्‌॥१४॥

स्वेदयेत्ससिताक्षीरसुखोष्णस्नेहसेचनैः।

उत्कारिकोपनाहैश्च स्वेदाध्यायोक्तभेषजैः॥१५॥

उरः कण्ठं च मृदुभिः सामे त्वामविधिं चरेत्‌।

अतियोगोद्धतं वातं दृष्ट्वा पवननाशनैः॥१६॥

स्निग्धै रसाद्यैर्नात्युष्णैरभ्यङ्गैश्च शमं नयेत्‌।

अनुत्क्लिष्टकफास्विन्नदुर्बलानां हि शोधनात्‌॥१७॥

वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्‌।

कषायलेहस्नेहाद्यैस्तेषां संशमयेदतः॥१८॥

क्षीणक्षतातिसारासृक्पित्तदाहानुबन्धजान्‌।

मधुरस्निग्धशीताद्यैर्हिध्माश्वासानुपाचरेत्‌॥१९॥

कुलत्थदशमूलानां क्वाथे स्युर्जाङ्गला रसाः।

यूषाश्च शिग्रुवार्ताककासघ्नवृषमूलकैः॥२०॥

पल्लवैर्निम्बकुलकबृहतीमातुलुङ्गजैः।

व्याघ्रीदुरालभाशृङ्गीबिल्वमध्यत्रिकण्टकैः॥२१॥

सामृताग्निकुलत्थैश्च यूषः स्यात्क्वथितैर्जले।

तद्वद्रास्नाबृहत्यादिबलामुद्गैः सचित्रकैः॥२२॥

पेया च चित्रकाजाजीशृङ्गीसौवर्चलैः कृता।

दशमूलेन वा कासश्वासहिध्मारुजापहा॥२३॥

दशमूलशठीरास्नाभार्गीबिल्वर्द्धिपौष्करैः।

कुलीरशृङ्गीचपलातामलक्यमृतौषधैः॥२४॥

पिबेत्कषायं जीर्णेऽस्मिन्‌ पेयां तैरेव साधिताम्‌।

शालिषष्टिकगोधूमयवमूद्गकुलत्थभुक्‌॥२५॥

कासहृद्‌ग्रहपार्श्वार्तिहिध्माश्वासप्रशान्तये।

सक्तून्‌ वाऽर्काङ्कुरक्षीरभावितानां समाक्षिकान्‌॥२६॥

यवानां दशमूलादिनिष्क्वाथलुलितान्‌ पिबेत्‌।

अन्ने च योजयेत्‌ क्षारहिङ्‌ग्वाज्यबिडदाडिमान्‌॥२७॥

सपौष्करशठीव्योषमातुलुङ्गाम्लवेतसान्‌।

दशमूलस्य वा क्वाथमथवा देवदारुणः॥२८॥

पिबेद्वा वारुणीमण्डं हिध्माश्वासी पिपासितः।

पिप्पलीपिप्पलीमूलपथ्याजन्तुघ्नचित्रकैः॥२९॥

कल्कितैर्लेपिते रूढे निःक्षिपेृतभाजने ।

तक्रं मासस्थितं तद्धि दीपनं श्वासकासजित्‌॥३०॥

पाठां मधुरसां दारु सरलं च निशि स्थितम्‌।

सुरामण्डेऽल्पलवणं पिबेत्प्रसृतसम्मितम्‌॥३१॥

भार्गीशुण्ठ्यौ सुखाम्भोभिः क्षारं वा मरिचान्वितम्‌।

स्वक्वाथपिष्टां लुलितां बाष्पिकां पाययेत वा॥३२॥

स्वरसः सप्तपर्णस्य पुष्पाणां वा शिरीषतः।

हिध्माश्वासे मधुकणायुक्तः पित्तकफानुगे॥३३॥

उत्कारिका तुगाकृष्णामधूलीघृतनागरैः।

पित्तानुबन्धे योक्तव्या, पवने त्वनुबन्धिनि॥३४॥

श्वाविच्छशामिषकणाघृतशल्यकशोणितैः।

सुवर्चलारसव्योषसर्पिर्भिः सहितं पयः॥३५॥

अनु शाल्योदनं पेयं वातपित्तानुबन्धिनि।

चतुर्गुणाम्बुसिद्धं वा छागं सगुडनागरम्‌॥३६॥

पिप्पलीमूलमधुकगुडगोश्वशकृद्रसान्‌।

हिध्माभिष्यन्दकासघ्नान्‌ लिह्यान्मधुघृतान्वितान्‌॥३७॥

गोगजाश्ववराहोष्ट्रखरमेषाजविड्रसम्‌।

समध्वेकैकशो लिह्याद्बहुश्लेष्माऽथवा पिबेत्‌॥३८॥

चतुष्पाच्चर्मरोमास्थिखुरशृङ्गोद्भवां मषीम्‌।

तथैव वाजिगन्धाया लिह्याच्छ्वासी कफोल्बणः॥३९॥

शठीपौष्करधात्रीर्वा पौष्करं वा कणान्वितम्‌।

गैरिकाञ्जनकृष्णा वा स्वरसं वा कपित्थजम्‌॥४०॥

रसेन वा कपित्थस्य धात्रीसैन्धवपिप्पलीः।

घृतक्षौद्रेण वा पथ्याविडङ्गोषणपिप्पलीः॥४१॥

कोललाजामलद्राक्षापिप्पलीनागराणि वा।

गुडतैलनिशाद्राक्षाकणारास्नोषणानि वा॥४२॥

पिबेद्रसाम्बुमद्याम्लैर्लेहौषधरजांसि वा।

जीवन्तीमुस्तसुरसत्वगेलाद्वयपौष्करम्‌॥४३॥

चण्डातामलकीलोहभार्गीनागरवालकम्‌।

कर्कटाख्याशठीकृष्णानागकेसरचोरकम्‌॥४४॥

उपयुक्तं यथाकामं चूर्णं द्विगुणशर्करम्‌।

पार्श्वरुग्ज्वरकासघ्नं हिध्माश्वासहरं परम्‌॥४५॥

शठीतामलकीभार्ङ्गीचण्डावालकपौष्करम्‌।

शर्कराष्टगुणं चूर्णं हिध्माश्वासहरं परम्‌॥४६॥

तुल्यं गुडं नागरं च भक्षयेन्नावयेत वा।

लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा॥४७॥

चन्दनाद्वा रसं दद्यान्नारीक्षीरेण नावनम्‌।

स्तन्येन मक्षिकाविष्ठामलक्तकरसेन वा॥४८॥

ससैन्धवं घृताच्छं वा, सिद्धं स्तन्येन वा घृतम्‌।

कल्कितैर्मधुरद्रव्यैस्तत्पिबेन्नावयेत वा॥४९॥

सकृदुष्णं सकृच्छीतं व्यत्यासात्‌ ससितामधु।

तद्वत्पयस्तथा सिद्धमधोभागौषधैर्घृतम्‌॥५०॥

कणासौवर्चलक्षारवयस्थाहिङ्गुचोरकैः।

सकायस्थैर्घृतं मस्तुदशमूलरसे पचेत्‌॥५१॥

तत्पिबेज्जीवनीयैर्वा लिह्यात्समधु साधितम्‌।

तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी॥५२॥

भूतीकं पौष्करं मूलं पलाशश्चित्रकः शठी।

पटुद्वयं तामलकी जीवन्ती बिल्वपेशिका॥५३॥

वचा पत्रं च तालीसं कर्षांशैस्तैर्विपाचयेत्‌।

हिङ्गुपादैर्घृतप्रस्थं पीतमाशु निहन्ति तत्‌॥५४॥

शाखानिलार्शोग्रहणीहिध्माहृत्पार्श्ववेदनाः।

अर्धांशेन पिबेत्सर्पिः क्षारेण पटुनाऽथवा॥५५॥

धान्वन्तरं वृषघृतं दाधिकं हपुषादि वा।

शीताम्बुसेकः सहसा त्रासविक्षेपभीशुचः॥५६॥

हर्षेर्ष्योच्छ्वासरोधाश्च हितं कीटैश्च दंशनम्‌।

यत्किञ्चित्कफवातघ्नमुष्णं वातानुलोमनम्‌॥५७॥

तत्सेव्यं प्रायशो यच्च सुतरां मारुतापहम्‌।

सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत्‌॥५८॥

नात्यर्थं शमनेऽपायो भृशोऽशक्यश्च कर्षणे।

शमनैर्बृंहणेश्चातो भूयिष्ठं तानुपाचरेत्‌॥५९॥

कासश्वासक्षयच्छर्दिहिध्माश्चान्योन्यभेषजैः॥५९.१.२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थाने श्वासहिध्मा-

चिकित्सितं नाम चतुर्थोऽध्यायः॥४॥

Last updated on August 18th, 2021 at 12:06 pm

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English