Skip to content

02.Panchkarmeeya Siddhi – Siddhi – C

चरकसंहिता

सिद्धिस्थानम्‌ ।

द्वितीयोऽध्याय: ।

       अथात: पञ्चकर्मीयां सिद्धिं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       येषां यस्मात्‌ पञ्चकर्माण्यग्निवेश न कारयेत्‌ ।

       येषां च कारयेत्तानि तत्‌ सर्वं संप्रवक्ष्यते ॥३॥

       चण्ड: साहसिको भीरु: कृतघ्नो व्यग्र एव च ।

       सद्राजभिषजां द्वेष्टा तद्द्विष्ट: शोकपीडित: ॥४॥

       यादृच्छिको मुमूर्षुश्च विहीन: करणैश्च य: ।

       वैरी वैद्यविदग्धश्च श्रद्धाहीन: सुशङ्कित: ॥५॥

       भिषजामविधेयश्च नोपक्रम्या भिषग्विदा ।

       एतानुपचरन्‌ वैद्यो बहून्‌ दोषानवान्पुयात्‌ ॥६॥

       एभ्योऽन्ये  समुपक्रम्या नरा: सर्वैरुपक्रमै: ।

       अवस्थां प्रविभज्यैषां वर्ज्यं कार्यं च वक्ष्यते ॥७॥

अवम्यास्तावत्‌-क्षतक्षीणातिस्थूलातिकृशबालवृद्धदुर्बलश्रान्तपिपासितक्षुधितकर्मभाराध्वहतोपवासमैथुनाध्ययनव्यायामचिन्ताप्रसक्तक्षामगर्भिणीसुकुमारसंवृतकोष्ठदुश्छर्दनोर्ध्वरक्तपित्तप्रसक्तच्छर्दिरूर्ध्ववातास्थापितानुवासितहृद्रोगोदावर्तमूत्राघातप्लीहगुल्मोदराष्ठीलास्वरोपघाततिमिरशिर:शङ्खकर्णाक्षिशूलार्ता: ॥८॥

तत्र क्षतस्य भूय: क्षणनाद्रक्तातिप्रवृत्ति:
स्यात्‌,  क्षीणातिस्थूलकृशबालवृद्धदुर्बलानामौषधबलासहत्वात्‌ प्राणोपरोध:, श्रान्तपिपासितक्षुधितानां च तद्वत्‌, कर्मभाराध्वहतोपवासमैथुनाध्ययनव्यायामचिन्ताप्रसक्तक्षामाणां रौक्ष्याद्वातरक्तच्छेदक्षतभयं स्यात्‌, गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्च दारुणा रोगप्राप्ति:,

सुकुमारस्य हृदयापकर्षणादूर्ध्वमधो वा रुधिरातिप्रवृत्ति:,
संवृतकोष्ठदुश्छर्दनयोरतिमात्रप्रवाहणाद्दोषा: समुत्क्लिष्टा अन्त:कोष्ठे जनयन्त्यन्तर्विसर्पं स्तम्भं जाड्यं वैचित्त्यं मरणं वा, ऊर्ध्वगरक्तपित्तिन उदानमुत्क्षिप्य प्राणान्‌ हरेद्रक्तं चातिप्रवर्तयेत्‌, प्रसक्तच्छर्देस्तद्वत्‌, ऊर्ध्ववातास्थापितानुवासितानामूर्ध्वं वातातिप्रवृत्ति:, हृद्रोगिणो हृदयोपरोध:, उदावर्तिनो घोरतर उदावर्त: स्याच्छीघ्रतरहन्ता, मूत्राघातादिभिरार्तानां तीव्रतरशूलप्रादुर्भाव:, तिमिरार्तानां तिमिरातिवृद्धि:, शिर:शूलादिषु शूलातिवृद्धि:, तस्मादेते न वम्या:। सर्वेष्वपि तु खल्वेतेषु विषगरविरुद्धाजीर्णाभ्यवहारामकृतेष्वप्रतिषिद्धं शीघ्रतरकारित्वादेषामिति ॥९॥

शेषास्तु वम्या:, विशेषतस्तु पीनसकुष्ठनवज्वरराजयक्ष्मकासश्वासगलग्रहगलगण्डश्लीपदमेहमन्दाग्निविरुद्धाजीर्णान्न- विसूचिकालसकविषगरपीतदष्टदिग्धविद्धाध:शोणितपित्तप्रसेक(दुर्नाम)हृल्लासारोचकाविपाकापच्यपस्मारोन्मादातिसारशोफपाण्डुरोगमुखपाकदुष्टस्तन्यादय:श्र्लेष्मव्याधयो विशेषेण महारोगाध्यायोक्ताश्च;एतेषु हि वमनं प्रधानतममित्युक्तं केदारसेतुभेदे शाल्याद्यशोषदोषविनाशवत्‌ ॥१०॥

अविरेच्यास्तु सुभगक्षतगुदमुक्तनालाधोभागरक्तपित्तिविलङ्घितदुर्बलेन्द्रियाल्पाग्निनिरूढकामादिव्यग्राजीर्णिनवज्वरि- मदात्ययिताध्मातशल्यार्दिताभिहतातिस्निग्धरूक्षदारुणकोष्ठा: क्षतादयश्च गर्भिण्यन्ता: ॥११॥

तत्र सुभगस्य सुकुमारोक्तो दोष: स्यात्‌, क्षतगुदस्य क्षते गुदे प्राणोपरोधकरीं रुजां जनयेत्‌, मुक्तनालमतिप्रवृत्त्या हन्यात्‌, अधोभागरक्तपित्तिनं तद्वत्‌, विलङ्घितदुर्बलेन्द्रियाल्पाग्निनिरूढा औषधवेगं न सहेरन्‌, कामादिव्यग्रमनसो न प्रवर्तते कृच्छ्रेण वा प्रवर्तमानमयोगदोषान्‌ कुर्यात्‌, अजीर्णिन आमदोष: स्यात्‌, नवज्वरिणोऽविपक्वान्‌ दोषान्‌ न निर्हरेद्‌ वातमेव च कोपयेत्‌, मदात्ययितस्य मद्यक्षीणे देहे वायु: प्राणोपरोधं कुर्यात्‌, आध्मातस्याधमतो वा पुरीषकोष्ठे  निचितो वायुर्विसर्पन्‌ सहसाऽऽनाहं तीव्रतरं मरणं वा जनयेत्‌, शल्यार्दिताभिहतयो: क्षते वायुराश्रितो जीवितं हिंस्यात्‌, अतिस्निग्धस्यातियोगभयं भवेत्‌, रूक्षस्य वायुरङ्गप्रग्रहं कुर्यात्‌, दारुणकोष्ठस्य विरेचनोद्धता दोषा हृच्छूलपर्वभेदानाहाङ्गमर्दच्छर्दिमूर्च्छाक्लमाञ्जनयित्वा प्राणान्‌ हन्यु:, क्षतादीनां गर्भिण्यन्तानां छर्दनोक्तो दोष: स्यात्‌; तस्मादेते न विरेच्या: ॥१२॥

शेषास्तु विरेच्या:; विशेषतस्तु कुष्ठज्वरमेहोर्ध्वरक्तपित्तभगन्दरोदरार्शोब्रध्नप्लीहगुल्मार्बुदगलगण्डग्रन्थिविसूचिकालसक- मूत्राघातक्रिमिकोष्ठविसर्पपाण्डुरोगशिर:पार्श्वशूलोदावर्तनेत्रास्यदाहहृद्रोगव्यङ्गनीलिकानेत्रनासिकास्यस्रवणहलीमकश्वासकासकामलापच्यपस्मारोन्मादवातरक्तयोनिरेतोदोषतैमिर्यारोचकाविकपाकच्छर्दिश्वयथूदरविस्फोटकादय: पित्तव्याधयो विशेषेण महारोगाध्यायोक्ताश्च; एतेषु हि विरेचनं प्रधानतममित्युक्तमग्नन्युपशमेऽग्निगृहवत्‌ ॥१३॥

अनास्थाप्यास्तु-अजीर्ण्यतिस्निग्धपीतस्नेहोत्क्लिष्टदोषाल्पाग्नियानक्लान्तातिदुर्बलक्षुत्तृष्णाश्रमार्तातिकृशभुक्तभक्तपीतोदकवमितविरिक्तकृतनस्त:कर्मकुद्धभीतमत्तमूर्च्छितप्रसक्तच्छर्दिनिष्ठीविकाश्वासकासहिक्काबद्धच्छिद्रोदकोदराध्मानालसकविसूचिकामप्रजातामातिसारमधुमेहकुष्ठार्ता: ॥१४॥

तत्राजीर्ण्यतिस्निग्धपीतस्नेहानां दूष्योदरं मूर्च्छाश्वयथुर्वा स्यात्‌, उत्क्लिष्टदोषमन्दाग्नन्योररोचकस्तीव्र:, यानक्लान्तस्य क्षोभव्यापन्नो बस्तिराशु देहं शोषयेत्‌, अतिदुर्बलक्षुत्तृष्णाश्रमार्तानां पूर्वोक्तो दोष: स्यात्‌, अतिकृशस्य कार्श्यं पुनर्जनयेत्‌, भुक्तभक्तपीतोदकयोरुत्क्लिश्योर्ध्वमधो वा वायुर्बस्तिमुत्क्षिप्य क्षिप्रं घोरान्‌ विकाराञ्जनयेत्‌, वमितविरिक्तयोस्तु रूक्षं शरीरं निरूह: क्षतं क्षार इव दहेत्‌, कृतनस्त:कर्मणो विभ्रंशं भृशसंरुद्धस्रोतस: कुर्यात्‌, क्रुद्धभीतयोर्बस्तिरूर्ध्वमुपप्लवेत्‌, मत्तमूर्च्छितयोर्भृशं विचलितायां संज्ञायां चित्तोपघाताद्‌ व्यापत्‌ स्यात्‌, प्रसक्तच्छर्दिर्निष्ठीविकाश्वासकासहिक्कार्तानामूर्ध्वीभूतो वायुरूर्ध्वं बस्तिं नयेत्‌, बद्धच्छिद्रो-दकोदराध्मानार्तानां भृशतरमाध्माप्य बस्ति: प्राणान्‌ हिंस्यात्‌, अलसकविसूचिकामप्रजातामातिसारिणामामकृतो दोष: स्यात्‌, मधुमेहकुष्ठिनोर्व्याधे: पुनर्वृद्धि:; तस्मादेते नास्थाप्या: ॥१५॥

शेषास्त्वास्थाप्या:, विशेषतस्तु सर्वाङ्गैकाङ्गकुक्षिरोगवातवर्चोमूत्रशुक्रसङ्गबलवर्णमांसरेत:क्षयदोषाध्मानाङ्गसुप्ति- क्रिमिकोष्ठोदावर्तशुद्धातिसारपर्वभेदाभितापप्लीहगुल्मशूलहृद्रोगभगन्दरोन्मादज्वरब्रध्नशिर:कर्णशूलहृदयपार्श्वपृष्ठकटीग्रहवेपनाक्षेपकगौरवातिलाघवरज:क्षयार्तविषमाग्निस्फिग्जानुजङ्घोरुगुल्फपार्ष्णिप्रपदयोनिबाह्वङ्गुलिस्तनान्तदन्तनखपर्वास्थिशूलशोषस्तम्भान्त्रकूज परिकर्तिकाल्पाल्पसशब्दोग्रगन्धोत्थानादयो वातव्याधयो विशेषेण महारोगाध्यायोक्ताश्च; एतेष्वास्थापनं प्रधानतममित्युक्तं वनस्पतिमूलच्छेदवत्‌ ॥१६॥

य एवानास्थाप्यास्त एवाननुवास्या: स्यु:; विशेषतस्त्वभुक्तभक्तनवज्वरपाण्डुरोगकामलाप्रमेहार्श:प्रतिश्यायारोचक- मन्दाग्निदुर्बप्लीहकफोदरोरुस्तम्भवर्चोभेदविषगरपीतपित्तकफाभिष्यन्दगुरुकोष्ठश्लीपदगलगण्डापचिक्रिमिकोष्ठिन: ॥१७॥

तत्राभुक्तभक्तस्यानावृतमार्गत्वादूर्ध्वमतिवर्ततेस्नेह:,
नवज्वरपाण्डुरोगकामलाप्रमेहिणां दोषानुत्क्लिश्योदरं जनयेत्‌, अर्शसस्यार्शांस्यभिष्यन्द्याध्मानं कुर्यात्‌, अरोचकार्तस्यान्नगृद्धिं पुनर्हन्यात्‌, मन्दाग्निदुर्बलयोर्मन्दतरमग्निं कुर्यात्‌, प्रतिश्यायप्लीहादिमतां भृशमुत्क्लिष्टदोषाणां भूय एव दोषं वर्धयेत्‌, तस्मादेते नानुवास्या: ॥१८॥

य एवास्थाप्यास्त एवानुवास्या:; विशेषतस्तु रूक्षतीक्ष्णाग्नय: केवलवातरोगार्ताश्च, एतेषु ह्यनुवासनं प्रधानतममित्युक्तं मूले द्रुमप्रसेकवत्‌ ॥१९॥

अशिरोविरेचनार्हास्तु अजीर्णिभुक्तभक्तपीतस्नेहमद्यतोयपातुकामा:
स्नातशिरा: स्नातुकाम: क्षुत्तृष्णाश्रमार्तमत्तमूर्च्छितशस्त्र- दण्डहतव्यवायव्यायामपानक्लान्तनवज्वरशोकाभितप्तविरिक्तानुवासितगर्भिणीनवप्रतिश्यायार्ता:, अनृतौ दुर्दिने चेति ॥२०॥

तत्राजीर्णिभुक्तभक्तयोर्दोष ऊर्ध्ववहानि स्रोतांस्यावृत्य कासश्वासच्छर्दिप्रतिश्यायाञ्जनयेत्‌ , पीतस्नेहमद्यतोयपातुकामानां कृते च पिबतां मुखनासास्रावाक्ष्युपदेहतिमिरशिरोरोगाञ्जनयेत्‌, स्नातशिरस: कृते च स्नानाच्छिरस: प्रतिश्यायं, क्षुधार्तस्य वातप्रकोपं, तृष्णार्तस्य पुनस्तृष्णाभिवृद्धिं मुखशोषं च, श्रमार्तमत्तमूर्च्छितानामास्थापनोक्तं दोषं जनयेत्‌, शस्त्रदण्डहतयोस्तीव्रतरां रुजं जनयेत्‌, व्यवायव्यायामपानक्लान्तानां शिर:स्कन्धनेत्रोर:पीडनं, नवज्वरशोकाभितप्तयोरूष्मा नेत्रनाडीरनुसृत्य तिमिरं ज्वरवृद्धिं च कुर्यात्‌, विरिक्तस्य वायुरिन्द्रियोपघातं कुर्यात्‌, अनुवासितस्य कफ: शिरोगुरुत्वकण्डूक्रिमिदोषाञ्जनयेत्‌, गर्भिण्या गर्भं स्तम्भयेत्‌ स काण: कुणि: पक्षहत: पीठसर्पी वा जायते, नवप्रतिश्यायार्तस्य स्रोतांसि व्यापादयेत्‌, अनृतौ दुर्दिने च शीतदोषान्‌ पूतिनस्यं शिरोरोगं च जनयेत्‌, तस्मादेते न शिरोविरेचनार्हा: ॥२१॥

शेषास्त्वर्हा:, विशेषतस्तु शिरोदन्तमन्यास्तम्भगलहनुग्रहपीनसगलशुण्डिकाशालूकशुक्रतिमिरवर्त्मरोगव्यङ्गोपजिह्विकार्धावभेदकग्रीवास्कन्धांसास्यनासिका-कर्णाक्षिमूर्धकपालशिरोरोगार्दितापतन्त्रकापतानकगलगण्डदन्तशूलहर्ष चालाक्षिराज्यर्बुदस्वरभेदवाग्ग्रहगद्गदक्रथनादय ऊर्ध्वजत्रुगताश्चवातादिविकारा: परिपक्वाश्च, एतेषु शिरोविरेचनं प्रधानतममित्युक्तं, तद्ध्युत्तमाङ्गमनुप्रविश्य मुञ्जादीषिकामिवासक्तां केवलं विकारकरं दोषमपकर्षति ॥२२॥

प्रावृट्‌शरद्वसन्तेतरेष्वात्ययिकेषु रोगेषु नावनं कुर्यात्‌ कृत्रिमगुणोपधानात्‌; ग्रीष्मे पूर्वाह्णे, शीते मध्याह्ने, वर्षास्वदुर्दिने चेति ॥२३॥

       तत्र श्लोका:–

       इति पञ्चविधं कर्म विस्तरेण निदर्शितम्‌ ।

       येभ्यो यन्न हितं यस्मात्‌ कर्म येभ्यश्च यद्धितम्‌ ॥२४॥

       न चैकान्तेन निर्दिष्टेऽप्यर्थेऽभिनिविशेद्बुध: ।

       स्वयमप्यत्र वैद्येन तर्क्यं बुद्धिमता भवेत्‌ ॥२५॥

       उत्पद्येत हि साऽवस्था देशकालबलं प्रति ।

       यस्यां कार्यमकार्यं स्यात्‌ कर्म कार्यं च वर्जितम्‌ ॥२६॥

       छर्दिर्हृद्रोगगुल्मानां वमनं स्वे चिकित्सिते ।

       अवस्थां प्राप्य निर्दिष्टं कुष्ठिनां बस्तिकर्म च ॥२७॥

       तस्मात्‌ सत्यपि निर्देशे कुर्यादूह्य स्वयं धिया ।

       विना तर्केण या सिद्धिर्यदृच्छासिद्धिरेव सा ॥२८॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते

      सिद्धिस्थाने पञ्चकर्मीयसिद्धिर्नाम द्वितीयोऽध्याय: ॥२॥

Last updated on July 5th, 2021 at 06:27 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English