सुश्रुतसंहिता ।
अथ कल्पस्थानम् ।
द्वितीयोऽध्यायः।
अथातः स्थावरविषविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
स्थावरं जङ्गमं चैव द्विविधं विषमुच्यते |
दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम् ||३||
मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च |
निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ||४||
तत्र, क्लीतकाश्वमारगुञ्जासुगन्धगर्गरककरघाटविद्युच्छिखाविजयानीत्यष्टौ मूलविषाणि; विषपत्रिकालम्बावरदारुकरम्भमहाकरम्भाणि पञ्च पत्रविषाणि; कुमुद्वतीवेणुकाकरम्भमहाकरम्भकर्कोटकरेणुकखद्योतकचर्मरीभगन्धासर्पघातिनन्दनसारपाकानीति द्वादश फलविषाणि; वेत्रकादम्बवल्लीजकरम्भमहाकरम्भाणि पञ्च पुष्पविषाणि; अन्त्रपाचककर्तरीयसौरीयककरघाटकरम्भनन्दननाराचकानि सप्त त्वक्सारनिर्यासविषाणि; कुमुदघ्नीस्नुहीजालक्षीरीणि त्रीणि क्षीरविषाणि; फेनाश्म(भस्म) हरितालं च द्वे धातुविषे; कालकूटवत्सनाभसर्षपपालककर्दमकवैराटकमुस्तकशृङ्गीविषप्रपुण्डरीकमूलकहालाहलमहाविषकर्कटकानीति त्रयोदश कन्दविषाणि; इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति ||५||
चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्तिते |
षट् चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु ||६||
उद्वेष्टनं मूलविषैः प्रलापो मोह एव च |
जृम्भाङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु ||७||
मुष्कशोफः फलविषैर्दाहोऽन्नद्वेष एव च |
भवेत् पुष्पविषैश्छर्दिराध्मानं मोह एव च ||८||
त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि |
आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः ||९||
फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता |
हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि ||१०||
प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् |
कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम् ||११||
स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च |
ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता ||१२||
सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च |
ग्रीवादौर्बल्यवाक्सङ्गौ पालकेऽनुमताविह ||१३||
प्रसेकः कर्दमाख्येन विड्भेदो नेत्रपीतता |
वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते ||१४||
गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु |
शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः ||१५||
पुण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे |
वैवर्ण्यं मूलकैश्छर्दिर्हिक्काशोफप्रमूढताः ||१६||
चिरेणोच्छ्वसिति श्यावो नरो हालाहलेन वै |
महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् ||१७||
कर्कटेनोत्पतत्यूर्ध्वं हसन् दन्तान् दशत्यपि |
कन्दजान्युग्रवीर्याणि प्रत्युक्तानि त्रयोदश ||१८||
सर्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर्गुणैः |
रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च ||१९||
विकाशि विशदं चैव लघ्वपाकि च तत् स्मृतम् |
तद्रौक्ष्यात् कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम् ||२०||
मतिं च मोहयेत्तैक्ष्ण्यान्मर्मबन्धान् छिनत्ति च |
शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च ||२१||
आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत् |
क्षपयेच्च विकाशित्वाद्दोषान्धातून्मलानपि ||२२||
वैशद्यादतिरिच्येत दुश्चिकित्स्यं च लाघवात् |
दुर्हरं चाविपाकित्वात्तस्मात् क्लेशयते चिरम् ||२३||
स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् |
सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम् ||२४||
यत् स्थावरं जङ्गमकृत्रिमं वा
देहादशेषं यदनिर्गतं तत् |
जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा ||२५||
स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति |
वीर्याल्पभावान्न निपातयेत्तत् कफावृतं वर्षगणानुबन्धि ||२६||
तेनार्दितो भिन्नपुरीषवर्णो विगन्धवैरस्यमुखः पिपासी |
मूर्च्छन् वमन् गद्गदवाग्विषण्णो भवेच्च दुष्योदरलिङ्गजुष्टः ||२७||
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी |
भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः ||२८||
स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान् |
कोपं च शीतानिलदुर्दिनेषु यात्याशु, पूर्वं शृणु तत्र रूपम् ||२९||
निद्रा गुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवाऽङ्गमर्दः |
ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमोहान् ||३०||
धातुक्षयं पादकरास्यशोफं दकोदरं छर्दिमथातिसारम् |
वैवर्ण्यमूर्च्छाविषमज्वरान् वा कुर्यात् प्रवृद्धां प्रबलां तृषां वा ||३१||
उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत् क्षपयेच्च शुक्रम् |
गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकाराश्चं बहुप्रकारान् ||३२||
दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः |
यस्माद्दूषयते धातून् तस्माद्दूषीविषं स्मृतम् ||३३||
स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम् |
श्यावा जिह्वा भवेत्स्तब्धा मूर्च्छा श्वासश्च जायते ||३४||
द्वितीये वेपथुः सादो दाहः कण्ठरुजस्तथा |
विषमामाशयप्राप्तं कुरुते हृदि वेदनाम् ||३५||
तालुशोषं तृतीये तु शूलं चामाशये भृशम् |
दुर्वर्णे हरिते शूने जायेते चास्य लोचने ||३६||
पक्वामाशययोस्तोदो हिक्का कासोऽन्त्रकूजनम् |
चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ||३७||
कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे |
सर्वदोषप्रकोपश्च पक्वाधाने च वेदना ||३८||
षष्ठे प्रज्ञाप्रणाशश्च भृशं चाप्यतिसार्यते |
स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे ||३९||
प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम् |
अगदं मधुसर्पिर्भ्यां पाययेत समायुतम् ||४०||
द्वितीये पूर्ववद्वान्तं पाययेत्तु विरेचनम् |
तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम् ||४१||
चतुर्थे स्नेहसम्मिश्रं पाययेतागदं भिषक् |
पञ्चमे क्षौद्रमधुकक्वाथयुक्तं प्रदापयेत् ||४२||
षष्ठेऽतीसारवत् सिद्धिरवपीडश्च सप्तमे |
मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत् ||४३||
वेगान्तरे त्वन्यतमे कृते कर्मणि शीतलाम् |
यवागूं सघृतक्षौद्रामिमां दद्याद्विषापहाम् ||४४||
कोषातक्योऽग्निकः पाठासूर्यवल्ल्यमृताभयाः |
शिरीषः किणिही शेलुर्गिर्याह्वा रजनीद्वयम् ||४५||
पुनर्नवे हरेणुश्च त्रिकटुः सारिवे बला |
एषां यवागूर्निष्क्वाथे कृता हन्ति विषद्वयम् ||४६||
मधुकं तगरं कुष्ठं भद्रदारु हरेणवः |
पुन्नागैलैलवालूनि नागपुष्पोत्पलं सिता ||४७||
विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं तथा |
हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरा सहा ||४८||
कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम् |
विषाणि हन्ति सर्वाणि शीघ्रमेवाजितं क्वचित् ||४९||
दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम् |
पाययेतागदं नित्यमिमं दूषीविषापहम् ||५०||
पिप्पल्यो ध्यामकं मांसी शावरः परिपेलवम् |
सुवर्चिका ससूक्ष्मैला तोयं कनकगैरिकम् ||५१||
क्षौद्रयुक्तोऽगदो ह्येष दूषीविषमपोहति |
नाम्ना दूषीविषारिस्तु न चान्यत्रापि वार्यते ||५२||
ज्वरे दाहे च हिक्कायामानाहे शुक्रसङ्क्षये |
शोफेऽतिसारे मूर्च्छायां हृद्रोगे जठरेऽपि च ||५३||
उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः |
यथास्वं तेषु कुर्वीत विषघ्नैरौषधैः क्रियाम् ||५४||
साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम् |
दूषीविषमसाध्यं तु क्षीणस्याहितसेविनः ||५५||
इति सुश्रुतसंहितायां कल्पस्थाने स्थावरविषविज्ञानीयो नाम द्वितीयोऽध्यायः ||२||
Last updated on July 8th, 2021 at 10:50 am