Skip to content

09. Mootraaghaata Nidaana – Nidaana – AH”

अष्टाङ्गहृदयस्य (निदानस्थानम्‌) मूत्राघातनिदानं

नवमोऽध्यायः।

अथातो मूत्राघातनिदानं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

बस्तिबस्तिशिरोमेढ्रकटीवृषणपायवः।

एकसम्बन्धनाः प्रोक्ता गुदास्थिविवराश्रयाः॥१॥

अधोमुखोऽपि बस्तिर्हि मूत्रवाहिसिरामुखैः।

पार्श्वेभ्यः पूर्यते सूक्ष्मैः स्यन्दमानैरनारतम्‌॥२॥

यैस्तैरेव प्रविश्यैनं दोषाः कुर्वन्ति विंशतिम्‌।

मूत्राघातान्‌ प्रमेहांश्च कृच्छ्रान्मर्मसमाश्रयान्‌॥३॥

बस्तिवङ्‌क्षणमेढ्रार्तियुक्तोऽल्पाल्पं मुहुर्मुहुः।

मूत्रयेद्वातजे कृच्छ्रे पैत्ते पीतं सदाहरुक्‌॥४॥

रक्तं वा कफजे बस्तिमेढ्रगौरवशोफवान्‌।

सपिच्छं सविबन्धं च सर्वैः सर्वात्मकं मलैः॥५॥

यदा वायुर्मुखं बस्तेरावृत्य परिशोषयेत्‌।

मूत्रं सपित्तं सकफं सशुक्रं वा तदा क्रमात्‌॥६॥

सञ्जायतेऽश्मरी घोरा पित्ताद्गाेरिव रोचना।

श्लेष्माश्रया च सर्वा स्यात्‌ अथास्याः पूर्वलक्षणम्‌॥७॥

बस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक्‌।

मूत्रे च बस्तगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः॥८॥

सामान्यलिङ्गं रुङ्‌नाभिसेवनीबस्तिमूर्धसु।

विशीर्णधारं मूत्रं स्यात्तया मार्गनिरोधने॥९॥

तद्व्यपायात्सुखं मेहेदच्छं गोमेदकोपमम्‌।

तत्सङ्‌क्षोभात्क्षते सास्रमायासाच्चातिरुग्भवेत्‌॥१०॥

तत्र वाताद्भृशार्त्यार्तो दन्तान्‌ खादति वेपते।

मृद्नाति मेहनं नाभिं पीडयत्यनिशं क्वणन्‌॥११॥

सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः।

श्यावा रूक्षाऽश्मरी चास्य स्याच्चिता कण्टकैरिव॥१२॥

पित्तेन दह्यते बस्तिः पच्यमान इवोष्मवान्‌।

भल्लातकास्थिसंस्थाना रक्ता पीताऽसिताऽश्मरी॥१३॥

बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः।

अश्मरी महती श्लक्ष्णा मधुवर्णाऽथवा सिता॥१४॥

एता भवन्ति बालानां तेषामेव च भूयसा।

आश्रयोपचयाल्पत्वाद्‌ग्रहणाहरणे सुखाः॥१५॥

शुक्राश्मरी तु महतां जायते शुक्रधारणात्‌।

स्थानाच्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः॥१६॥

शोषयत्युपसङ्गृह्य शुक्रं तच्छुष्कमश्मरी।

बस्तिरुक्कृच्छ्रमूत्रत्वमुष्कश्वयथुकारिणी॥१७॥

तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते।

पीडिते त्ववकाशेऽस्मिन्‌ अश्मर्येव च शर्करा॥१८॥

अणुशो वायुना भिन्ना सा त्वस्मिन्ननुलोमगे।

निरेति सह मूत्रेण प्रतिलोमे विबध्यते॥१९॥

मूत्रसन्धारिणः कुर्याद्रुद्‌ध्वा बस्तेर्मुखं मरुत्‌।

मूत्रसङ्गं रुजं कण्डूं कदाचिच्च स्वधामतः॥२०॥

प्रच्याव्य बस्तिमुद्वृत्तं गर्भाभं स्थूलविप्लुतम्‌।

करोति तत्र रुग्दाहस्पन्दनोद्वेष्टनानि च॥२१॥

बिन्दुशश्च प्रवर्तेत मूत्रं बस्तौ तु पीडिते।

धारया द्विविधोऽप्येष वातबस्तिरिति स्मृतः॥२२॥

दुस्तरो दुस्तरतरो द्वितीयः प्रबलानिलः।

शकृन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः॥२३॥

अष्ठीलाभं घनं ग्रन्थिं करोत्यचलमुन्नतम्‌।

वाताष्ठीलेति साऽऽध्मानविण्मूत्रानिलसङ्गकृत्‌॥२४॥

विगुणः कुण्डलीभूतो बस्तौ तीव्रव्यथोऽनिलः।

आविध्य मूत्रं भ्रमति सस्तम्भोद्वेष्टगौरवः॥२५॥

मूत्रमल्पाल्पमथवा विमुञ्चति शकृत्सृजन्‌।

वातकुण्डलिकेत्येषा मूत्रं तु विधृतं चिरम्‌॥२६॥

न निरेति विबद्धं वा मूत्रातीतं तदल्परुक्‌।

विधारणात्प्रतिहतं वातोदावर्तितं यदा॥२७॥

नाभेरधस्तादुदरं मूत्रमापूरयेत्तदा।

कुर्यात्तीव्ररुगाध्मानमपक्तिं मलसङ्‌ग्रहम्‌॥२८॥

तन्मूत्रजठरम्‌ छिद्रवैगुण्येनानिलेन वा।

आक्षिप्तमल्पं मूत्रं तद्बस्तौ नालेऽथवा मणौ॥२९॥

स्थित्वा स्रवेच्छनैः पश्चात्सरुजं वाऽथ नीरुजम्‌।

मूत्रोत्सङ्गः स विच्छिन्नतच्छेषगुरुशेफसः॥३०॥

अन्तर्बस्तिमुखे वृत्तः स्थिरोऽल्पः सहसा भवेत्‌।

अश्मरीतुल्यरुक्‌ ग्रन्थिर्मूत्रग्रन्थिः स उच्यते॥३१॥

मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धतम्‌।

स्थानाच्च्युतं मूत्रयतः प्राक्‌ पश्चाद्वा प्रवर्तते॥३२॥

भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते।

रूक्षदुर्बलयोर्वातादुदावर्तं शकृद्यदा॥३३॥

मूत्रस्रोतोऽनुपर्येति संसृष्टं शकृता तदा।

मूत्रं विट्‌तुल्यगन्धं स्याद्विड्विघातं तमादिशेत्‌॥३४॥

पित्तं व्यायामतीक्ष्णोष्णभोजनाध्वातपादिभिः।

प्रवृद्धं वायुना क्षिप्तं बस्त्युपस्थार्तिदाहवत्‌॥३५॥

मूत्रं प्रवर्तयेत्पीतं सरक्तं रक्तमेव वा।

उष्णं पुनः पुनः कृच्छ्रादुष्णवातं वदन्ति तम्‌॥३६॥

रुक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ।

मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम्‌॥३७॥

पित्तं कफो द्वावपि वा संहन्येतेऽनिलेन चेत्‌।

कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत्‌॥३८॥

सदाहं रोचनाशङ्खचूर्णवर्णं भवेच्च तत्‌।

शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम्‌॥३९॥

इति विस्तरतः प्रोक्ता रोगा मूत्राप्रवृत्तिजाः।

निदानलक्षणैरूर्ध्वं वक्ष्यन्तेऽतिप्रवृत्तिजाः॥४०॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां तृतीये निदानस्थाने मूत्राघातनिदानं नाम नवमोऽध्यायः॥९॥

Last updated on August 16th, 2021 at 07:27 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English