सुश्रुतसंहिता ।
अथ चिकित्सास्थानम् ।
सप्तदशोऽध्यायः ।
अथातो विसर्पनाडीस्तनरोगचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
साध्या विसर्पास्त्रय आदितो ये
न सन्निपातक्षतजौ हि साध्यौ |३|
साध्येषु तत्पथ्यगणैर्विदध्याद्धृतानि सेकांश्च तथोपदेहान् ||३||
मुस्ताशताह्वासुरदारुकुष्ठवाराहिकुस्तुम्बुरुकृष्णगन्धाः |
वातात्मके चोष्णगणाः प्रयोज्याः
सेकेषु लेपेषु तथा शृतेषु [१] ||४||
यत् पञ्चमूलं खलु कण्टकाख्यमल्पं महच्चाप्यथ वल्लिजं च |
तच्चोपयोज्यं भिषजा प्रदेहे
सेके घृते चापि तथैव तैले ||५||
कसेरुशृङ्गाटकपद्मगुन्द्राः सशैवलाः सोत्पलकर्दमाश्च |
वस्त्रान्तराः पित्तकृते विसर्पे लेपा विधेयाः सघृताः सुशीताः ||६||
ह्रीवेरलामज्जकचन्दनानि स्रोतोजमुक्तामणिगैरिकाश्च |
क्षीरेण पिष्टाः सघृताः सुशीता लेपाः प्रयोज्यास्तनवः सुखाय ||७||
प्रपौण्डरीकं मधुकं पयस्या मञ्जिष्ठिका पद्मकचन्दने च |
सुगन्धिका चेति सुखाय लेपः पैत्ते विसर्पे भिषजा प्रयोज्यः ||८||
न्यग्रोधवर्गैः परिषेचनं च घृतं च कुर्यात् स्वरसेन तस्य |
शीतैः पयोभिश्च मधूदकैश्च सशर्करैरिक्षुरसैश्च सेकान् ||९||
घृतस्य गौरीमधुकारविन्दरोध्राम्बुराजादनगैरिकेषु |
तथर्षभे पद्मकसारिवासु
काकोलिमेदाकुमुदोत्पलेषु ||१०||
सचन्दनायां मधुशर्करायां
द्राक्षास्थिरापृश्निशताह्वयासु |
कल्कीकृतासूदकमत्र दत्त्वा
न्यग्रोधवर्गस्य तथा स्थिरादेः ||११||
गणस्य बिल्वादिकपञ्चमूल्याश्चतुर्गुणं क्षीरमथापि तद्वत् |
प्रस्थं विपक्वं परिषेचनेन
पैत्तीर्निहन्यात्तु विसर्पनाडीः ||१२||
विस्फोटदुष्टव्रणशीर्षरोगान्
पाकं तथाऽऽस्यस्य निहन्ति पानात् |
ग्रहार्दिते शोषिणि चापि बाले
घृतं हि गौर्यादिकमेतदिष्टम् ||१३||
अजाऽश्ववगन्धा सरला सकाला
सैकैषिका चाप्यथवाऽजशृङ्गी |
गोमूत्रपिष्टो विहितः प्रदेहो
हन्याद्विसर्पं कफजं स शीघ्रम् ||१४||
कालानुसार्यागुरुचोचगुञ्जारास्नावचाशीतशिवेन्द्रपर्ण्यः |
पालिन्दिमुञ्जातमहीकदम्बा
हिता विसर्पेषु कफात्मकेषु ||१५||
गणस्तु योज्यो वरुणप्रवृत्तः
क्रियासु सर्वासु विचक्षणेन |
संशोधनं शोणितमोक्षणं च
श्रेष्ठं विसर्पेषु चिकित्सितं हि ||१६||
सर्वांश्च पक्वान् परिशोध्य धीमान्
व्रणक्रमेणोपचरेद्यथोक्तम् |
नाडी त्रिदोषप्रभवा न सिध्येच्छेषाश्चतस्नः खलु यत्नसाध्याः ||१७||
तत्रानिलोत्थामुपनाह्य पूर्वमशेषतः पूयगतिं विदार्य |
तिलैरपामार्गफलैश्च पिष्ट्वा
ससैन्धवैर्बन्धनमत्र कुर्यात् ||१८||
प्रक्षालने चापि सदा व्रणस्य
योज्यं महद्यत् खलु पञ्चमूलम् |
हिंस्रां हरिद्रां कटुकां बलां च
गोजिह्विकां चापि सबिल्वमूलाम् ||१९||
संहृत्य तैलं विपचेद्व्रणस्य
संशोधनं पूरणरोपणं च |
पित्तात्मिकां प्रागुपनाह्य धीमानुत्कारिकाभिः सपयोघृताभिः ||२०||
निपात्य शस्त्रं तिलनागदन्तीयष्ट्याह्वकल्कैः परिपूरयेत्ताम् |
प्रक्षालने चापि ससोमनिम्बा
निशा प्रयोज्या कुशलेन नित्यम् ||२१||
श्यामात्रिभण्डीत्रिफलासु सिद्धं
हरिद्रयो रोध्रकवृक्षयोश्च |
घृतं सदुग्धं व्रणतर्पणेन
हन्याद्गतिं कोष्ठगताऽपि या स्यात् ||२२||
नाडीं कफोत्थामुपनाह्य सम्यक् कुलत्थसिद्धार्थकशक्तुकिण्वैः |
मृदूकृतामेष्य गतिं विदित्वा निपातयेच्छस्त्रमशेषकारी ||२३||
दद्याद्व्रणे निम्बतिलान् सदन्तीन् सुराष्ट्रजासैन्धवसम्प्रयुक्तान् |
प्रक्षालने चापि करञ्जनिम्ब जात्यक्षपीलुस्वरसाः प्रयोज्याः ||२४||
सुवर्चिकासैन्धवचित्रकेषु निकुम्भतालीतलरूपिकासु |
फलेष्वपामार्गभवेषु चैव कुर्यात् समूत्रेषु हिताय तैलम् ||२५||
नाडीं तु शल्यप्रभवां विदार्य
निर्हृत्य शल्यं प्रविशोध्य मार्गम् |
संशोधयेत् क्षौद्रघृतप्रगाढैस्तिलैस्ततो रोपणमाशु कुर्यात् ||२६||
कुम्भीकखर्जूरकपित्थबिल्ववनस्पतीनां च शलाटुवर्गैः |
कृत्वा कषायं विपचेत्तु तैलमावाप्य मुस्तासरलाप्रियङ्गूः ||२७||
सुगन्धिकामोचरसाहिपुष्पं
रोध्रं विदध्यादपि धातकीं च |
एतेन शल्यप्रभवा तु नाडी
रोहेद्व्रणो वा सुखमाशु चैव ||२८||
कृशदुर्बलभीरूणां नाडी मर्माश्रिता च या |
क्षारसूत्रेण तां च्छिन्द्यान्न तु शस्त्रेण बुद्धिमान् ||२९||
एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम् |
सूचीं निदध्याद्गत्यन्ते तथोन्नम्याशु निर्हरेत् ||३०||
सूत्रस्यान्तं समानीय गाढं बन्धं समाचरेत् |
ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत् ||३१||
क्षाराक्तं मतिमान् वैद्यो यावन्न छिद्यते गतिः |
भगन्दरेऽप्येष विधिः कार्यो वैद्येन जानता ||३२||
अर्बुदादिषु चोत्क्षिप्य मूले सूत्रं निधापयेत् |
सूचीभिर्यववक्राभिराचितान् वा समन्ततः |
मूले सूत्रेण बध्नीयाच्छिन्ने चोपचरेद्व्रणम् ||३३||
या द्विव्रणीयेऽभिहितास्तु वर्त्यस्ताः सर्वनाडीषु भिषग्विदध्यात् |
घोण्टाफलत्वग्लवणानि लाक्षापूगीफलं चालवणं च पत्रम् ||३४||
स्नुह्यर्कदुग्धेन तु कल्क एष
वर्तीकृतो हन्त्यचिरेण नाडीः |
बिभीतकाम्रास्थिवटप्रवाला
हरेणुकाशङ्खिनिबीजमस्यः ||३५||
वाराहिकन्दश्च तथा प्रदेयो
नाडीषु तैलेन च मिश्रयित्वा ||३६||
धत्तूरजं मदनकोद्रवजं च बीजं
कोशातकी शुकनसा मृगभोजिनी च |
अङ्कोटबीजकुसुमं गतिषु प्रयोज्यं
लाक्षोदकाहृतमलासु विकृत्य चूर्णम् ||३७||
तथा च गोमांसमसीं हिताय
कोष्ठाश्रितस्यादरतो दिशन्ति |
वर्तीकृतं माक्षिकसम्प्रयुक्तं
नाडीघ्नमुक्तं लवणोत्तमं वा ||३८||
दुष्टव्रणे यद्विहितं च तैलं
तत् सर्वनाडीषु भिषग्विदध्यात् |
चूर्णीकृतैरथ विमिश्रितमेभिरेव
तैलं प्रयुक्तमचिरेण गतिं निहन्ति ||३९||
एष्वेव मूत्रसहितेषु विधाय तैलं
तत् साधितं गतिमपोहति सप्तरात्रात् |
पिण्डीतकस्य तु वराहविभावितस्य
मूलेषु कन्दशकलेषु च सौवहेषु ||४०||
तैलं कृतं गतिमपोहति शीघ्रमेतत्
कन्देषु चामरवरायुधसाह्वयेषु |
भल्लातकार्कमरिचैर्लवणोत्तमेन
सिद्धं विडङ्गरजनीद्वयचित्रकैश्च ||४१||
स्यान्मार्कवस्य च रसेन निहन्ति तैलं
नाडीं कफानिलकृतामपचीं व्रणांश्च |
स्तन्ये गते विकृतिमाशु भिषक् तु धात्रीं
पीतां घृतं परिणतेऽहनि वामयेत्तु ||४२||
निम्बोदकेन मधुमागधिकायुतेन
वान्तागतेऽहनि च मुद्गरसाशना स्यात् |
एवं त्र्यहं चतुरहं षडहं वमेद्वा
सर्पिः पिबेत्त्रिफलया सह संयुतं वा ||४३||
भार्गीं वचामतिविषां सुरदारु पाठां
मुस्तादिकं मधुरसां कटुरोहिणीं च |
धात्री पिबेत्तु पयसः परिशोधनार्थ
मारग्वधादिषु वरं मधुना कषायम् ||४४||
सामान्यमेतदुपदिष्टमतो विशेषाद्दोषान् पयोनिपतितान् शमयेद्यथास्वम् |
रोगं स्तनोत्थितमवेक्ष्य भिषग्विदध्या
द्यद्विद्रधावभिहितं बहुशो विधानम् ||४५||
सम्पच्यमानमपि तं तु विनोपनाहैः
सम्भोजनेन खलु पाचयितुं यतेत |
शीघ्रं स्तनो हि मृदुमांसतयोपनद्धः
सर्वं प्रकोथमुपयात्यवदीर्यते च ||४६||
पक्वे तु दुग्धहरिणीः परिहृत्य नाडीः
कृष्णं च चूचुकयुगं विदधीत शस्त्रम् |
आमे विदाहिनि तथैव गते च पाकं
धात्र्याः स्तनौ सततमेव च निर्दुहीत ||४७||
इति सुश्रुतसंहितायां चिकित्सास्थाने विसर्पनाडीस्तनरोगचिकित्सितं नाम सप्तदशोऽध्यायः ||१७||
Last updated on July 8th, 2021 at 09:24 am