Skip to content

06. S`hareera Vichaya S`haareera – S`haareera – C”

चरकसंहता

शारीरस्थानम्‌ ।

षष्ठोऽध्याय: ।

       अथात: शरीरविचयं शारीरं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       शरीरविचय: शरीरोपकारार्थमिष्यते । ज्ञात्वा हि शरीरतत्त्वं शरीरोपकारकरेषु भावेषु ज्ञानमुत्पद्यते । तस्माच्छरीरविचयं प्रशंसन्ति कुशला: ॥३॥

       तत्र शरीरं नाम चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं समयोगवाहि । यदा ह्यस्मिञ्‌ शरीरे धातवो वैषम्यमापद्यन्ते तदा क्लेशं विनाशं वा प्राप्नोति । वैषम्यगमनं हि पुनर्धातूनां वृद्धिह्रासगमनमकार्‌त्स्न्येन प्रकृत्या च ॥४॥

       यौगपद्येन तु विरोधिनां धातूनां वृद्धिह्रासौ भवत: । यद्धि यस्य धातोर्वृद्धिकरं तत्ततो विपरीतगुणस्य धातो: प्रत्यवायकरं संपद्यते ॥५॥

       तदेव तस्माद्भेषजं सम्यगवचार्यमाणं युगपन्न्यूनातिरिक्तानां धातूनां साम्यकरं भवति, अधिकमपकर्षति न्यूनमाप्याययति ॥६॥

       एतावदेव हि भैषज्यप्रयोगे फलमिष्टं स्वस्थवृत्तानुष्ठाने च यावद्धातूनां साम्यं स्यात्‌ । स्वस्था ह्यपि धातूनां साम्यानुग्रहार्थमेव कुशला रसगुणानाहारविकाराश्चं पर्यायेणेच्छन्त्युपयोक्तुं सात्म्यसमाज्ञातान्‌, एकप्रकारभूयिष्ठाश्चोंपयुञ्जानास्तद्विपरीतकरसमाज्ञातया चेष्टया सममिच्छन्ति कर्तुम्‌ ॥७॥

       देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणां च क्रियोपयोग: सम्यक्‌, सर्वातियोगसन्धारणम्‌, असन्धारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनं, स्वस्थवृत्तमेतावद्धातूनां साम्यानुग्रहार्थमुपदिश्यते ॥८॥

       धातव: पुन: शारीरा: समानगुणै: समानगुणभूयिष्ठैर्वाऽप्याहारविकारैरभ्यस्यमानैर्वृद्धिं प्राप्नुवन्ति, ह्रासं तु विपरीतगुणैर्विपरीतगुणभूयिष्ठैर्वाऽप्याहारैरभ्यस्यमानै: ॥९॥

       तत्रेमे शरीरधातुगुणा: संख्यासामर्थ्यकरा:, तद्यथा– गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशद- पिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवा: । तेषु ये गुरवस्ते गुरुभिराहारविकारगुणैरभ्यस्यमानैराप्याय्यन्ते, लघवश्च ह्रसन्ति, लघवस्तु लघुभिराप्याय्यन्ते, गुरुवश्च ह्रसन्ति । एवमेव सर्वधातुगुणानां सामान्ययोगाद्वृद्धि:, विपर्ययाद्‌ध्रास: । तस्मान्मांसमाप्याय्यते मांसेन भूयस्तरमन्येभ्य: शरीरधातुभ्य:, तथा लोहितं लोहितेन, मेदो मेदसां, वसा वसया, अस्थि तरुणास्थ्ना, मज्जा मज्ज्ञा, शुक्रं शुक्रेण, गर्भस्त्वामगर्भेण ॥१०॥

       यत्र त्वेवंलक्षणेन सामान्येन सामान्यवतामाहारविकाराणामसान्निध्यं स्यात्‌, सन्निहितानां वाऽप्ययुक्तत्वान्नोपयोगो घृणित्वादन्यस्माद्वा कारणात्‌, स च धातुरभिवर्धयितव्य: स्यात्‌, तस्य ये समानगुणा: स्युराहारविकारा असेव्याश्च, तत्र समानगुणभूयिष्ठानामन्यप्रकृतीनामप्याहारविकाराणामुपयोग: स्यात्‌ । तद्यथा–शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीत- समाख्यातानां चापरेषां द्रव्याणां, मूत्रक्षये पुनरिक्षुरसवारुणीमण्डद्रवमधुराम्ललवणोपक्लेदिनां, पुरीषक्षये कुल्माषमाषकुष्कुण्डाज- मध्ययवशाकधान्याम्लानां, वातक्षये कटुकतिक्तकषायरूक्षलघुशीतानां, पित्तक्षयेऽम्ललवणकटुकक्षारोष्णतीक्ष्णानां, श्लेष्मक्षये स्निग्धगुरुमधुरसान्द्रपिच्छिलानां द्रव्याणाम्‌ । कर्मापि यद्यस्य धातोर्वृद्धिकरं तत्तदासेव्यम्‌ । एवमन्येषामपि शरीरधातूनां सामान्य- विपर्ययाभ्यां वृद्धिह्रासौ यथाकालं कार्यौ । इति सर्वधातूनामेकैकशोऽतिदेशतश्च वृद्धिह्रासकराणि व्याख्यातानि भवन्ति ॥११॥

       कार्‌त्स्न्येन शरीरवृद्धिकरास्त्विमे भावा भवन्ति, तद्यथा-कालयोग:, स्वभावसंसिद्धि:, आहारसौष्ठवम्‌, अविघातश्चेति ॥१२॥

       बलवृद्धिकरास्त्विमे भावा भवन्ति । तद्यथा–बलवत्पुरुषे देशे जन्म बलवत्पुरुषे काले च, सुखश्च कालयोग:, बीजक्षेत्र गुणसंपच्च, आहारसंपच्च, शरीरसंपच्च, सात्म्यसंपच्च, सत्त्वसंपच्च, स्वभावसंसिद्धिश्च, यौवनं च, कर्म च, संहर्षश्चेति ॥१३॥

       आहारपरिणामकरास्त्विमे भावा भवन्ति । तद्यथा–ऊष्मा, वायु:, क्लेद:, स्नेह:, काल:, समयोगश्चेति ॥१४॥

       तत्र तु खल्वेषामूष्मादीनामाहारपरिणामकराणां भावानामिमे कर्मविशेषा भवन्ति । तद्यथा–ऊष्मा पचति, वायुरपकर्षति, क्लेद: शैथिल्यमापादयति, स्नेहो मार्दवं जनयति, काल: पर्याप्तिमभिनिर्वर्तयति, समयोगस्त्वेषां परिणामधातुसाम्यकर: संपद्यते ॥१५॥

       परिणमतस्त्वाहारस्य गुणा: शरीरगुणभावमापद्यन्ते यथास्वमविरुद्धा:, विरुद्धाश्च विहन्युर्विंहताश्च विरोधिभि: शरीरम्‌ ॥१६॥     

       शरीरगुणा: पुनर्द्विविधा: संग्रहेण–मलभूता:, प्रसादभूताश्च। तत्र मलभूतास्ते ये शरीरस्याबाधकरा: स्यु: । तद्यथा– शरीरच्छिद्रेषूपदेहा: पृथग्जन्मानो बहिर्मुखा:, परिपक्वाश्च धातव:, प्रकुपिताश्च वातपित्तश्लेष्माण:, ये चान्येऽपि केचिच्छरीरे तिष्ठन्तो भावा: शरीरस्योपघातायोपपद्यन्ते, सर्वांस्तान्मले संचक्ष्महे, इतरांस्तु प्रसादे, गुर्वादीश्चं द्रवान्तान्‌ गुणभेदेन, रसादीश्चं शुक्रान्तान्‌ द्रव्यभेदेन ॥१७॥

       तेषां सर्वेषामेव वातपित्तश्लेष्माणो दुष्टा दूषयितारो भवन्ति, दोषस्वभावात्‌ । वातादीनां पुनर्धात्वन्तरे कालान्तरे प्रदुष्टानां विविधाशितपीतीयेऽध्याये विज्ञानान्युक्तानि । एतावत्येव दुष्टदोषगतिर्यावत्‌ संस्पर्शनाच्छरीरधातूनाम्‌ । प्रकृतिभूतानां तु खलु वातादीनां फलमारोग्यम्‌ । तस्मादेषां प्रकृतिभावे प्रयतितव्यं बुद्धिमद्भिरिति ॥१८॥

       भवति चात्र–

       शरीरं सर्वथा सर्वं सर्वदा वेद यो भिषक्‌ ।

       आयुर्वेदं स कार्‌त्स्न्येन वेद लोकसुखप्रदम्‌ ॥१९॥

       एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच–श्रुतमेतद्यदुक्तं भगवता शरीराधिकारे वच: । किन्नु खलु गर्भस्याङ्गं पूर्वमभिनिर्वर्तते कुक्षौ, कुतो मुख: कथं चान्तर्गतस्तिष्ठति, किमाहारश्च वर्तयति, कथंभूतश्च निष्क्रामति, कैश्चायमाहारोपचारैर्जात: सद्यो हन्यते, कैरव्याधिरभिवर्धते, किं चास्य देवादिप्रकोपनिमित्ता विकारा: संभवन्ति आहोस्विन्न, किंचास्य कालकालमृत्य्वोर्भावाभावयोर्भगवानध्यवस्यति, किंचास्य परमायु:, कानि चास्य परमायुषो निमित्तानीति ॥२०॥

       तमेवमुक्तवन्तमग्निवेशं भगवान्‌ पुनर्वसुरात्रेय उवाच–पूर्वमुक्तमेतद्गर्भावक्रान्तौ यथाऽयमभिनिर्वर्तते कुक्षौ, यच्चास्य यदा संतिष्ठतेऽङ्गजातम्‌ । विप्रतिवादास्त्वत्र बहुविधा: सूत्रकृतामृषीणां सन्ति सर्वेषां, तानपि निबोधोच्यमानान्‌–शिर: पूर्वमभिनिर्वर्तते कुक्षाविति कुमारशिरा भरद्वाज: पश्यति, सर्वेन्द्रियाणां तदधिष्ठानमिति कृत्वा, हृदयमिति काङ्कायनो बाह्लीकभिषक्‌, चेतनाधिष्ठानत्वात्‌, नाभिरिति भद्रकाप्य:, आहारागम इति कृत्वा, पक्वाशयगुदमिति भद्रशौनक:, मारुताधिष्ठानत्वात्‌, हस्तपादमिति बडिश:, तत्करणत्वात्‌ पुरुषस्य, इन्द्रियाणीति जनको वैदेह:, तान्यस्य बुद्ध्याधिष्ठानानीति कृत्वा, परोक्षत्वादचिन्त्यमिति मारीचि: कश्यप:, सर्वाङ्गाभिनिर्वृत्तिर्युगपदिति धन्वन्तरि:, तदुपपन्नं, सर्वाङ्गानां तुल्यकालाभिनिर्वृत्तत्वाद्धृदयप्रभृतीनाम्‌ । सर्वाङ्गानां ह्यस्य हृदयं मूलमधिष्ठानं च केषाञ्चिद्भावानाम्‌, नच तस्मात्‌ पूर्वाभिनिर्वृत्तिरेषां, तस्माद्धृदयप्रभृतीनां सर्वाङ्गानां तुल्यकालाभिनिर्वृत्ति:, सर्वे भावा ह्यन्योन्यप्रतिबद्धा:, तस्माद्यथाभूतदर्शनं साधु ॥२१॥

       गर्भस्तु खलु मातु: पृष्ठाभिमुख ऊर्ध्वशिरा: सङ्कुच्याङ्गान्यास्तेऽन्त:कुक्षौ ॥२२॥

       व्यपगतपिपासाबुभुक्षस्तु खलु गर्भ: परतन्त्रवृत्तिर्मातरमाश्रित्य वर्तयत्युपस्नेहोपस्वेदाभ्यां गर्भाशये सदसद्भूताङ्गावयव:, तदनन्तरं ह्यस्य कश्चिल्लोमकूपायनैरुपस्नेह: कश्चिन्नाभिनाड्ययनै: । नाभ्यां ह्यस्य नाडी प्रसक्ता, नाड्यां चापरा, अपरा चास्य मातु: प्रसक्ता हृदये, मातृहृदयं ह्यस्य तामपरामभिसंप्लवते सिराभि: स्यन्दमानाभि:, स तस्य रसो बलवर्णकर: संपद्यते, स च सर्वरसवानाहार: । स्त्रिया ह्यापन्नगर्भायास्त्रिधा रस: प्रतिपद्यते-स्वशरीरपुष्टये, स्तनाय, गर्भवृद्धये च । स तेनाहारेणोपष्टब्ध: (परतन्त्रवृत्तिर्मातरमाश्रित्य) वर्तयत्यन्तर्गत: ॥२३॥

       स चोपस्थितकाले जन्मनि प्रसूतिमारुतयोगात्‌ परिवृत्त्यावाक्‌शिरा निष्क्रामत्यपत्यपथेन, एषा प्रकृति:, विकृति: पुनरतोऽन्यथा । परं त्वत: स्वतन्त्रवृत्तिर्भवति ॥२४॥

       तस्याहारोपचारौ जातिसूत्रीयोपदिष्टावविकारकरौ चाभिवृद्धिकरौ भवत: ॥२५॥

       ताभ्यामेव च विषमसेविताभ्यां जात: सद्य उपहन्यते तरुरिवाचिरव्यपरोपितो वातातपाभ्यामप्रतिष्ठितमूल: ॥२६॥

       आप्तोपदेशादद्भुतरूपदर्शनात्‌ समुत्थानलिङ्गचिकित्सितविशेषाच्चादोषप्रकोपानुरूपा देवादिप्रकोपनिमित्ता विकारा: समुपलभ्यन्ते ॥२७॥

       कालकालमृत्य्वोस्तु खलु भावाभावयोरिदमध्यवसितं न:– ‘य: कश्चिन्‌ म्रियते स काल एव म्रियते, न हि कालच्छिद्रमस्ति’ इत्येके भाषन्ते । तच्चासम्यक्‌ । न ह्यच्छिद्रता सच्छिद्रता वा कालस्योपपद्यते, कालस्वलक्षणस्वभावात्‌ । तत्राहुरपरे– यो यदा म्रियते स तस्य नियतो मृत्युकाल:, स सर्वभूतानां सत्य:, समक्रियत्वादिति । एतदपि चान्यथाऽर्थग्रहणम्‌ । न हि कश्चिन्न म्रियत इति समक्रिय: । कालो ह्यायुष: प्रमाणमधिकृत्योच्यते । यस्य चेष्टं यो यदा म्रियते स तस्य मृत्युकाल इति, तस्य सर्वे भावा यथास्वं नियतकाला भविष्यन्ति, तच्च नोपपद्यते, प्रत्यक्षं ह्यकालाहारवचनकर्मणां फलमनिष्टं, विपर्यये चेष्टं, प्रत्यक्षतश्चोपलभ्यते खलु कालाकालव्यक्तिस्तासु तास्ववस्थासु तं तमर्थमभिसमीक्ष्य, तद्यथा–कालोऽयमस्य व्याधेराहारस्यौषधस्य प्रतिकर्मणो विसर्गस्य, अकालो वेति । लोकेऽप्येतद्भवति–काले देवो वर्षत्यकाले देवो वर्षति, काले शीतमकाले शीतं, काले  तपत्यकाले तपति, काले पुष्पफलमकाले च पुष्पफलमिति । तस्मादुभयमस्ति–काले मृत्युरकाले च, नैकान्तिकमत्र । यदि ह्यकाले मृत्युर्न स्यान्नियतकालप्रमाणमायु: सर्वं स्यात्‌, एवं गते हिताहितज्ञानमकारणं स्यात्‌, प्रत्यक्षानुमानोपदेशाश्चाप्रमाणानि स्युर्ये प्रमाणभूता: सर्वतन्त्रेषु, यैरायुष्याण्यनायुष्याणि चोपलभ्यन्ते । वाग्वस्तुमात्रमेतद्वादमृषयो मन्यन्ते–नाकाले मृत्युरस्तीति ॥२८॥

       वर्षशतं खल्वायुष: प्रमाणमस्मिन्‌ काले ॥२९॥

       तस्य निमित्तं प्रकृतिगुणात्मसंपत्‌ सात्म्योपसेवनं चेति ॥३०॥

       तत्र श्लोका:–

      शरीरं यद्यथा तच्च वर्तते क्लिष्टमामयै: ।

       यथा क्लेशं विनाशं च याति ये चास्य धातव: ॥३१॥

       वृद्धिह्रासौ यथा तेषां क्षीणानामौषधं च यत्‌ ।

       देहवृद्धिकरा भावा बलवृद्धिकराश्च ये ॥३२॥

       परिणामकरा भावा या च तेषां पृथक्‌ क्रिया ।

       मलाख्या: संप्रसादाख्या धातव: प्रश्ना एव च ॥३३॥

       नवको निर्णयश्चास्य विधिवत्‌ संप्रकाशित: ।

       तथ्य: शरीरविचये शारीरे परमर्षिणा ॥३४॥

       इत्याग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते शरीरस्थाने शरीरविचयशारीरं नाम षष्ठोऽध्याय: ॥६॥

Last updated on June 11th, 2021 at 06:18 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English