Skip to content

24. प्रतिश्यायप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

उत्तरतन्त्रम्‌ ।

चतुर्विंशतितमोऽध्यायः।

अथातः प्रतिश्यायप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

नारीप्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः |
सन्धारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम् ||३||

चयं गता मूर्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम् |
प्रकोप्यमाणा विविधैः प्रकोपणैर्नृणां प्रतिश्यायकरा भवन्ति हि ||४||

शिरोगुरुत्वं क्षवथोः प्रवर्तनं तथाऽङ्गमर्दः परिहृष्टरोमता |
उपद्रवाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः ||५||

आनद्धा पिहिता नासा तनुस्रावप्रवर्तिनी |
गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा ||६||

स्वरोपघातश्च भवेत् प्रतिश्यायेऽनिलात्मके |
उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके ||७||

कृशोऽतिपाण्डुः सन्तप्तो भवत्तृष्णानि(भि)पीडितः |
सधूमं सहसा वह्निं वमतीव च मानवः ||८||

कफः कफकृते घ्राणाच्छुक्लः शीतः स्रवेन्मुहुः |
शुक्लावभासः शूनाक्षो भवेद्गुरुशिरोमुखः ||९||

शिरोगलौष्ठतालूनां कण्डूयनमतीव च |
भूत्वा भूत्वा प्रतिश्यायो योऽकस्माद्विनिवर्तते ||१०||

सम्पक्वो वाऽप्यपक्वो वा स सर्वप्रभवः स्मृतः |
लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे ||११||

रक्तजे तु प्रतिश्याये रक्तास्रावः प्रवर्तते |
ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः ||१२||

दुर्गन्धोच्छ्वासवदनस्तथा गन्धान्न वेत्ति च |
मूर्च्छन्ति चात्र कृमयः श्वेताः स्निग्धास्तथाऽणवः ||१३||

कृमिमूर्धविकारेण समानं चास्य लक्षणम् |
प्रक्लिद्यति पुनर्नासा पुनश्च परिशुष्यति ||१४||

मुहुरानह्यते चापि मुहुर्विव्रियते तथा |
निःश्वासोच्छ्वासदौर्गन्ध्यं तथा गन्धान्न वेत्ति च ||१५||

एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम् |
सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः ||१६||

कालेन रोगजनना जायन्ते दुष्टपीनसाः |
बाधिर्यमान्ध्यमघ्राणं घोरांश्च नयनामयान् |
कासाग्निसादशोफांश्च वृद्धाः कुर्वन्ति पीनसाः ||१७||

नवं प्रतिश्यायमपास्य सर्वमुपाचरेत् सर्पिष एव पानैः |
स्वेदैर्विचित्रैर्वमनैश्च युक्तैः कालोपपन्नैरवपीडनैश्च ||१८||

अपच्यमानस्य हि पाचनार्थं स्वेदो हितोऽम्लैरहिमं च भोज्यम् |
निषेव्यमाणं पयसाऽऽर्द्रकं वा सम्पाचयेदिक्षुविकारयोगैः ||१९||

पक्वं घनं चाप्यवलम्बमानं शिरोविरेकैरपकर्षयेत्तम् |
विरेचनास्थापनधूमपानैरवेक्ष्य दोषान् कवलग्रहैश्च ||२०||

निवातशय्यासनचेष्टनानि मूर्ध्नो गुरूष्णं च तथैव वासः |
तीक्ष्णा विरेकाः शिरसः सधूमा रूक्षं यवान्नं विजया च सेव्या ||२१||

शीताम्बुयोषिच्छिशिरावगाहचिन्तातिरूक्षाशनवेगरोधान् |
शोकं च मद्यानि नवानि चैव विवर्जयेत् पीनसरोगजुष्टः ||२२||

छर्द्यङ्गसादज्वरगौरवार्तमरोचकारत्यतिसारयुक्तम् |
विलङ्घनैः पाचनदीपनीयैरुपाचरेत् पीनसिनं यथावत् ||२३||

बहुद्रवैर्वातकफोपसृष्टं प्रच्छर्दयेत् पीनसिनं वयःस्थम् |
उपद्रवांश्चापि यथोपदेशं स्वैर्भेषजैर्भोजनसंविधानैः |
जयेद्विदित्वा मृदुतां गतेषु प्राग्लक्षणेषूक्तमथादिशेच्च ||२४||

वातिके तु प्रतिश्याये पिबेत् सर्पिर्यथाक्रमम् |
पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च ||२५||

नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम् |
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम् ||२६||

परिषेकान् प्रदेहांश्च कुर्यादपि च शीतलान् |
श्रीसर्जरसपत्तङ्गप्रियङ्गुमधुशर्कराः ||२७||

द्राक्षामधूलिकागोजीश्रीपर्णीमधुकैस्तथा |
युज्यन्ते कवलाश्चात्र विरेको मधुरैरपि ||२८||

धवत्वक्त्रिफलाश्यामातिल्वकैर्मधुकेन च |
श्रीपर्णीरजनीमिश्रैः क्षीरे दशगुणे पचेत् ||२९||

तैलं कालोपपन्नं तन्नस्यं स्यादनयोर्हितम् |
कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया ||३०||

यवाग्वा वामयेद्वान्तः कफघ्नं क्रममाचरेत् |
उभे बले बृहत्यौ च विडङ्गं सत्रिकण्टकम् ||३१||

श्वेतामूलं सदाभद्रां वर्षाभूं चात्र संहरेत् |
तैलमेभिर्विपक्वं तु नस्यमस्योपकल्पयेत् ||३२||

सरलाकिणिहीदारुनिकुम्भेङ्गुदिभिः कृताः |
वर्तयश्चोपयोज्याः स्युर्धूमपाने यथाविधि ||३३||

सर्पींषि कटुतिक्तानि तीक्ष्णधूमाः कटूनि च |
भेषजान्युपयुक्तानि हन्युः सर्वप्रकोपजम् ||३४||

रसाञ्जने सातिविषे मुस्तायां भद्रदारुणि |
तैलं विपक्वं नस्यार्थे विदध्याच्चात्र बुद्धिमान् ||३५||

मुस्ता तेजोवती पाठा कट्फलं कटुका वचा |
सर्षपाः पिप्पलीमूलं पिप्पल्यः सैन्धवाग्निकौ ||३६||

तुत्थं करञ्जबीजं च लवणं भद्रदारु च |
एतैः कृतं कषायं तु कवले सम्प्रयोजयेत् ||३७||

हितं मूर्धविरेके च तैलमेभिर्विपाचितम् |
क्षीरमर्धजले क्वाथ्यं जाङ्गलैर्मृगपक्षिभिः ||३८||

पुष्पैर्विमिश्रं जलजैर्वातघ्नैरौषधैरपि |
हिमे क्षीरावशिष्टेऽस्मिन् घृतमुत्पाद्य यत्नतः ||३९||

सर्वगन्धसितानन्तामधुकं चन्दनं तथा |
आवाप्य विपयेद्भूयो दशक्षीरं तु तद्घृतम् ||४०||

नस्ये प्रयुक्तमुद्रिक्तान् प्रतिश्यायान् व्यपोहति |
यथास्वं दोषशमनैस्तैलं कुर्याच्च यत्नतः ||४१||

समूत्रपित्ताश्चोद्दिष्टाः क्रियाः कृमिषु योजयेत् |
यापनार्थं कृमिघ्नानि भेषजानि च बुद्धिमान् ||४२||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे प्रतिश्यायप्रतिषेधो नाम चतुर्विंशतितमोऽध्यायः ||२४||

Last updated on July 8th, 2021 at 11:49 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English