Skip to content

07. Yantra Vidhi – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

सप्तमोऽध्यायः

 अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

यन्त्रशतमेकोत्तरम्; अत्र हस्तमेव प्रधानतमं यन्त्राणामवगच्छ, (किं कारणं? यस्माद्धस्तादृते यन्त्राणामप्रवृत्तिरेव) तदधीनत्वाद्यन्त्रकर्मणाम् ||३||

तत्र, मनःशरीराबाधकराणि शल्यानि; तेषामाहरणोपायो यन्त्राणि ||४||

तानि षट्प्रकाराणि; तद्यथा- स्वस्तिकयन्त्राणि, सन्दंशयन्त्राणि, तालयन्त्राणि, नाडीयन्त्राणि, शलाकायन्त्राणि, उपयन्त्राणि चेति ||५||

तत्र चतुर्विंशतिः स्वस्तिकयन्त्राणि, द्वे सन्दंशयन्त्रे, द्वे एव तालयन्त्रे, विंशतिर्नाड्यः, अष्टाविंशतिः शलाकाः, पञ्चविंशतिरुपयन्त्राणि ||६||

तानि प्रायशो लौहानि भवन्ति; तत्प्रतिरूपकाणि वा तदलाभे ||७||

तत्र, नानाप्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां प्रायशः सदृशानि; तस्मात्तत्सारूप्यादागमादुपदेशादन्ययन्त्रदर्शनाद्युक्तितश्च कारयेत् ||८||

समाहितानि यन्त्राणि खरश्लक्ष्णमुखानि च |

सुदृढानि सुरूपाणि सुग्रहाणि च कारयेत् ||९||

तत्र स्वस्तिकयन्त्राणि- अष्टादशाङ्गुलप्रमाणानि, सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्जारशृगालमृगैर्वारुककाककङ्ककुररचासभासशशघात्युलूकचिल्लिश्येन- गृध्रक्रौञ्चभृङ्गराजाञ्जलिकर्णावभञ्जननन्दीमुखमुखानि, मसूराकृतिभिः कीलैरवबद्धानि, मूलेऽङ्कुशवदावृत्तवारङ्गाणि, अस्थिविदष्टशल्योद्धरणार्थमुपदिश्यन्ते ||१०||

सनिग्रहोऽनिग्रहश्च सन्दंशौ षोडशाङ्गुलौ भवतः, त्वङ्मांससिरास्नायुगतशल्योद्धरणार्थमुपदिश्येते ||११||

तालयन्त्रे – द्वादशाङ्गुले मत्स्यतालवदेकतालद्वितालके,

कर्णनासानाडीशल्यानामाहरणार्थम् ||१२||

नाडीयन्त्राणि – अनेकप्रकाराणि, अनेकप्रयोजनानि, एकतोमुखान्युभयतोमुखानि च; तानि स्रोतोगतशल्योद्धरणार्थं, रोगदर्शनार्थम्, आचूषणार्थं, क्रियासौकर्यार्थं चेति; तानि स्रोतोद्वारपरिणाहानि, यथायोगदीर्घाणि च |

तत्र भगन्दरार्शोव्रणबस्त्युत्तरबस्तिमूत्रवृद्धिदकोदरधूमनिरुद्धप्रकशसन्निरुद्धगुदयन्त्राण्यलाबूशृङ्गयन्त्राणि चोपरिष्टाद्वक्ष्यामः ||१३||

शलाकायन्त्राण्यपि नानाप्रकाराणि, नानाप्रयोजनानि, यथायोगपरिणाहदीर्घाणि च; तेषां गण्डूपदसर्पफणशरपुङ्खबडिशमुखे द्वे द्वे, एषणव्यूहनचालनाहरणार्थमुपदिश्येते; मसूरदलमात्रमुखे द्वे किञ्चिदानताग्रे स्रोतोगतशल्योद्धरणार्थं; षट् कार्पासकृतोष्णीषाणि, प्रमार्जनक्रियासु; त्रीणि दर्व्याकृतीनि खल्लमुखानि, क्षारौषधप्रणिधानार्थं; त्रीण्यन्यानि जाम्बववदनानि, त्रीण्यङ्कुशवदनानि, षडेवाग्निकर्मस्वभिप्रेतानि; नासार्बुदहरणार्थमेकं कोलास्थिदलमात्रमुखं खल्लतीक्ष्णौष्ठं; अञ्जनार्थमेकं कलायपरिमण्डलमुभयतो मुकुलाग्रं; मूत्रमार्गविशोधनार्थमेकं मालतीपुष्पवृन्ताग्रप्रमाणपरिमण्डलमिति ||१४||

उपयन्त्राण्यपि- रज्जुवेणिकापट्टचर्मान्तवल्कललतावस्त्राष्ठीलाश्ममुद्गरपाणिपादतलाङ्गुलिजिह्वा- दन्तनखमुखबालाश्वकटकशाखाष्ठीवनप्रवाहणहर्षायस्कान्तमयानि क्षाराग्निभेषजानि चेति ||१५||

एतानि देहे सर्वस्मिन् देहस्यावयवे तथा |

सन्धौ कोष्ठे धमन्यां च यथायोगं प्रयोजयेत् ||१६||

यन्त्रकर्माणि तु- निर्घातनपूरणबन्धनव्यूहनवर्तनचालनविवर्तनविवरणपीडनमार्गविशोधनविकर्षणाहरणाञ्छनोन्नमन- विनमनभञ्जनोन्मथनाचूषणैषणदारणर्जूकरणप्रक्षालनप्रधमनप्रमार्जनानि चतुर्विंशतिः ||१७||

स्वबुद्ध्या चापि विभजेद्यन्त्रकर्माणि बुद्धिमान् |

असङ्ख्येयविकल्पत्वाच्छल्यानामिति निश्चयः ||१८||

तत्र, अतिस्थूलम्, असारम्, अतिदीर्घम्, अतिह्रस्वम्, अग्राहि, विषमग्राहि, वक्रं, शिथिलम्, अत्युन्नतम्, मृदुकीलं, मृदुमुखं, मृदुपाशम्, इति द्वादश यन्त्रदोषाः ||१९||

एतैर्दोषैर्विनिर्मुक्तं यन्त्रमष्टादशाङ्गुलम् |

प्रशस्तं भिषजा ज्ञेयं तद्धि कर्मसु योजयेत् ||२०||

दृश्यं सिंहमुखाद्यैस्तु गूढं कङ्कमुखादिभिः |

निर्हरेत शनैः शल्यं शास्त्रयुक्तिव्यपेक्षया ||२१||

नि(वि)वर्तते साध्ववगाहते च शल्यं निगृह्योद्धरते च यस्मात् |

यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधि(वि)कारि चैव ||२२||

इति सुश्रुतसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम सप्तमोऽध्यायः ||७||

Last updated on May 24th, 2021 at 06:00 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English