Skip to content

14. S`hon`itavarn`aneeya – Sootra – S”

सुश्रुतसंहिता ।

सूत्रस्थानम्‌ ।

चतुर्दशोऽध्याय: ।

       अथात: शोणितवर्णनीयमध्यायं व्याख्यास्याम: ॥१॥

       यथोवाच भगवान्‌ धन्वन्तरि: ॥२॥

       तत्र पाञ्चभौतिकस्य चतुर्विधस्य षड्‌रसस्य द्विविधवीर्यस्याष्टविधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूत: सार: परमसूक्ष्म: स रस:’ इत्युच्यते, तस्य हृदयं स्थानं, स हृदयाच्चतुर्विंशतिधमनीरनुप्रविश्योर्ध्वगा दश दशाधोगामिन्यश्चतस्त्रश्च तिर्यग्गा: कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति यापयति चादृष्टहेतुकेन कर्मणा । तस्य शरीरमनुसरतोऽनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतै: । तस्मिन्‌ सर्वशरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासा – किमयं सौम्यस्तैजस? इति । अत्रोच्यते – स खलु द्रवानुसारी स्नेहनजीवनतर्पणधारणादिभिर्विशेषै: सौम्य इत्यवगम्यते ॥३॥

       स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति ॥४॥

श्लोकौ चात्र भवत: –

       रञ्जितास्तेजसा त्वाप: शरीरस्थेन देहिनाम्‌ ॥

       अव्यापन्ना: प्रसन्नेन रक्तमित्यभिधीयते ॥५॥

       रसादेव स्त्रिया रक्तं रज:संज्ञं प्रवर्तते ॥

       तद्वर्षाद्वादशादूर्ध्वं याति पञ्चाशत: क्षयम्‌ ॥६॥

       आर्तवं शोणितं त्वाग्नेयम्‌, अग्नीषोमीयत्वाद्गर्भस्य ॥७॥

       पाञ्चभौतिकं त्वपरे जीवरक्तमाहुराचार्या: ॥८॥

       विस्रता द्रवता राग: स्पन्दनं लघुता तथा ॥

       भूम्यादीनां गुणा ह्येते दृश्यन्ते चात्र शोणिते ॥९॥

       रसाद्रक्तं ततो मांसं मांसान्मेद: प्रजायते ॥

       मेदसोऽस्थि ततो मज्जा मज्ज्ञ: शुक्रं तु जायते ॥१०॥

       तत्रैतेषां धातूनामन्नपानरस: प्रीणयिता ॥११॥

       रसजं पुरुषं विद्याद्रसं रक्षेत्‌ प्रयत्नत: ।

       अन्नात्पानाच्च मतिमानाचाराच्चाप्यतन्द्रित: ॥१२॥

       तत्र रस’गतौ धातु:, अहरहर्गच्छतीत्यतो रस: ॥१३॥

       स खलु त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला एकैकस्मिन्‌ धाताववतिष्ठते, एवं मासेन रस: शुक्रं स्त्रीणां चार्तवं भवति ॥१४॥

भवति चात्र –

       अष्टादशसहस्राणि सङ्ख्या ह्यस्मिन्‌ समुच्चये ॥

       कलानां नवति: प्रोक्ता स्वतन्त्रपरतन्त्रयो: ॥१५॥

       स शब्दार्चिर्जलसन्तानवदणुना विशेषेणानुधावत्येवं शरीरं केवलम्‌ ॥१६॥

       वाजीकरण्यस्त्वोषधय: स्वबलगुणोत्कर्षाद्विरेचनवदुपयुक्ता: शुक्रं शीघ्रं विरेचयन्ति ॥१७॥

       यथाहि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तुं, नैव नास्तीति, अथ चास्ति, सतां भावानामभिव्यक्तिरिति ज्ञात्वा, केवलं सौक्ष्म्यान्नाभिव्यज्यते, स एव विवृतपत्रकेशरे पुष्पे कालान्तरेणाभिव्यक्तिं गच्छति, एवं बालानामपि वय:परिणामाच्छुक्रप्रादुर्भावो भवति, रोमराज्यादयश्च विशेषा नारीणाम्‌ ॥१८॥

       स एवान्नरसो वृद्धानां (जरा)परिपक्वशरीरत्वादप्रीणनो भवति ॥१९॥

       त एते शरीरधारणाद्धातव इत्युच्यन्ते ॥२०॥

       तेषां क्षयवृद्धी शोणितनिमित्ते, तस्मात्तदधिकृत्य वक्ष्याम: । तत्र, फेनिलमरुणं कृष्णं परुषं तनु शीघ्रगमस्कन्दि च वातेन दुष्टं, नीलं पीतं हरितं श्यावं विस्रमनिष्टं पिपीलिकामक्षिकाणामस्कन्दि च पित्तेन दुष्टं, गैरिकोदकप्रतीकाशं स्निग्धं शीतलं बहलं पिच्छिलं चिरस्रावि मांसपेशीप्रभं च श्लेष्मदुष्टं, सर्वलक्षणसंयुक्तं काञ्जिकाभं विशेषतो दुर्गन्धि च सन्निपातदुष्टं, द्विदोषलिङ्गं संसृष्टम्‌ ॥२१॥

       इन्द्रगोपकप्रतीकाशमसंहतमविवर्णं च प्रकृतिस्थं जानीयात्‌ ॥२२॥

       विस्राव्याण्यन्यत्र वक्ष्याम: ॥२३॥

       अथाविस्राव्या: – सर्वाङ्गशोफ:, क्षीणस्य चाम्लभोजननिमित्त:, पाण्डुरोग्यर्शसोदरिशोषिगर्भिणीनां च श्वयथव: ॥२४॥

       शस्त्रविस्रावणं द्विविधं – प्रच्छानं, सिराव्यधनं च ॥२५॥

       तत्र, ऋज्वसंकीर्णं सूक्ष्मं सममनवगाढमनुत्तानमाशु च शस्त्रं पातयेन्मर्मसिरास्नायुसन्धीनां चानुपघाति ॥२६॥

       तत्र, दुर्दिने दुर्विद्धे शीतवातयोरस्विन्ने भुक्तमात्रे स्कन्दत्वाच्छोणितं न स्रवत्यल्पं वा स्रवति ॥२७॥

       मदमूर्च्छाश्रमार्तानां वातविण्मूत्रसंगिनाम्‌ ॥

       निद्राभिभूतभीतानां नृणां नासृक्‌ प्रवर्तते ॥२८॥

       तद्दुष्टं शोणितमनिर्ह्रियमाणं शोफदाहरागपाकवेदना जनयेत्‌ ॥२९॥

       अत्युष्णेऽतिस्विन्नेऽतिविद्धेऽज्ञैर्विस्रावितमतिप्रवर्तते, तदतिप्रवृत्तं शिरोऽभितापमान्ध्यमधिमन्थतिमिरप्रादुर्भावं धातुक्षयमाक्षेपकं दाहं पक्षाघातमेकाङ्गविकारं हिक्कां श्वासकासौ पाण्डुरोगं मरणं चापादयति ॥३०॥

       तस्मान्न शीते नात्युष्णे नास्विन्ने नातितापिते ॥

       यवागूं प्रतिपीतस्य शोणितं मोक्षयेद्भिषक्‌ ॥३१॥

      सम्यग्गत्वा यदा रक्तं स्वयमेवावतिष्ठते ॥

       शुद्धं तदा विजानीयात्‌ सम्यग्विस्रावितं च तत्‌ ॥३२॥

       लाघवं वेदनाशान्तिर्व्याधेर्वेगपरिक्षय:॥

       सम्यग्विस्राविते लिङ्गं प्रसादो मनसस्तथा ॥३३॥

       त्वग्दोषा ग्रन्थय: शोफा रोगा: शोणितजाश्च ये॥

       रक्तमोक्षणशीलानां न भवन्ति कदाचन ॥३४॥

       अथ खल्वप्रवर्तमाने रक्ते एलाशीतशिवकुष्ठतगरपाठाभद्रदारुविडङ्गचित्रकत्रिकटुकागारधूमहरिद्रार्का्ङ्कुरनक्त- मालफलैर्यथालाभं त्रिभिश्चतुर्भि: समस्तैर्वा चूर्णीकृतैर्लवणतैलप्रगाढैर्व्रणमुखमवघर्षयेत्‌, एवं सम्यक्‌ प्रवर्तते ॥३५॥

       अथातिप्रवृत्ते रोध्रमधुकप्रियङ्गुपत्तङ्गगैरिकसर्जरसरसाञ्जनशाल्मलीपुष्पशङ्खशुक्तिमाषयवगोधूमचूर्णै: शनै: शनैर्व्रणमुखमवचूर्ण्याङ्गुल्यग्रेणावपीडयेत्‌ सालसर्जार्जुनारिमेदमेषशृङ्गधवधन्वनत्वग्भिर्वा चूर्णिताभि: क्षौमेण वा ध्मापितेन समुद्रफेनलाक्षाचूर्णैर्वा, यथोक्तैर्व्रणबन्धनद्रव्यैर्गाढं बध्नीयात्‌, शीताच्छादनभोजनागारै: शीतै: प्रदेहपरिषेकैश्चोपचरेत्‌, क्षारेणाग्निना वा दहेद्यथोक्तं, व्यधादनन्तरं तामेवातिप्रवृत्तां सिरां विध्येत्‌, काकोल्यादिक्वाथं वा शर्करामधुमधुरं पाययेत्‌, एणहरिणोरभ्रशशमहिषवराहाणां वा रुधिरं, क्षीरयूषरसै: सुस्निग्धैश्चाश्नीयात्‌, उपद्रवाश्च यथास्वमुपचरेत्‌ ॥३६॥

भवन्ति चात्र –

       धातुक्षयात्‌ स्रुते रक्ते मन्द: संजायतेऽनल: ॥

       पवनश्च परं कोपं याति तस्मात्‌ प्रयत्नत: ॥३७॥

       तं नातिशीतैर्लघुभि: स्निग्धै: शोणितवर्धनै: ॥

       ईषदम्लैरनम्लैर्वा भोजनै: समुपाचरेत्‌ ॥३८॥

       चतुर्विधं यदेतद्धि रुधिरस्य निवारणम्‌ ॥

       संधानं स्कन्दनं चैव पाचनं दहनं तथा ॥३९॥

       व्रणं कषाय: संधत्ते रक्तं स्कन्दयते हिमम्‌ ॥

       तथा संपाचयेद्भस्म दाह: संकोचयेत्‌ सिरा: ॥४०॥

       अस्कन्दमाने रुधिरे संधानानि प्रयोजयेत्‌ ॥

       संधाने भ्रश्यमाने तु पाचनै: समुपाचरेत्‌ ॥४१॥

       कल्पैरेतैस्त्रिभिर्वैद्य: प्रयतेत यथाविधि ॥

       असिद्धिमत्सु चैतेषु दाह: परम इष्यते ॥४२॥

       शेषदोषे यतो रक्ते न व्याधिरतिवर्तते ।

       सावशेषे तत: स्थेयं न तु कुर्यादतिक्रमम्‌ ॥४३॥

       देहस्य रुधिरं मूलं रुधिरेणैव धार्यते ।

       तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थिति: ॥४४॥

       स्रुतरक्तस्य सेकाद्यै: शीतै: प्रकुपितेऽनिले॥

       शोफं सतोदं कोष्णेन सर्पिषा परिषेचयेत्‌ ॥४५॥

       इति सुश्रुतसंहितायां सूत्रस्थाने शोणितवर्णनीयो नाम चतुर्दशोऽध्याय: ॥१४॥

Last updated on May 24th, 2021 at 06:17 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English