सुश्रुतसंहिता ।
अथ उतरतन्त्रम् ।
एकपञ्चाशत्तमोऽध्यायः ।
अथातः श्वासप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
यैरेव कारणैर्हिक्का बहुभिः सम्प्रवर्तते |
तैरेव कारणैः श्वासो घोरो भवति देहिनाम् ||३||
विहाय प्रकृतिं वायुः प्राणोऽथ कफसंयुतः |
श्वासयत्यूर्ध्वगो भूत्वा तं श्वासं परिचक्षते ||४||
क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चधा |
भिद्यते स महाव्याधिः श्वास एको विशेषतः ||५||
प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा |
आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च ||६||
किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्तते |
निषण्णस्यैति शान्तिं च स क्षुद्र इति सञ्ज्ञितः ||७||
तृट्स्वेदवमथुप्रायः कण्ठघुर्घुरिकान्वितः |
विशेषाद्दुर्दिने ताम्येच्छ्वासः स तमको मतः ||८||
घोषेण महताऽऽविष्टः सकासः सकफो नरः |
यः श्वसित्यबलोऽन्नद्विट् सुप्तस्तमकपीडितः ||९||
स शाम्यति कफे हीने स्वपतश्च विवर्धते |
मूर्च्छाज्वराभिभूतस्य ज्ञेयः प्रतमकस्तु सः ||१०||
आध्मातो दह्यमानेन बस्तिना सरुजं नरः |
सर्वप्राणेन विच्छिन्नं श्वस्याच्छिन्नं तमादिशेत् ||११||
निःसञ्ज्ञः पार्श्वशूलार्तः शुष्ककण्ठोऽतिघोषवान् |
संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः ||१२||
मर्मस्वायम्यमानेषु श्वसन्मूढो मुहुश्च यः |
ऊर्ध्वप्रेक्षी हतरवस्तमूर्ध्वश्वासमादिशेत् ||१३||
क्षुद्रः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते |
त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च ||१४||
स्नेहबस्तिं विना केचिदूर्ध्वं चाधश्च शोधनम् |
मृदु प्राणवतां श्रेष्ठं श्वासिनामादिशन्ति हि ||१५||
श्वासे कासे च हिक्कायां हृद्रोगे चापि पूजितम् |
घृतं पुराणं संसिद्धमभयाविडरामठैः ||१६||
सौवर्चलाभयाबिल्वैः संस्कृतं वाऽनवं घृतम् |
पिप्पल्यादिप्रतीवापं सिद्धं वा प्रथमे गणे ||१७||
सपञ्चलवणं सर्पिः श्वासकासौ व्यपोहति |
हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः ||१८||
द्विक्षीरं साधितं सर्पिश्चतुर्गुणजलाप्लुतम् |
कोलमात्रैः पिबेत्तद्धि श्वासकासौ व्यपोहति ||१९||
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा |
कृत्स्ने वृषकषाये वा पचेत् सर्पिश्चतुर्गुणे ||२०||
तन्मूलकुसुमावापं शीतं क्षौद्रेण योजयेत् |
शृङ्गीमधूलिकाभार्गीशुण्ठीतार्क्ष्यसिताम्बुदैः ||२१||
सहरिद्रैः सयष्ट्याह्वैः समैरावाप्य योगतः |
घृतप्रस्थं पचेद्धीमान् शीततोये चतुर्गुणे ||२२||
श्वासं कासं तथा हिक्कां सर्पिरेतन्नियच्छति |
सुवहा कालिका भार्गी शुकाख्या नैचुलं फलम् ||२३||
काकादनी शृङ्गवेरं वर्षाभूर्बृहतीद्वयम् |
कोलमात्रैर्घृतप्रस्थं पचेदेभिर्जलद्विकम् ||२४||
कटूष्णं पीतमेतद्धि श्वासामयविनाशनम् |
सौवर्चलयवक्षारकटुकाव्योषचित्रकैः ||२५||
वचाभयाविडङ्गैश्च साधितं श्वासशान्तये |
गोपवल्ल्युदके सिद्धं स्यादन्यद्द्विगुणे घृतम् ||२६||
पञ्चैतानि हवींष्याहुर्भिषजः श्वासकासयोः |
तालीशतामलक्युग्राजीवन्तीकुष्ठसैन्धवैः ||२७||
बिल्वपुष्करभूतीकसौवर्चलकणाग्निभिः |
पथ्यातेजोवतीयुक्तैः सर्पिर्जलचतुर्गुणम् ||२८||
हिङ्गुपादयुतं सिद्धं सर्वश्वासहरं परम् |
वासाघृतं षट्पलं वा घृतं चात्र हितं भवेत् ||२९||
तैलं दशगुणे सिद्धं भृङ्गराजरसे शुभे |
सेव्यमानं यथान्यायं श्वासकासौ व्यपोहति ||३०||
फलाम्ला विष्किररसाः स्निग्धाः प्रव्यक्तसैन्धवाः |
एणादीनां शिरोभिर्वा कौलत्था वा सुसंस्कृताः ||३१||
हन्युः श्वासं च कासं च संस्कृतानि पयांसि च |
तिमिरस्य च बीजानि कर्कटाख्या च चूर्णिता ||३२||
दुरालभाऽथ पिप्पल्यः कटुकाख्या हरीतकी |
श्वाविन्मयूररोमाणि कोला मागधिकाकणाः ||३३||
भार्गीत्वक् शृङ्गवेरं च शर्करा शल्लकाङ्गजम् |
नृत्तकौण्डकबीजानि चूर्णितानि तु केवलम् ||३४||
पञ्च श्लोकार्धिकास्त्वेते लेहा ये सम्यगीरिताः |
सर्पिर्मधुभ्यां ते लेह्याः कासश्वासार्दितैर्नरैः ||३५||
सप्तच्छदस्य पुष्पाणि पिप्पलीश्चापि मस्तुना |
पिबेत् सञ्चूर्ण्य मधुना धानाश्चाप्यथ भक्षयेत् ||३६||
अर्काङ्कुरैर्भावितानां यवानां साध्वनेकशः |
तर्पणं वा पिबेदेषां सक्षौद्रं श्वासपीडितः ||३७||
शिरीषकदलीकुन्दपुष्पं मागधिकायुतम् |
तण्डुलाम्बुयुतं पीत्वा जयेच्छ्वासानशेषतः ||३८||
कोलमज्जां तालमूलमृष्यचर्ममसीमपि |
लिह्यात् क्षौद्रेण भार्गीं वा सर्पिर्मधुसमायुताम् ||३९||
नीचैःकदम्बबीजं वा सक्षौद्रं तण्डुलाम्बुना |
द्राक्षां हरीतकीं कृष्णां कर्कटाख्यां दुरालभाम् ||४०||
सर्पिर्मधुभ्यां विलिहन् हन्ति श्वासान् सुदारुणान् |
हरिद्रां मरिचं द्राक्षां गुडं रास्नां कणां शटीम् ||४१||
लिह्यात्तैलेन तुल्यानि श्वासार्तो हितभोजनः |
गवां पुरीषस्वरसं मधुसर्पिःकणायुतम् ||४२||
लिह्याच्छ्वासेषु कासेषु वाजिनां वा शकृद्रसम् |
पाण्डुरोगेषु शोथेषु ये योगाः सम्प्रकीर्तिताः ||४३||
श्वासकासापहास्तेऽपि कासघ्ना ये च कीर्तिताः |
भार्गीत्वक् त्र्यूषणं तैलं हरिद्रां कटुरोहिणीम् ||४४||
पिप्पलीं मरिचं चण्डां गोशकृद्रसमेव च |
तलकोटस्य बीजेषु पचेदुत्कारिकां शुभाम् ||४५||
सेव्यमाना निहन्त्येषा श्वासानाशु सुदुस्तरान् |
पुराणसर्पिः पिप्पल्यः कौलत्था जाङ्गला रसाः ||४६||
सुरा सौवीरकं हिङ्गुः मातुलुङ्गरसो मधु |
द्राक्षामलकबिल्वानि शस्तानि श्वासिहिक्किनाम् ||४७||
श्वासहिक्कापरिगतं स्निग्धैः स्वेदैरुपाचरेत् |
आक्तं लवणतैलाभ्यां तैरस्य ग्रथितः कफः ||४८||
खस्थो विलयनं याति मारुतश्च प्रशाम्यति |
स्विन्नं ज्ञात्वा ततश्चैव भोजयित्वा रसौदनम् ||४९||
वातश्लेष्मविबन्धे वा भिषग् धूमं प्रयोजयेत् |
मनःशिलादेवदारुहरिद्राच्छदनामिषैः ||५०||
लाक्षोरुबूकमूलैश्च कृत्वा वर्तीर्विधानतः |
सर्पिर्यवमधुच्छिष्टशालनिर्यासजं तथा ||५१||
शृङ्गबालखुरस्नायुत्वक् समस्तं गवामपि |
तुरुष्कशल्लकीनां च गुग्गुलोः पद्मकस्य च ||५२||
एते सर्वे ससर्पिष्का धूमाः कार्या विजानता |
बलीयसि कफग्रस्ते वमनं सविरेचनम् ||५३||
दुर्बले चैव रूक्षे च तर्पणं हितमुच्यते |
जाङ्गलोरभ्रजैर्मांसैरानूपैर्वा सुसंस्कृतैः ||५४||
निदिग्धिकां चामलकप्रमाणां हिङ्ग्वर्धयुक्तां मधुना सुयुक्ताम् |
लिहन्नरः श्वासनिपीडितो हि श्वासं जयत्येव बलात्र्यहेण ||५५||
यथाऽग्निरिद्धः पवनानुविद्धो वज्रं यथा वा सुरराजमुक्तम् |
रोगास्तथैते खलु दुर्निवाराः श्वासश्च कासश्च विलम्बिका च ||५६||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काश्वासप्रतिषेधो नाम (त्रयोदशोऽध्यायः, आदितः) एकपञ्चाशत्तमोऽध्यायः ||५१||
Last updated on July 9th, 2021 at 05:27 am