Skip to content

26. Sadyovran`a Pratishedha – Uttara – AH”

अष्टाङ्गहृदये (उत्तरस्थानम्‌)

सद्योव्रणप्रतिषेधं षड्विंशोऽध्यायः।

अथातः सद्योव्रणप्रतिषेधं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

सद्योव्रणा ये सहसा सम्भवन्त्यभिघाततः।

अनन्तैरपि तैरङ्गमुच्यते जुष्टमष्टधा॥१॥

घृष्टावकृत्तविच्छिन्नप्रविलम्बितपातितम्‌।

विद्धं भिन्नं विदलितं तत्र घृष्टं लसीकया॥२॥

रक्तलेशेन वा युक्तं सप्लोषं छेदनात्‌ स्रवेत्‌।

अवगाढं ततः कृत्तं, विच्छिन्नं स्यात्ततोऽपि च॥३॥

प्रविलम्बि सशेषेऽस्थ्नि, पतितं पातितं तनोः।

सूक्ष्मास्यशल्यविद्धं तु विद्धं कोष्ठविवर्जितम्‌॥४॥

भिन्नमन्यद्विदलितं मज्जरक्तपरिप्लुतम्‌।

प्रहारपीडनोत्पेषात्‌ सहास्थ्ना पृथुतां गतम्‌॥५॥

सद्यः सद्योव्रणं सञ्चेदथ यष्ट्याह्वसर्पिषा।

तीव्रव्यथं कवोष्णेन बलातैलेन वा पुनः॥६॥

क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च।

कषायशीतमधुरस्निग्धा लेपादयो हिताः॥७॥

सद्योव्रणेष्वायतेषु सन्धानार्थं विशेषतः।

मधुसर्पिश्च युञ्जीत पित्तघ्नीश्च हिमाः क्रियाः॥८॥

ससंरम्भेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम्‌।

उपवासो हितं भुक्तं प्रततं रक्तमोक्षणम्‌॥९॥

घृष्टे विदलिते चैष सुतरामिष्यते विधिः।

तयोर्ह्यल्पं स्रवत्यस्रं पाकस्तेनाशु जायते॥१०॥

अत्यर्थमस्रं स्रवति प्रायशोऽन्यत्र विक्षते।

ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे॥११॥

 स्नेहपानपरीषेकस्वेदलेपोपनाहनम्‌।

स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधितम्‌॥१२॥

इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः।

सप्ताहाद्गतवेगे तु पूर्वोक्तं विधिमाचरेत्‌॥१३॥

प्रायः सामान्यकर्मेदं वक्ष्यते तु पृथक्पृथक्‌।

घृष्टे रुजं निगृह्याशु व्रणे चूर्णानि योजयेत्‌॥१४॥

कल्कादीन्यवकृत्ते तु विच्छिन्नप्रविलम्बिनोः।

सीवनं विधिनोक्तेन बन्धनं चानु पीडनम्‌॥१५॥

असाध्यं स्फुटितं नेत्रमदीर्णं लम्बते तु यत्‌।

सन्निवेश्य यथास्थानमव्याविद्धसिरं भिषक्‌॥१६॥

पीडयेत्‌ पाणिना पद्मपलाशान्तरितेन तत्‌।

ततोऽस्य सेचने नस्ये तर्पिणे च हितं हविः॥१७॥

विपक्वमाजं यष्ट्याह्वजीवकर्षभकोत्पलैः।

सपयस्कैः परं तद्धि सर्वनेत्राभिघातजित्‌॥१८॥

गलपीडाऽवसन्नेऽक्ष्णि वमनोत्कासनक्षवाः।

प्राणायामोऽथवा कार्यः क्रिया च क्षतनेत्रवत्‌॥१९॥

कर्णे स्थानाच्च्युते स्यूते श्रोतस्तैलेन पूरयेत्‌।

कृकाटिकायां छिन्नायां निर्गच्छत्यपि मारुते॥२०॥

समं निवेश्य बन्धीयात्‌ स्यूत्वा शीघ्रं निरन्तरम्‌।

आजेन सर्पिषा चात्र परिषेकः प्रशस्यते॥२१॥

उत्तानोऽन्नानि भुञ्जीत, शयीत च सुयन्त्रितः।

घातं शाखासु तिर्यक्स्थं गात्रे सम्यङ्निवेशिते॥२२॥

स्यूत्वा वेल्लितबन्धेन बध्नीयाद्धनवाससा।

चर्मणा गोष्फणाबन्धः कार्यश्चासङ्गते व्रणे॥२३॥

पादौ विलम्बिमुष्कस्य प्रोक्ष्य नेत्रे च वारिणा।

प्रवेश्य वृषणौ सीव्येत्‌ सेवन्या तुन्नसंज्ञया॥२४॥

कार्यश्च गोष्फणाबन्धः कट्यामावेश्य पट्टकम्‌।

स्नेहसेकं न कुर्वीत तत्र क्लिद्यति हि व्रणः॥२५॥

कालानुसार्यगुर्वेलाजातीचन्दनपर्पटैः।

शिलादार्व्यमृतातुत्थैः सिद्धं तैलं च रोपणम्‌॥२६॥

छिन्नां निश्शेषतः शाखां दग्ध्वा तैलेन युक्तितः।

बन्धीयात्‌ कोशबन्धेन ततो व्रणवदाचरेत्‌॥२७॥

कार्या शल्याहृते विद्धे भङ्गाद्विदलिते क्रिया।

शिरसोऽपहृते शल्ये वालवर्तिं प्रवेशयेत्‌॥२८॥

मस्तुलुङ्गस्रुतेः क्रुद्धो हन्यादेनं चलोऽन्यथा।

व्रणे रोहति चैकैकं शनैरपनयेत्कचम्‌॥२९॥

मस्तुलुङ्गस्रुतौ खादेन्मस्तिष्कनन्यजीवजान्‌।

शल्ये हृतेऽङ्गादन्यस्मात्स्नेहवर्तिं निधापयेत्‌॥३०॥

दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुतशोणिताः।

सेचयेच्चक्रतैलेन सूक्ष्मनेत्रार्पितेन तान्‌॥३१॥

भिन्ने कोष्ठेऽसृजा पूर्णे मूर्च्छाहृत्पार्श्ववेदनाः।

ज्वरो दाहस्तृडाध्मानं भक्तस्यानभिनन्दनम्‌॥३२॥

सङ्गो विण्मूत्रमरुतां श्वासः स्वेदोऽक्षिरक्तता।

लोहगन्धित्वमास्यस्य स्याद्‌ गात्रे च विगन्धता॥३३॥

आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि।

आध्मानेनातिमात्रेण शूलेन च विशस्यते॥३४॥

पक्वाशयस्थे रुधिरे सशूलं गौरवं भवेत्‌।

नाभेरधस्ताच्छीतत्वं खेभ्यो रक्तस्य चागमः॥३५॥

अभिन्नोऽप्याशयः सूक्ष्मैः स्रोतोभिरभिपूर्यते।

असृजा स्यन्दमानेन पार्श्वे मूत्रेण बस्तिवत्‌॥३६॥

तत्रान्तर्लोहितं शीतपादोच्छ्वासकराननम्‌।

रक्ताक्षं पाण्डुवदनमानद्धं च विवर्जयेत्‌॥३७॥

आमाशयस्थे वमनं हितं, पक्वाशयाश्रिते।

विरेचनं निरूहं च निःस्नेहोष्णैर्विशोधनैः॥३८॥

यवकोलकुलत्थानां रसैः स्नेहविवर्जितैः।

भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम्‌॥३९॥

अतिनिःस्रुतरक्तस्तु भिन्नकोष्ठः पिबेदसृक्‌।

क्लिष्टच्छिन्नान्त्रभेदेन कोष्ठभेदो द्विधा स्मृतः॥४०॥

मूर्च्छादयोऽल्पाः प्रथमे, द्वितीये त्वति बाधकाः।

क्लिष्टान्त्रः संशयी देही छिन्नान्त्रो नैव जीवति॥४१॥

यथास्वं मार्गमापन्ना यस्य विण्मूत्रमारुताः।

व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवत्यसंशयम्‌॥४२॥

अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं न त्वतोऽन्यथा।

उत्पिङ्गलशिरोग्रस्तं तदप्येके वदन्ति तु॥४३॥

प्रक्षाल्य पयसा दिग्धं तृणशोणितपांसुभिः।

प्रवेशयेत्क्लृप्तनखो घृतेनाक्तं शनैः शनैः॥४४॥

क्षीरेणार्द्रीकृतं शुष्कं भूरिसर्पिः परिप्लुतम्‌।

अङ्गुल्या प्रमृशेत्कण्ठं जलेनोद्वेजयेदपि॥४५॥

तथाऽन्त्राणि विशन्त्यन्तस्तत्कालं पीडयन्ति च।

व्रणसौक्ष्म्याद्बहुत्वाद्वा कोष्ठमन्त्रमनाविशत्‌॥४६॥

तत्प्रमाणेन जठरं पाटयित्वा प्रवेशयेत्‌।

यथास्थानं स्थिते सम्यगन्त्रे सीव्येदनु व्रणम्‌॥४७॥

स्थानादपेतमादत्ते जीवितं कुपितं च तत्‌।

वेष्टित्वाऽनु पट्टेन घृतेन पिरषेचयेत्‌॥४८॥

पाययेत ततः कोष्णं चित्रातैलयुतं पयः।

मृदुक्रियार्थं शकृतो वायोश्चाधः प्रवृत्तये॥४९॥

अनुवर्तेत वर्षं च यथोक्तां व्रणयन्त्रणाम्‌।

उदरान्मेदसो वर्तिं निर्गतां भस्मना मृदा॥५०॥

अवकीर्य कषायैर्वा श्लक्ष्णैर्मूलैस्ततः समम्‌।

दृढं बध्वा च सूत्रेण वर्द्धयेत्कुशलो भिषक्‌॥५१॥

तीक्ष्णेनाग्निप्रतप्तेन शस्त्रेण सकृदेव तु।

स्यादन्यथा रुगाटोपो मृत्युर्वा छिद्यमानया॥५२॥

सक्षौद्रे च व्रणे बद्धे सुजीर्णेऽन्ने घृतं पिबेत्‌।

क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतम्‌॥५३॥

रुग्दाहजित्सयष्ट्याह्वैः परं पूर्वोदितो विधिः।

मेदोग्रन्थ्युदितं तत्र तैलमभ्यञ्जने हितम्‌॥५४॥

तालीसं पद्मकं मांसीहरेण्वगुरुचन्दनम्‌।

हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः॥५५॥

पक्वं सद्योव्रणेषुक्तं तैलं रोपणमुत्तमम्‌।

गूढप्रहाराभिहते पतिते विषमोच्चकैः॥५६॥

कार्यं वातास्रजित्‌ तृप्तिमर्दनाभ्यञ्जनादिकम्‌।

विश्लिष्टदेहं मथितं क्षीणं मर्माहतं हतम्‌॥५७॥

वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशिनम्‌॥५७.१.२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सद्योव्रणप्रतिषेधो नाम षडिं्‌वशोऽध्यायः॥२६॥

Last updated on September 8th, 2021 at 08:56 am

Ayurveda fraternity is requested to communicate feedbacks/inputs on content related to Ayurveda to the Ministry (webmanager-ayush@gov.in) for necessary amendments.

Font Resize
English